धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 83

  1. एषा परथमतॊ वृत्तिर दवितीयां शृणु भारत यः कश चिज जनयेद अर्थं राज्ञा रक्ष्यः स मानवः ॥ 1 ॥

  2. हरियमाणम अमात्येन भृतॊ वा यदि वाभृतः यॊ राजकॊशं नश्यन्तम आचक्षीत युधिष्ठिर ॥ 2 ॥

  3. शरॊतव्यं तस्य च रहॊ रक्ष्यश चामात्य तॊ भवेत अमात्या हय उपहन्तारं भूयिष्ठं घनन्ति भारत ॥ 3 ॥

  4. राजकॊशस्य गॊप्तारं राजकॊशविलॊपकाः समेत्य सर्वे बाधन्ते स विनश्यत्य अरक्षितः ॥ 4 ॥

  5. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मुनिः कालक वृक्षीयः कौसल्यं यद उवाच ह ॥ 5 ॥

  6. कॊसलानाम आधिपत्यं संप्राप्ते कषेमदर्शिनि मुनिः कालक वृक्षीय आजगामेति नः शरुतम ॥ 6 ॥

  7. स काकं पञ्जरे बद्धा विषयं कषेमदर्शिनः पूर्वं पर्यचरद युक्तः परवृत्त्य अर्थी पुनः पुनः ॥ 7 ॥

  8. अधीये वायसीं विद्यां शंसन्ति मम वायसाः अनागतम अतीतं च यच च संप्रति वर्तते ॥ 8 ॥

  9. इति राष्ट्रे परिपतन बहुशः पुरुषैः सह सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान ॥ 9 ॥

  10. स बुद्ध्वा तस्य राष्ट्रस्य वयवसायं हि सर्वशः राजयुक्तापचारांश च सर्वान बुद्ध्वा ततस ततः ॥ 10 ॥

  11. तम एव काकम आदाय राजानं दरष्टुम आगमत सर्वज्ञॊ ऽसमीति वचनं बरुवाणः संशितव्रतः ॥ 11 ॥

  12. स सम कौसल्यम आगम्य राजामात्यम अलं कृतम पराह काकस्य वचनाद अमुत्रेदं तवया कृतम ॥ 12 ॥

  13. असौ चासौ च जानीते राजकॊशस तवया हृतः एवम आख्याति काकॊ ऽयं तच छीघ्रम अनुगम्यताम ॥ 13 ॥

  14. तथान्यान अपि स पराह राजकॊशहरान सदा न चास्य वचनं किं चिद अकृतं शरूयते कव चित ॥ 14 ॥

  15. तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह तम अतिक्रम्य सुप्तस्य निशि काकम अपॊथयन ॥ 15 ॥

  16. वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे पूर्वाह्ने बराह्मणॊ वाक्यं कषेमदर्शिनम अब्रवीत ॥ 16 ॥

  17. राजंस तवाम अभयं याचे परभुं पराणधनेश्वरम अनुज्ञातस तवया बरूयां वचनं तवत पुरॊहितम ॥ 17 ॥

  18. मित्रार्थम अभिसंतप्तॊ भक्त्या सर्वात्मना गतः अयं तवार्थं हरते यॊ बरूयाद अक्षमान्वितः ॥ 18 ॥

  19. संबुबॊधयिषुर मित्रं सदश्वम इव सारथिः अति मन्युप्रसक्तॊ हि परसज्य हितकारणम ॥ 19 ॥

  20. तथाविधस्य सुहृदः कषन्तव्यं संविजानता ऐश्वर्यम इच्छता नित्यं पुरुषेण बुभूषता ॥ 20 ॥

  21. तं राजा परत्युवाचेदं यन मा किं चिद भवान वदेत कस्माद अहं न कषमेयम आकाङ्क्षन्न आत्मनॊ हितम ॥ 21 ॥

  22. बराह्मण परतिजानीहि परब्रूहि यदि चेच्छसि करिष्यामि हि ते वाक्यं यद यन मां विप्र वक्ष्यसि ॥ 22 ॥

  23. जञात्वा नयान अपायांश च भृत्यतस ते भयानि च भक्त्या वृत्तिं समाख्यातुं भवतॊ ऽनतिकम आगमम ॥ 23 ॥

  24. पराग एवॊक्तश च दॊषॊ ऽयम आचार्यैर नृप सेविनाम अगतीक गतिर हय एषा या राज्ञा सह जीविका ॥ 24 ॥

