[युधिस्ठिर] मुहूर्तं तावद एकाग्रॊ मनः शरॊत्रे ऽनतरात्मनि धारयित्वापि ते शरुत्वा रॊचतां वचनं मम ॥ 1 ॥
सार्थगम्यम अहं मार्गं न जातु तवत्कृते पुनः गच्छेयं तद गमिष्यामि हित्वा गराम्यसुखान्य उत ॥ 2 ॥
कषेम्यश चैकाकिना गम्यः पन्थाः कॊ ऽसतीति पृच्छ माम अथ वा नेच्छसि परष्टुम अपृच्छन्न अपि मे शृणु ॥ 3 ॥
हित्वा गराम्यसुखाचारं तप्यमानॊ महत तपः अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥ 4 ॥
जुह्वानॊ ऽगनिं यथाकालम उभौ कालाव उपस्पृशन कृशः परिमिताहारश चर्म चीरजटा धरः ॥ 5 ॥
शीतवातातप सहः कषुत्पिपासाश्रमक्षमः तपसा विधिदृष्टेन शरीरम उपशॊषयन ॥ 6 ॥
मनःकर्णसुखा नित्यं शृण्वन्न उच्चावचा गिरः मुदितानाम अरण्येषु वसतां मृगपक्षिणाम ॥ 7 ॥
आजिघ्रन पेशलान गन्धान फुल्लानां वृक्षवीरुधाम नानारूपान वने पश्यन रमणीयान वनौकसः ॥ 8 ॥
वान परस्थजनस्यापि दर्शनं कुलवासिनः नाप्रियाण्य आचरिष्यामि किं पुनर गरामवासिनाम ॥ 9 ॥
एकान्तशीली विमृशन पक्वापक्वेन वर्तयन पितॄन देवांश च वन्येन वाग्भिर अद्भिश च तर्पयन ॥ 10 ॥
एवम आरण्य शास्त्राणाम उग्रम उग्रतरं विधिम सेवमानः परतीक्षिष्ये देहस्यास्य समापनम ॥ 11 ॥
अथ वैकॊ ऽहम एकाहम एकैकस्मिन वनस्पतौ चरन भैक्ष्यं मुनिर मुण्डः कषपयिष्ये कलेवरम ॥ 12 ॥
पांसुभिः समवच्छन्नः शून्यागार परतिश्रयः वृक्षमूलनिकेतॊ वा तयक्तसर्वप्रियाप्रियः ॥ 13 ॥
न शॊचन न परहृष्यंश च तुल्यनिन्दात्मसंस्तुतिः निराशीर निर्ममॊ भूत्वा निर्द्वंद्वॊ निष्परिग्रहः ॥ 14 ॥
आत्मारामः परसन्नात्मा जडान्धबधिराकृतिः अकुर्वाणः परैः कां चित संविदं जातु केन चित ॥ 15 ॥
जङ्गमाजङ्गमान सर्वान न विहिंसंश चतुर्विधान परजाः सर्वाः सवधर्मस्थाः समः पराणभृतः परति ॥ 16 ॥
न चाप्य अवहसन कं चिन न कुर्वन भरुकुटीं कव चित परसन्नवदनॊ नित्यं सर्वेन्द्रियसुसंयतः ॥ 17 ॥
अपृच्छन कस्य चिन मार्गं वरजन येनैव केन चित न देशं न दिशं कां चिद गन्तुम इच्छन विशेषतः ॥ 18 ॥
गमने निरपेक्षश च पश्चाद अनवलॊकयन ऋजुः परणिहितॊ गच्छंस तरस सथावरवर्जकः ॥ 19 ॥
सवभावस तु परयात्य अग्रे परभवन्त्य अशनान्य अपि दवंद्वानि च विरुद्धानि तानि सर्वाण्य अचिन्तयन ॥ 20 ॥
अल्पं वास्वादु वा भॊज्यं पूर्वालाभेन जातुचित अन्येष्व अपि चरँल लाभम अलाभे सप्त पूरयन ॥ 21 ॥
वि धूमे नयस्तमुसले वयङ्गारे भुक्तवज जने अतीतपात्र संचारे काले विगतभिक्षुके ॥ 22 ॥
एककालं चरन भैक्ष्यं गृहे दवे चैव पञ्च च सपृहा पाशान विमुच्याहं चरिष्यामि महीम इमाम ॥ 23 ॥
न जिजीविषुवत किं चिन न मुमूर्षुवद आचरन जीवितं मरणं चैव नाभिनन्दन न च दविषन ॥ 24 ॥
वास्यैकं तक्षतॊ बाहुं चन्दनेनैकम उक्षतः नाकल्याणं न कल्याणं चिन्तयन्न उभयॊस तयॊः ॥ 25 ॥
याः काश चिज जीवता शक्याः कर्तुम अभ्युदय करियाः सर्वास ताः समभित्यज्य निमेषादि वयवस्थितः ॥ 26 ॥
तेषु नित्यम असक्तश च तयक्तसर्वेन्द्रियक्रियः सुपरित्यक्त संकल्पः सुनिर्णिक्तात्म कल्मषः ॥ 27 ॥
विमुक्तः सर्वसङ्गेभ्यॊ वयतीतः सर्ववागुराः न वशे कस्य चित तिष्ठन स धर्मा मातरिश्वनः ॥ 28 ॥
वीतरागश चरन्न एवं तुष्टिं पराप्स्यामि शाश्वतीम तृष्णया हि महत पापम अज्ञानाद अस्मि कारितः ॥ 29 ॥
कुशलाकुशलान्य एके कृत्वा कर्माणि मानवाः कार्यकारण संश्लिष्टं सवजनं नाम अबिभ्रती ॥ 30 ॥
आयुषॊ ऽनते परहायेदं कषीणप्रायं कलेवरम परतिगृह्णाति तत पापं कर्तुः कर्मफलं हि तत ॥ 31 ॥
एवं संसारचक्रे ऽसमिन वयाविद्धे रथचक्रवत समेति भूतग्रामॊ ऽयं भूतग्रामेण कार्यवान ॥ 32 ॥
जन्ममृत्युजराव्याधिवेदनाभिर उपद्रुतम असारम इमम अस्वन्तं संसारं तयजतः सुखम ॥ 33 ॥
दिवः पतत्सु देवेषु सथानेभ्यश च महर्षिषु कॊ हि नाम भवेनार्थी भवेत कारणतत्त्ववित ॥ 34 ॥
कृत्वा हि विविधं कर्म तत तद विविधलक्षणम पार्थिवैर नृपतिः सवल्पैः कारणैर एव बध्यते ॥ 35 ॥
तस्मात परज्ञामृतम इदं चिरान मां परत्युपस्थितम तत पराप्य परार्थये सथानम अव्ययं शाश्वतं धरुवम ॥ 36 ॥
एतया सततं वृत्त्या चरन्न एवं परकारया देहं संस्थापयिष्यामि निर्भयं मार्गम आस्थितः ॥ 37 ॥
शान्तिपर्व · Shanti Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10