एवम अग्राह्यके तस्मिञ जञातिसंबन्धिमण्डले मित्रेष्व अमित्रेष्व अपि च कथं भावॊ विभाव्यते ॥ 1 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम वासुदेवस्य संवादं सुरर्षेर नारदस्य च ॥ 2 ॥
नासुहृत परमं मन्त्रं नारदार्हति वेदितुम अपण्डितॊ वापि सुहृत पण्डितॊ वापि नात्मवान ॥ 3 ॥
स ते सौहृदम आस्थाय किं चिद वक्ष्यामि नारद कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे तरिदिवं गम ॥ 4 ॥
दास्यम ऐश्वर्यवादेन जञातीनां वै करॊम्य अहम अर्धभॊक्तास्मि भॊगानां वाग दुर उक्तानि च कषमे ॥ 5 ॥
अरणीम अग्निकामॊ वा मथ्नाति हृदयं मम वाचा दुर उक्तं देवर्षे तन मे दहति नित्यदा ॥ 6 ॥
बलं संकर्षणे नित्यं सौकुमार्यं पुनर गदे रूपेण मत्तः परद्युम्नः सॊ ऽसहायॊ ऽसमि नारव ॥ 7 ॥
अन्ये हि सुमहाभागा बलवन्तॊ दुर आसदाः नित्यॊत्थानेन संपन्ना नारदान्धकवृष्णयः ॥ 8 ॥
यस्य न सयुर न वै स सयाद यस्य सयुः कृच्छ्रम एव तत दवाभ्यां निवारितॊ नित्यं वृणॊम्य एकतरं न च ॥ 9 ॥
सयातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः यस्य वापि न तौ सयातां किं नु दुःखतरं ततः ॥ 10 ॥
सॊ ऽहं कितव मातेव दवयॊर अपि महामुने एकस्य जयम आशंसे दवितीयस्यापराजयम ॥ 11 ॥
ममैवं कलिश्यमानस्य नारदॊभयतः सदा वक्तुम अर्हसि यच छरेयॊ जञातीनाम आत्मनस तथा ॥ 12 ॥
आपदॊ दविविधाः कृष्ण बाह्याश चाभ्यन्तराश च ह परादुर्भवन्ति वार्ष्णेय सवकृता यदि वान्यतः ॥ 13 ॥
सेयम आभ्यन्तरा तुभ्यम आपत कृच्छ्रा सवकर्म जा अक्रूर भॊजप्रभवाः सर्वे हय एते तद अन्वयाः ॥ 14 ॥
अर्थहेतॊर हि कामाद वाद्वारा बीभत्सयापि वा आत्मना पराप्तम ऐश्वर्यम अन्यत्र परतिपादितम ॥ 15 ॥
कृतमूलम इदानीं तज जातशब्दं सहायवत न शक्यं पुनर आदातुं वान्तम अन्नम इव तवया ॥ 16 ॥
बभ्रूग्रसेनयॊ राज्यं नाप्तुं शक्यं कथं चन जञातिभेद भयात कृष्ण तवया चापि विशेषतः ॥ 17 ॥
तच चेत सिध्येत परयत्नेन कृत्वा कर्म सुदुष करम महाक्षयव्ययं वा सयाद विनाशॊ वा पुनर भवेत ॥ 18 ॥
अनायसेन शस्त्रेण मृदुना हृदयछिदा जिह्वाम उद्धर सर्वेषां परिमृज्यानुमृज्य च ॥ 19 ॥
अनायसं मुने शस्त्रं मृदु विद्याम अहं कथम येनैषाम उद्धरे जिह्वां परिमृज्यानुमृज्य च ॥ 20 ॥
शक्त्यान्न दानं सततं तितिक्षा दम आर्जवम यथार्ह परतिपूजा च शस्त्रम एतद अनायसम ॥ 21 ॥
जञातीनां वक्तुकामानां कटूनि च लघूनि च गिरा तवं हृदयं वाचं शमयस्व मनांसि च ॥ 22 ॥
नामहा पुरुषः कश चिन नानात्मा नासहाय वान महतीं धुरम आदत्ते ताम उद्यम्यॊरसा वह ॥ 23 ॥
सर्व एव गुरुं भारम अनड्वान वहते समे दुर्गे परतीकः सुगवॊ भारं वहति दुर वहम ॥ 24 ॥
भेदाद विनाशः संघानां संघमुख्यॊ ऽसि केशव यथा तवां पराप्य नॊत्सीदेद अयं संघस तथा कुरु ॥ 25 ॥
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रिय निग्रहात नान्यत्र धनसंत्यागाद गणः पराज्ञे ऽवतिष्ठते ॥ 26 ॥
धन्यं यशस्यम आयुष्यं सवपक्षॊद्भावनं शुभम जञातीनाम अविनाशः सयाद यथा कृष्ण तथा कुरु ॥ 27 ॥
आयत्यां च तदात्वे च न ते ऽसत्य अविदितं परभॊ षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥ 28 ॥
माधवाः कुकुरा भॊजाः सर्वे चान्धकवृष्णयः तवय्य आसक्ता महाबाहॊ लॊका लॊकेश्वराश च ये ॥ 29 ॥
उपासते हि तवद बुद्धिम ऋषयश चापि माधव तवं गुरुः सर्वभूतानां जानीषे तवं गतागतम तवाम आसाद्य यदुश्रेष्ठम एधन्ते जञातिनः सुखम ॥ 30 ॥
शान्तिपर्व · Shanti Parva
अध्याय 82
Reach this point to mark the section finished.
Continue to अध्याय 83