धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 85

  1. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवादं शक्रस्य च युधिष्ठिर ॥ 1 ॥

  2. किं सविद एकपदं बरह्मन पुरुषः सम्यग आचरन परमाणं सर्वभूतानां यशश चैवाप्नुयान महत ॥ 2 ॥

  3. सान्त्वम एकपदं शक्र पुरुषः सम्यग आचरन परमाणं सर्वभूतानां यशश चैवाप्नुयान महत ॥ 3 ॥

  4. एतद एकपदं शक्र सर्वलॊकसुखावहम आचरन सर्वभूतेषु परियॊ भवति सर्वदा ॥ 4 ॥

  5. यॊ हि नाभाषते किं चित सततं भरुकुटी मुखः दवेष्यॊ भवति भूतानां स सान्त्वम इह नाचरन ॥ 5 ॥

  6. यस तु पूर्वम अभिप्रेक्ष्य पूर्वम एवाभिभाषते समितपूर्वाभिभाषी च तस्य लॊकः परसीदति ॥ 6 ॥

  7. दानम एव हि सर्वत्र सान्त्वेनानभिजल्पितम न परीणयति भूतानि निर्व्यञ्जमम इवाशनम ॥ 7 ॥

  8. अदाता हय अपि भूतानां मधुराम ईरयन गिरम सर्वलॊकम इमं शक्र सान्त्वेन कुरुते वशे ॥ 8 ॥

  9. तस्मात सान्त्वं परकर्तव्यं दण्डम आधित्सताम इह फलं च जनयत्य एवं न चास्यॊद्विजते जनः ॥ 9 ॥

  10. सुकृतस्य हि सान्त्वस्य शलक्ष्णस्य मधुरस्य च सम्यग आसेव्यमानस्य तुल्यं जातु न विद्यते ॥ 10 ॥

  11. इत्य उक्तः कृतवान सर्वं तथा शक्रः पुरॊधसा तथा तवम अपि कौन्तेय सम्यग एतत समाचर ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 86

Previous: अध्याय 84