  25. आशीविषैश च तस्याहुः संगतं यस्य राजभिः बहुमित्राश च राजानॊ बहुमित्रास तथैव च ॥ 25 ॥

  26. तेभ्यः सर्वेभ्य एवाहौर भयं राजॊपसेविनाम अथैषाम एकतॊ राजन मुहूर्ताद एव भीर भवेत ॥ 26 ॥

  27. नैकान्तेनाप्रमादॊ हि कर्तुं शक्यॊ महीपतौ न तु परमादः कर्तव्यः कथं चिद भूतिम इच्छता ॥ 27 ॥

  28. परमादाद धि सखलेद राजा सखलिते नास्ति जीवितम अग्निं दीप्तम इवासीदेद राजानम उपशिक्षितः ॥ 28 ॥

  29. आशीविषम इव करुद्धं परभुं पराणधनेश्वरम यत्नेनॊपचरेन नित्यं नाहम अस्मीति मानवः ॥ 29 ॥

  30. दुर्व्याहृताच छङ्कमानॊ दुष्कृताद दुर अधिष्ठितात दुरासिताद दुर वरजिताद इङ्गिताद अङ्गचेष्टितात ॥ 30 ॥

  31. देवतेव हि सर्वार्थान कुर्याद राजा परसादितः वैश्वानर इव करुद्धः स मूलम अपि निर्दहेत इति राजन मयः पराह वर्तते च तथैव तत ॥ 31 ॥

  32. अथ भूयांसम एवार्थं करिष्यामि पुनः पुनः ददात्य अस्मद्विधॊ ऽमात्यॊ बुद्धिसाहाय्यम आपदि ॥ 32 ॥

  33. वायसश चैव मे राजन्न अन्तकायाभिसंहितः न च मे ऽतर भवान गर्ह्यॊ नच येषां भवान परियः हिताहितांस तु बुध्येथा मा परॊक्षमतिर भव ॥ 33 ॥

  34. ये तव आदान परा एव वसन्ति भवतॊ गृहे अभूति कामा भूतानां तादृशैर मे ऽभिसंहितम ॥ 34 ॥

  35. ये वा भवद विनाशेन राज्यम इच्छन्त्य अनन्तरम अन्तरैर अभिसंधाय राजन सिध्यन्ति नान्यथा ॥ 35 ॥

  36. तेषाम अहं भयाद राजन गमिष्याम्य अन्यम आश्रमम तैर हि मे संधितॊ बाणः काके निपतितः परभॊ ॥ 36 ॥

  37. छद्मना मम काकश च गमितॊ यमसादनम दृष्टं हय एतन मया राजंस तपॊ दीर्घेण चक्षुषा ॥ 37 ॥

  38. बहु नक्रझषग्राहां तिमिंगिलगणायुताम काकेन बडिशेनेमाम अतार्षं तवाम अहं नदीम ॥ 38 ॥

  39. सथान्व अश्मकण्टक वतीं वयाघ्रसिंहगजाकुलाम दुर आसदां दुष्प्रवेशां गुहां हैमवतीम इव ॥ 39 ॥

  40. अग्निना तामसं दुर्गं नौभिर आप्यं च गम्यते राजदुर्गावतरणे नॊपायं पण्डिता विदुः ॥ 40 ॥

  41. गहनं भवतॊ राज्यम अन्धकारतमॊ वृतम नेह विश्वसितुं शक्यं भवतापि कुतॊ मया ॥ 41 ॥

  42. अतॊ नायं शुभॊ वासस तुल्ये सद असती इह वधॊ हय एवात्र सुकृते दुष्कृते न च संशयः ॥ 42 ॥

  43. नयायतॊ दुष्कृते घातः सुकृते सयात कथं वधः नेह युक्तं चिरं सथातुं जवेनातॊ वरजेद बुधः ॥ 43 ॥

  44. सीता नाम नदी राजन पलवॊ यस्यां निमज्जति तथॊपमाम इमां मन्ये वागुरां सर्वघातिनीम ॥ 44 ॥

  45. मधु परतापॊ हि भवान भॊजनं विषसंयुतम असताम इव ते भावॊ वर्तते न सताम इव आशीविषैः परिवृतः कूपस तवम इव पार्थिव ॥ 45 ॥

