कथं विधं पुरं राजा सवयम आवस्तुम अर्हति कृतं वा कारयित्वा वा तन मे बरूहि पिता मह ॥ 1 ॥
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना नयाय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ॥ 2 ॥
तस्मात ते वर्तयिष्यामि दुर्गकर्मविशेषतः शरुत्वा तथाविधातव्यम अनुष्ठेयं च यत्नतः ॥ 3 ॥
षड विधं दुर्गम आस्थाय पुराण्य अथ निवेशयेत सर्वसंपत परधानं यद बाहुल्यं वापि संभवेत ॥ 4 ॥
धन्व दुर्गं मही दुर्गं गिरिदुर्गं तथैव च मनुष्यदुर्गम अब्दुर्गं वनदुर्गं च तानि षट ॥ 5 ॥
यत पुरं दुर्ग संपन्नं धान्यायुध समन्वितम दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम ॥ 6 ॥
विद्वांसः शिल्पिनॊ यत्र निचयाश च सुसंचिताः धार्मिकश च जनॊ यत्र दाक्ष्यम उत्तमम आस्थितः ॥ 7 ॥
ऊर्वॊ वि नरनागाश्वं चत्वरापणशॊभितम परसिद्ध वयवहारं च परशान्तम अकुतॊभयम ॥ 8 ॥
सुप्रभं सानुनादं च सुप्रशस्त निवेशनम शूराढ्य जनसंपन्नं बरह्मघॊषानुनादितम ॥ 9 ॥
समाजॊत्सवसंपन्नं सदा पूजित दैवतम वश्यामात्य बलॊ राजा तत पुरं सवयम आवसेत ॥ 10 ॥
तत्र कॊशं बलं मित्रं वयवहारं च वर्धयेत पुरे जनपदे चैव सर्वदॊषान निवर्तयेत ॥ 11 ॥
भाण्डागारायुधागारं परयत्नेनाभिवर्धयेत निचयान वर्धयेत सर्वांस तथा यन्त्रगदा गदान ॥ 12 ॥
काष्ठलॊहतुषाङ्गारदारुशृङ्गास्थिवैणवान मज्जा सनेहवसा कषौद्रम औषध गरामम एव च ॥ 13 ॥
शणं सर्जरसं धान्यम आयुधानि शरांस तथा चर्म सनायु तथा वेत्रं मुञ्ज बल्बज धन्वनान ॥ 14 ॥
आशयाश चॊद पानाश च परभूतसलिला वराः निरॊद्धव्याः सदा राज्ञा कषीरिणश च महीरुहाः ॥ 15 ॥
सत्कृताश च परयत्नेन आचार्यर्त्विक पुरॊहिताः महेष्वासाः सथपतयः सांवत्सर चिकित्सकाः ॥ 16 ॥
पराज्ञा मेधा विनॊ दान्ता दक्षाः शूरा बहुश्रुताः कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु ॥ 17 ॥
पूजयेद धार्मिकान राजा निगृह्णीयाद अधार्मिकान नियुञ्ज्याच च परयत्नेन सर्ववर्णान सवकर्मसु ॥ 18 ॥
बाह्यम आभ्यन्तरं चैव पौरजानपदं जनम चारैः सुविदितं कृत्वा ततः कर्म परयॊजयेत ॥ 19 ॥
चारान मन्त्रं च कॊशं च मन्त्रं चैव विशेषतः अनुतिष्ठेत सवयं राजा सर्वं हय अत्र परतिष्ठितम ॥ 20 ॥
उदासीनारि मित्राणां सर्वम एव चिकीर्षितम पुरे जनपदे चैव जञातव्यं चारचक्षुषा ॥ 21 ॥
ततस तथाविधातव्यं सर्वम एवाप्रमाद तः भक्तान पुजयता नित्यं दविषतश च निगृह्णता ॥ 22 ॥
यष्ट्तव्यं करतुभिर नित्यं दातव्यं चाप्य अपीडया परजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम ॥ 23 ॥
कृपणानाथ वृद्धानां विधवानां च यॊषिताम यॊगक्षेमं च वृत्तिं च नित्यम एव परकल्पयेत ॥ 24 ॥
आश्रमेषु यथाकालं चेल भाजनभॊजनम सदैवॊपहरेद राजा सत्कृत्यानवमन्य च ॥ 25 ॥
आत्मानं सर्वकार्याणि तापसे राज्यम एव च निवेदयेत परयत्नेन तिष्ठेत परह्वश च सर्वदा ॥ 26 ॥
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम पूजयेत तादृशं दृष्ट्वा शयनासनभॊजनैः ॥ 27 ॥
तस्मिन कुर्वीत विश्वासं राजा कस्यां चिद आपदि तापसेषु हि विश्वासम अपि कुर्वन्ति दस्यवः ॥ 28 ॥
तस्मिन निधीन आदधीत परज्ञां पर्याददीत च न चाप्य अभीक्ष्णं सेवेत भृशं वा परतिपूजयेत ॥ 29 ॥
अन्यः कार्यः सवराष्ट्रेषु परराष्ट्रेषु चापरः अटवीष्व अपरः कार्यः सामन्तनगरेषु च ॥ 30 ॥
तेषु सत्कारसंस्कारान संविभागांश च कारयेत परराष्ट्राटवी सथेषु यथा सवविषये तथा ॥ 31 ॥
ते कस्यां चिद अवस्थायां शरणं शरणार्थिने राज्ञे दद्युर यथाकामं तापसाः संशितव्रताः ॥ 32 ॥
एष ते लक्षणॊद्देशः संक्षेपेण परकीर्तितः यादृशं नगरं राजा सवयम आवस्तुम अर्हति ॥ 33 ॥
शान्तिपर्व · Shanti Parva
अध्याय 87
Reach this point to mark the section finished.
Continue to अध्याय 88