कथं सविद इह राजेन्द्र पालयन पार्थिव परजाः परति धर्मं विशेषेण कीर्तिम आप्नॊति शाश्वतीम ॥ 1 ॥
वयवहारेण शुद्धेन परजापालनतत्परः पराप्य धर्मं च कीर्तिं च लॊकाव आप्नॊत्य उभौ शुचिः ॥ 2 ॥
कीदृशं वयवहारं तु कैश च वयवहरेन नृपः एतत पृष्टॊ महाप्राज्ञ यथा वद वक्तुम अर्हसि ॥ 3 ॥
ये चैते पूर्वकथिता गुणास ते पुरुषं परति नैकस्मिन पुरुषे हय एते विद्यन्त इति मे मतिः ॥ 4 ॥
एवम एतन महाप्राज्ञ यथा वदसि बुद्धिमान दुर लभः पुरुषः कश चिद एभिर गुणगुणैर युतः ॥ 5 ॥
किं तु संक्षेप तः शीलं परयत्ने नेह दुर लभम वक्ष्यामि तु यथामात्यान यादृशांश च करिष्यसि ॥ 6 ॥
चतुरॊ बराह्मणान वैद्यान परगल्भान सात्त्विकाञ शुचीन तरींश च शूद्रान विनीतांश च शुचीन कर्मणि पूर्वके ॥ 7 ॥
अष्टाभिश च गुणैर युक्तं सूतं पौराणिकं चरेत पञ्चाशद वर्षवयसं परगल्भम अनसूयकम ॥ 8 ॥
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम कार्ये विवदमानानां शक्तम अर्थेष्व अलॊलुपम ॥ 9 ॥
विवर्जितानां वयसनैः सुघॊरैः सप्तभिर भृशम अष्टानां मन्त्रिणां मध्ये मन्त्रं राजॊपधारयेत ॥ 10 ॥
ततः संपेषयेद राष्ट्रे राष्ट्रायाथ च दर्शयेत अनेन वयवहारेण दरष्टव्यास ते परजाः सदा ॥ 11 ॥
न चापि गूढं कार्यं ते गराह्यं कार्यॊपघातकम कार्ये खलु विपन्ने तवां सॊ ऽधर्मस तांश च पीडयेत ॥ 12 ॥
विद्रवेच चैव राष्ट्रं ते शयेनात पक्षिगणा इव परिस्रवेच च सततं नौर विशीर्णेव सागरे ॥ 13 ॥
परजाः पालयतॊ ऽसम्यग अधर्मेणेह भूपतेः हार्दं भयं संभवति सवर्गश चास्य विरुध्यते ॥ 14 ॥
अथ यॊ ऽधर्मतः पाति राजामात्यॊ ऽथ वात्म जः धर्मासने नियुक्तः सन धर्ममूलं नरर्षभ ॥ 15 ॥
कार्येष्व अधि कृताः सम्यग अकुर्वन्तॊ नृपानुगाः आत्मानं पुरतः कृत्वा यान्य अधः सह पार्थिवाः ॥ 16 ॥
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम नाथॊ वै भूमिपॊ नित्यम अनाथानां नृणां भवेत ॥ 17 ॥
ततः साक्षिबलं साधु दवैधे वादकृतं भवेत असाक्षिकम अनाथं वा परीक्ष्यं तद विशेषतः ॥ 18 ॥
अपराधानुरूपं च दण्डं पापेषु पातयेत उद्वेजयेद धनैर ऋद्धान दरिद्रान वधबान्धनैः ॥ 19 ॥
विनयैर अपि दुर वृत्तान परहारैर अपि पार्थिवः सान्त्वेनॊपप्रदानेन शिष्टांश च परिपालयेत ॥ 20 ॥
राज्ञॊ वधं चिकीर्षेद यस तस्य चित्रॊ वधॊ भवेत आजीवकस्य सतेनस्य वर्णसंकरकस्य च ॥ 21 ॥
सम्यक परणयतॊ दण्डं भूमिपस्य विशां पते युक्तस्य वा नास्त्य अधर्मॊ धर्म एवेह शाश्वतः ॥ 22 ॥
कामकारेण दण्डं तु यः कुर्याद अविचक्षणः स इहाकीर्ति संयुक्तॊ मृतॊ नरकम आप्नुयात ॥ 23 ॥
न परस्य शरवाद एव परेषां दण्डम अर्पयेत आगमानुगमं कृत्वा बध्नीयान मॊक्षयेत वा ॥ 24 ॥
न तु हन्यान नृपॊ जातु दूतं कस्यां चिद आपदि दूतस्य हन्ता निरयम आविशेत सचिवैः सह ॥ 25 ॥
यथॊक्तवादिनं दूतं कषत्रधर्मरतॊ नृपः यॊ हन्यात पितरस तस्य भरूण हत्याम अवाप्नुयुः ॥ 26 ॥
कुलीनः शीलसंपन्नॊ वाग्मी दक्षः परियंवदः यथॊक्तवादी समृतिमान दूतः सयात सप्तभिर गुणैः ॥ 27 ॥
एतैर एव गुणैर युक्तः परतीहारॊ ऽसय रक्षिता शिरॊ रक्षश च भवति गुणैर एतैः समन्वितः ॥ 28 ॥
धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहकॊ भवेत मतिमान धृतिमान धीमान रहस्य अविनिगूहिता ॥ 29 ॥
कुलीनः सत्यसंपन्नः शक्तॊ ऽमात्यः परशंसितः एतैर एव गुणैर युक्तस तथा सेनापतिर भवेत ॥ 30 ॥
वयूह यन्त्रायुधीयानां तत्त्वज्ञॊ विक्रमान्वितः वर्षशीतॊष्णवातानां सहिष्णुः पररन्ध्रि वित ॥ 31 ॥
विश्वासयेत परांश चैव विश्वसेन न तु कस्य चित पुत्रेष्व अपि हि राजेन्द्र विश्वासॊ न परशस्यते ॥ 32 ॥
एतच छास्त्रार्थ तत्त्वं तु तवाख्यातं मयानघ अविश्वासॊ नरेन्द्राणां गुह्यं परमम उच्यते ॥ 33 ॥
शान्तिपर्व · Shanti Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87