धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 84

  1. हरीनिषेधाः सदा सन्तः सत्यार्जव समन्विताः शक्ताः कथयितुं सम्यक ते तव सयुः सभा सदः ॥ 1 ॥

  2. अत्य आढ्यांश चाति शूरांश च बराह्मणांश च बहुश्रुतान सुसंतुष्टांश च कौन्तेय महॊत्साहांश च कर्मसु ॥ 2 ॥

  3. एतान सहायाँल लिप्सेथाः सर्वास्व आपत्सु भारत कुलीनः पूजितॊ नित्यं न हि शक्तिं निगूहति ॥ 3 ॥

  4. परसन्नं हय अप्रसन्नं वा पीडितं हृतम एव वा आवर्तयति भूयिष्ठं तद एकॊ हय अनुपालितः ॥ 4 ॥

  5. कुलीना देशजाः पराज्ञा रूपवन्तॊ बहुश्रुताः परगल्भाश चानुरक्ताश च ते तव सयुः परिच्छदाः ॥ 5 ॥

  6. दौष्कुलेयाश च लुब्धाश च नृशंसा निरपत्रपाः ते तवां तात निषेवेयुर यावद आर्धक पाणयः ॥ 6 ॥

  7. अर्थमानार्घ्य सत्कारैर भॊगैर उच्चावचैः परियान यान अर्थभाजॊ मन्येथास ते ते सयुः सुखभागिनः ॥ 7 ॥

  8. अभिन्न वृत्ता विद्वांसः सद्वृत्ताश चरितव्रताः न तवां नित्यार्थिनॊ जह्युर अक्षुद्राः सत्यवादिनः ॥ 8 ॥

  9. अनार्या ये न जानन्ति समयं मन्दचेतसः तेभ्यः परतिजुगुप्सेथा जानीयाः समयच्युतान ॥ 9 ॥

  10. नैकम इच्छेद गणं हित्वा सयाच चेद अन्यतर गरहः यस तव एकॊ बहुभिः शरेयान कामं तेन गणं तयजेत ॥ 10 ॥

  11. शरेयसॊ लक्षणं हय एतद विक्रमॊ यस्य दृश्यते कीर्तिप्रधानॊ यश च सयात समये यश च तिष्ठति ॥ 11 ॥

  12. समर्थान पूजयेद यश च नास्पर्थ्यैः सपर्धते च यः न च कामाद भयात करॊधाल लॊभाद वा धर्मम उत्सृजेत ॥ 12 ॥

  13. अमानी सत्यवाक शक्तॊ जितात्मा मान्यमानिता स ते मन्त्रसहायः सयात सर्वावस्थं परीक्षितः ॥ 13 ॥

  14. कुलीनः सत्यसंपन्नस तितिक्षुर दक्ष आत्मवान शूरः कृतज्ञः सत्यश च शरेयसः पार्थ लक्षणम ॥ 14 ॥

  15. तस्यैवं वर्तमानस्य पुरुषस्य विजानतः अमित्राः संप्रसीदन्ति ततॊ मित्री भवन्त्य अपि ॥ 15 ॥

  16. अत ऊर्ध्वम अमात्यानां परीक्षेत गुणागुणान संयतात्मा कृतप्रज्ञॊ भूतिकामश च भूमिपः ॥ 16 ॥

  17. संबद्धाः पुरुषैर आप्तैर अभिजातैः सवदेशजैः अहार्यैर अव्यभीचारैः सर्वतः सुपरीक्षितैः ॥ 17 ॥

  18. यॊधाः सरौवास तथा मौलास तथैवान्ये ऽपय अवः कृताः कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥ 18 ॥

  19. येषां वैनयिकी बुद्धिः परकृता चैव शॊभना तेजॊ धैर्यं कषमा शौचम अनुराग सथितिर धृतिः ॥ 19 ॥

  20. परीक्षित गुणान नित्यं परौढ भावान धुरंधरान पञ्चॊपधा वयतीतांश च कुर्याद राजार्थ कारिणः ॥ 20 ॥

  21. पर्याप्तवचनान वीरान परतिपत्तिविशारदान कुलीनान सत्यसंपन्नान इङ्गित जञान अनिष्ठुरान ॥ 21 ॥

  22. देशकालविधानज्ञान भर्तृकार्यहितैषिणः नित्यम अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ 22 ॥

  23. हीनतेजा हय असंहृष्टॊ नैव जातु वयवस्यति अवश्यं जनयत्य एव सर्वकर्मसु संशयान ॥ 23 ॥

  24. एवम अल्पश्रुतॊ मन्त्री कल्याणाभिजनॊ ऽपय उत धर्मार्थकामयुक्तॊ ऽपि नालं मन्त्रं परीक्षितुम ॥ 24 ॥

  25. तथैवानभिजातॊ ऽपि कामम अस्तु बहुश्रुतः अनायक इवाचक्षुर मुह्यत्य ऊह्येषु कर्मसु ॥ 25 ॥

  26. यॊ वा हय अस्थिरसंकल्पॊ बुद्धिमान आगतागमः उपायज्ञॊ ऽपि नालं स कर्म यापयितुं चिरम ॥ 26 ॥

  27. केवलात पुनर आचारात कर्मणॊ नॊपपद्यते परिमर्शॊ विशेषाणाम अश्रुतस्येह दुर मतेः ॥ 27 ॥

  28. मन्त्रिण्य अननुरक्ते तु विश्वासॊ न हि विद्यते तस्माद अननुरक्ताय नैव मन्त्रं परकाशयेत ॥ 28 ॥

  29. वयथयेद धि स राजानं मन्त्रिभिः सहितॊ ऽनृजुः मारुतॊपहत छिद्रैः परविश्याग्निर इव दरुमम ॥ 29 ॥

