[वैषम्पायन] अथार्जुन उवाचेदम अधिक्षिप्त इवाक्षमी अभिनीततरं वाक्यं दृढवादपराक्रमः ॥ 1 ॥
दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः समयमानॊ महातेजाः सृक्किणी संलिहन मुहुः ॥ 2 ॥
अहॊ दुःखम अहॊ कृच्छ्रम अहॊ वैक्लव्यम उत्तमम यत्कृत्वामानुषं कर्म तयजेथाः शरियम उत्तमाम ॥ 3 ॥
शत्रून हत्वा महीं लब्ध्वा सवधर्मेणॊपपादिताम हतामित्रः कथं सर्वं तयजेथा बुद्धिलाघवात ॥ 4 ॥
कलीबस्य हि कुतॊ राज्यं दीर्घसूत्रस्य वा पुनः किमर्थं च महीपालान अवधीः करॊधमूर्छितः ॥ 5 ॥
यॊ हय आजिजीविषेद भैक्ष्यं कर्मणा नैव केन चित समारम्भान बुभूषेत हतस्वस्तिर अकिंचनः सर्वलॊकेषु विख्यातॊ न पुत्रपशुसंहितः ॥ 6 ॥
कापालीं नृप पापिष्ठां वृत्तिम आस्थाय जीवतः संत्यज्य राज्यम ऋद्धं ते लॊकॊ ऽयं किं वदिष्यति ॥ 7 ॥
सर्वारम्भान समुत्सृज्य हतस्वस्तिर अकिंचनः कस्माद आशंससे भैक्ष्यं चर्तुं पराकृतवत परभॊ ॥ 8 ॥
अस्मिन राजकुले जातॊ जित्वा कृत्स्नां वसुंधराम धर्मार्थाव अखिलौ हित्वा वनं मौढ्यात परतिष्ठसे ॥ 9 ॥
यदीमानि हवींषीह विमथिष्यन्त्य असाधवः भवता विप्रहीणानि पराप्तं तवाम एव किल्बिषम ॥ 10 ॥
आकिंचन्यम अनाशास्यम इति वै नहुषॊ ऽबरवीत कृत्या नृशंसा हय अधने धिग अस्त्व अधनताम इह ॥ 11 ॥
अश्वस्तनम ऋषीणां हि विद्यते वेद तद भवान यं तव इमं धर्मम इत्य आहुर धनाद एष परवर्तते ॥ 12 ॥
धर्मं संहरते तस्य धनं हरति यस्य यः हरियमाणे धने राजन वयं कस्य कषमेमहि ॥ 13 ॥
अभिशस्तवत परपश्यन्ति दरिद्रं पार्श्वतः सथितम दारिद्र्यं पातकं लॊके कस तच छंसितुम अर्हति ॥ 14 ॥
पतितः शॊच्यते राजन निर्धनश चापि शॊच्यते विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥ 15 ॥
अर्थेभ्यॊ हि विवृद्धेभ्यः संभृतेभ्यस ततस ततः करियाः सर्वाः परवर्तन्ते पर्वतेभ्य इवाप गाः ॥ 16 ॥
अर्धाद धर्मश च कामश च सवर्गश चैव नराधिप पराणयात्रा हि लॊकस्य विनार्थं न परसिध्यति ॥ 17 ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः वयुच्छिद्यन्ते करियाः सर्वा गरीष्मे कु सरितॊ यथा ॥ 18 ॥
यस्यार्थास तस्य मित्राणि यस्यार्थास तस्य बान्धवाः यस्यार्थाः स पुमाँल लॊके यस्यार्थाः स च पण्डितः ॥ 19 ॥
अधनेनार्थकामेन नार्थः शक्यॊ विवित्सता अर्थैर अर्था निबध्यन्ते गजैर इव महागजाः ॥ 20 ॥
धर्मः कामश च सवर्गश च हर्षः करॊधः शरुतं दमः अर्थाद एतानि सर्वाणि परवर्तन्ते नराधिप ॥ 21 ॥
धनात कुलं परभवति धनाद धर्मः परवर्तते नाधनस्यास्त्य अयं लॊकॊ न परः पुरुषॊत्तम ॥ 22 ॥
नाधनॊ धर्मकृत्यानि यथावद अनुतिष्ठति धनाद धि धर्मः सरवति शैलाद गिरिनदी यथा ॥ 23 ॥
यः कृशाश्वः कृश गवः कृश भृत्यः कृशातिथिः स वै राजन कृशॊ नाम न शरीरकृशः कृशः ॥ 24 ॥
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा राजन किम अन्यज जञातीनां वधाद ऋध्यन्ति देवताः ॥ 25 ॥
न चेद धर्तव्यम अन्यस्य कथं तद धर्मम आरभेत एतावान एव वेदेषु निश्चयः कविभिः कृतः ॥ 26 ॥
अध्येतव्या तरयी विद्या भवितव्यं विपश्चिता सर्वथा धनम आहार्यं यष्टव्यं चापि यत्नतः ॥ 27 ॥
करॊहाद देवैर अवाप्तानि दिवि सथानानि सर्वशः इति देवा वयवसिता वेदवादाश च शाश्वताः ॥ 28 ॥
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च कृत्स्नं तद एव च शरेयॊ यद अप्य आददते ऽनयतः ॥ 29 ॥
न पश्यामॊ ऽनपहृतं धनं किं चित कव चिद वयम एवम एव हि राजानॊ जयन्ति पृथिवीम इमाम ॥ 30 ॥
जित्वा ममत्वं बरुवते पुत्रा इव पितुर धने राजर्षयॊ जितस्वर्गा धर्मॊ हय एषां निगद्यते ॥ 31 ॥
यथैव पूर्णाद उदधेः सयन्दन्त्य आपॊ दिशॊ दश एवं राजकुलाद वित्तं पृथिवीं परतितिष्ठति ॥ 32 ॥
आसीद इयं दिलीपस्य नृगस्य नहुषस्य च अम्बरीषस्य मान्धातुः पृथिवी सा तवयि सथिता ॥ 33 ॥
स तवां दरव्यमयॊ यज्ञः संप्राप्तः सर्वदक्षिणः तं चेन न यजसे राजन पराप्तस तवं देवकिल्बिषम ॥ 34 ॥
येषां राजाश्वमेधेन यजते दक्षिणावता उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ॥ 35 ॥
विश्वरूपॊ महादेवः सर्वमेधे महामखे जुहाव सर्वभूतानि तथैवात्मानम आत्मना ॥ 36 ॥
शाश्वतॊ ऽयं भूतिपथॊ नास्यान्तम अनुशुश्रुम महान दाशरथः पन्था मा राजन कापथं गमः ॥ 37 ॥
शान्तिपर्व · Shanti Parva
अध्याय 8
Reach this point to mark the section finished.
Continue to अध्याय 9