  46. दुर्ग तीर्था बृहत कूला करीरी वेत्रसंयुता नदी मधुरपानीया यथा राजंस तथा भवान शवगृध्रगॊमायु युतॊ राजहंस समॊ हय असि ॥ 46 ॥

  47. यथाश्रित्य महावृक्षं कक्षः संवर्धते महान ततस तं संवृणॊत्य एव तम अतीत्य च वर्धते ॥ 47 ॥

  48. तेनैवॊपेन्धनॊ नूनं दावॊ दहति दारुणः तथॊपमा हय अमात्यास ते राजंस तान परिशॊधय ॥ 48 ॥

  49. भवतैव कृता राजन भवता परिपालिताः भवन्तं पर्यवज्ञाय जिघांसन्ति भवत परियम ॥ 49 ॥

  50. उषितं शङ्कमानेन परमादं परिरक्षता अन्तः सर्प इवागारे वीर पत्न्या इवालये शीलं जिज्ञासमानेन राज्ञश च सह जीविना ॥ 50 ॥

  51. कच चिज जितेन्द्रियॊ राजा कच चिद अभ्यन्तरा जिताः कच चिद एषां परियॊ राजा कच चिद राज्ञः परियाः परजाः ॥ 51 ॥

  52. जिज्ञासुर इह संप्राप्तस तवाहं राजसत्तम तस्य मे रॊचसे राजन कषुधितस्येव भॊजनम ॥ 52 ॥

  53. अमात्या मे न रॊचन्ते वि तृष्णस्य यथॊदकम भवतॊ ऽरथकृद इत्य एव मयि दॊषॊ हि तैः कृतः विद्यते कारणं नान्यद इति मे नात्र संशयः ॥ 53 ॥

  54. न हि तेषाम अहं दरुग्धस तत तेषां दॊषवद गतम अरेर हि दुर हताद भेयं भग्नपृष्टाद इवॊरगात ॥ 54 ॥

  55. भूयसा परिबर्हेण सत्कारेण च भूयसा पूजितॊ बराह्मणश्रेष्ठ भूयॊ वस गृहे मम ॥ 55 ॥

  56. ये तवां बराह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे भवतैव हि तज जञेयं यद इदानीम अनन्तरम ॥ 56 ॥

  57. यथा सयाद दुष्कृतॊ दण्डॊ यथा च सुकृतं कृतम तथा समीक्ष्य भगवञ शरेयसे विनियुङ्क्ष्व माम ॥ 57 ॥

  58. अदर्शयन्न इमं दॊषम एकैकं दुर बलं कुरु ततः कारणम आज्ञाय पुरुषं पुरुषं जहि ॥ 58 ॥

  59. एकदॊषा हि बहवॊ मृद्नीयुर अपि कण्टकान मन्त्रभेद भयाद राजंस तस्माद एतद बरवीमि ते ॥ 59 ॥

  60. वयं तु बराह्मणा नाम मृदु दण्डाः कृपा लवः सवस्ति चेच्छामि भवतः परेषां च यथात्मनः ॥ 60 ॥

  61. राजन्न आत्मानम आचक्षे संबन्धी भवतॊ हय अहम मुनिः कालक वृक्षीय इत्य एवम अभिसंज्ञितः ॥ 61 ॥

  62. पितुः सखा च भवतः संमतः सत्यसंगरः वयापन्ने भवतॊ राज्ये राजन पितरि संस्थिते ॥ 62 ॥

  63. सर्वकामान परित्यज्य तपस तप्तं तदा मया सनेहात तवां परब्रवीम्य एतन मा भूयॊ विभ्रमेद इति ॥ 63 ॥

  64. उभे दृष्ट्वा दुःखसुखे राज्यं पराप्य यदृच्छया राज्येनामात्य संस्थेन कथं राजन परमाद्यसि ॥ 64 ॥

  65. ततॊ राजकुले नान्दी संजज्ञे भूयसी पुनः पुरॊहित कुले चैव संप्राप्ते बराह्मणर्षभ ॥ 65 ॥

  66. एकछत्रां महीं कृत्वा कौसल्याय यशस्विने मुनिः कालक वृक्षीय ईजे करतुभिर उत्तमैः ॥ 66 ॥

  67. हितं तद वचनं शरुत्वा कौसल्यॊ ऽनवशिषन महीम तथा च कृतवान राजा यथॊक्तं तेन भारत ॥ 67 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82