  30. संक्रुध्यत्य एकदा सवामी सथानाच चैवापकर्षति वाचा कषिपति संरब्धस ततः पश्चात परसीदति ॥ 30 ॥

  31. तानि तान्य अनुरक्तेन शक्यान्य अनुतितिक्षितुम मन्त्रिणां च भवेत करॊधॊ विस्फूर्जितम इवाशनेः ॥ 31 ॥

  32. यस तु संहरते तानि भर्तुः परियचिकीर्षया समानसुखदुःखं तं पृच्छेद अर्थेषु मानवम ॥ 32 ॥

  33. अनृजुस तव अनुरक्तॊ ऽपि संपन्नश चेतरैर गुणैः राज्ञः परज्ञान युक्तॊ ऽपि न मन्त्रं शरॊतुम अर्हति ॥ 33 ॥

  34. यॊ ऽमित्रैः सह संबद्धॊ न पौरान बहु मन्यते स सुहृत तादृशॊ राज्ञॊ न मन्त्रं शरॊतुम अर्हति ॥ 34 ॥

  35. अविद्वान अशुचिः सतब्धः शत्रुसेवी विकत्थनः स सुहृत करॊधनॊ लुब्धॊ न मन्त्रं शरॊतुम अर्हति ॥ 35 ॥

  36. आगन्तुश चानुरक्तॊ ऽपि कामम अस्तु बहुश्रुतः सत्कृतः संविभक्तॊ वा न मन्त्रं शरॊतुम अर्हति ॥ 36 ॥

  37. यस तव अल्पेनापि कार्येण सकृद आक्षारितॊ भवेत पुनर अन्यैर गुणैर युक्तॊ न मन्त्रं शरॊतुम अर्हति ॥ 37 ॥

  38. कृतप्रज्ञश च मेधा वी बुधॊ जानपदः शुचिः सर्वकर्मसु यः शुद्धः स मन्त्रं शरॊतुम अर्हति ॥ 38 ॥

  39. जञानविज्ञानसंपन्नः परकृतिज्ञः परात्मनॊः सुहृद आत्मसमॊ राज्ञॊ स मन्त्रं शरॊतुम अर्हति ॥ 39 ॥

  40. सत्यवाक शीलसंपन्नॊ गम्भीरः स तरपॊ मृदुः पितृपैतामहॊ यः सयात स मन्त्रं शरॊतुम अर्हति ॥ 40 ॥

  41. संतुष्टः संमतः सत्यः शौटीरे दवेष्यपापकः मन्त्रवित कालविच छूरः स मन्त्रं शरॊतुम अर्हति ॥ 41 ॥

  42. सर्वलॊकं समं शक्तः सान्त्वेन कुरुते वशे तस्मै मन्त्रः परयॊक्तव्यॊ दण्डम आधित्सता नृप ॥ 42 ॥

  43. पौरजानपदा यस्मिन विश्वासं धर्मतॊ गताः यॊद्धा नयविपश्चिच च स मन्त्रं शरॊतुम अर्हति ॥ 43 ॥

  44. तस्मात सर्वैर गुणैर एतैर उपपन्नाः सुपूजिताः मन्त्रिणः परकृतिज्ञाः सयुस तर्यवरा महद ईप्सवः ॥ 44 ॥

  45. सवासु परकृतिषु छिद्रं लक्षयेरन परस्य च मन्त्रिणॊ मन्त्रमूलं हि राज्ञॊ राष्ट्रं विवर्धते ॥ 45 ॥

  46. नास्य छिद्रं परः पश्येच छिद्रेषु परम अन्वियात गूहेत कूर्म इवाङ्गानि रक्षेद विवरम आत्मनः ॥ 46 ॥

  47. मन्त्रग्राहा हि राज्यस्य मन्त्रिणॊ ये मनीषिणः मन्त्रसंहननॊ राजा मन्त्राङ्गानीतरॊ जनः ॥ 47 ॥

  48. राज्यं परणिधि मूलं हि मन्त्रसारं परचक्षते सवामिनं तव अनुवर्तन्ति वृत्त्यर्थम इह मन्त्रिणः ॥ 48 ॥

  49. स विनीय मदक्रॊधौ मानम ईर्ष्यां च निर्वृतः नित्यं पञ्चॊपधातीतैर मन्त्रयेत सह मन्त्रिभिः ॥ 49 ॥

  50. तेषां तरयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र सवनिश्चयं तं परनिश्चयं च; निवेदयेद उत्तरमन्त्रकाले ॥ 50 ॥

  51. धर्मार्थकामज्ञम उपेत्य पृच्छेद; युक्तॊ गुरुं बराह्मणम उत्तमार्थम निष्ठा कृता तेन यदा सह सयात; तं तत्र मार्गं परणयेद असक्तम ॥ 51 ॥

  52. एवं सदा मन्त्रयितव्यम आहुर; ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः तस्मात तवम एवं परणयेः सदैव; मन्त्रं परजा संग्रहणे समर्थम ॥ 52 ॥

  53. न वामनाः कुब्ज कृशा न खञ्जा; नान्धा जडाः सत्री न न पुंसकं च न चात्र तिर्यङ न पुरॊ न पश्चान; नॊर्ध्वं न चाधः परचरेत कश चित ॥ 53 ॥

  54. आरुह्य वातायनम एव शून्यं; सथलं परकाशं कुशकाशहीनम वाग अङ्गदॊषान परिहृत्य मन्त्रं; संमन्त्रयेत कार्यम अहीन कालम ॥ 54 ॥

Reach this point to mark the section finished.

Continue to अध्याय 85

Previous: अध्याय 83