यद अप्य अल्पतरं कर्म तद अप्य एकेन दुष्करम पुरुषेणासहायेन किम उ राज्यं पिता मह ॥ 1 ॥
किं शीलः किं समाचारॊ राज्ञॊ ऽरथसचिवॊ भवेत कीदृशे विश्वसेद राजा कीदृशे नापि विश्वसेत ॥ 2 ॥
चतुर्विधानि मित्राणि राज्ञां राजन भवन्त्य उत सहार्थॊ भजमानश च सहजः कृत्रिमस तथा ॥ 3 ॥
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न दवयॊः यतॊ धर्मस ततॊ वा सयान मध्यस्थॊ वा ततॊ भवेत ॥ 4 ॥
यस तस्यार्थॊ न रॊचेत न तं तस्य परकाशयेत धर्माधर्मेण राजानश चरन्ति विजिगीषवः ॥ 5 ॥
चतुर्णां मध्यमौ शरेष्ठौ नित्यं शङ्क्यौ तथापरौ सर्वे नित्यं शङ्कितव्याः परत्यक्षं कार्यम आत्मनः ॥ 6 ॥
न हि राज्ञा परमादॊ वै कर्तव्यॊ मित्र रक्षणे परमादिनं हि राजानं लॊकाः परिभवन्त्य उत ॥ 7 ॥
असाधुः साधुताम एति साधुर भवति दारुणः अरिश च मित्रं भवति मित्रं चापि परदुष्यति ॥ 8 ॥
अनित्य चित्तः पुरुषस तस्मिन कॊ जातु विश्वसेत तस्मात परधानं यत कार्यं परत्यक्षं तत समाचरेत ॥ 9 ॥
एकान्तेन हि विश्वासः कृत्स्नॊ धर्मार्थनाशकः अविश्वासश च सर्वत्र मृत्युना न विशिष्यते ॥ 10 ॥
अकालमृत्युर विश्वासॊ विश्वसन हि विपद्यते यस्मिन करॊति विश्वासम इच्छतस तस्य जीवति ॥ 11 ॥
तस्माद विश्वसितव्यं च शङ्कितव्यं च केषु चित एषा नीतिगतिस तात लक्ष्मीश चैव सनातनी ॥ 12 ॥
यं मन्येत ममाभावाद इमम अर्थागमः सपृशेत नित्यं तस्माच छङ्कितव्यम अमित्रं तं विदुर बुधाः ॥ 13 ॥
यस्य कषेत्राद अप्य उदकं कषेत्रम अन्यस्य गच्छति न तत्रानिच्छतस तस्य भिद्येरन सर्वसेतवः ॥ 14 ॥
तथैवात्य उदकाद भीतस तस्य भेदनम इच्छति यम एवं लक्षणं विद्यात तम अमित्रं विनिर्दिशेत ॥ 15 ॥
यः समृद्ध्या न तुष्येत कषये दीनतरॊ भवेत एतद उत्तममित्रस्य निमित्तम अभिचक्षते ॥ 16 ॥
यं मन्येत ममाभावाद अस्याभावॊ भवेद इति तस्मिन कुर्वीत विश्वासं यथा पितरि वै तथा ॥ 17 ॥
तं शक्त्या वर्धमानश च सर्वतः परिबृंहयेत नित्यं कषताद वारयति यॊ धर्मेष्व अपि कर्मसु ॥ 18 ॥
कषताद भीतं विजानीयाद उत्तमं मित्र लक्षणम ये तस्य कषतम इच्छन्ति ते तस्य रिपवः समृताः ॥ 19 ॥
वयसनान नित्यभीतॊ ऽसौ समृद्ध्याम एव तृप्यते यत सयाद एवंविधं मित्रं तद आत्मसमम उच्यते ॥ 20 ॥
रूपवर्णस्वरॊपेतस तितिक्षुर अनसूयकः कुलीनः शीलसंपन्नः स ते सयात परत्यनन्तरः ॥ 21 ॥
मेधा वी समृतिमान दक्षः परकृत्या चानृशंस वान यॊ मानितॊ ऽमानितॊ वा न संदूष्येत कदा चन ॥ 22 ॥
ऋत्विग वा यदि वाचार्यः सखा वात्यन्त संस्तुतः गृहे वसेद अमात्यस ते यः सयात परम अपूजितः ॥ 23 ॥
स ते विद्यात परं मन्त्रं परकृतिं चार्थधर्मयॊः विश्वासस ते भवेत तत्र यथा पितरि वै तथा ॥ 24 ॥
नैव दवौ न तरयः कार्या न मृष्येरन परस्परम एकार्थाद एव भूतानां भेदॊ भवति सर्वदा ॥ 25 ॥
कीर्तिप्रधानॊ यश च सयाद यश च सयात समये सथितः समर्थान यश च न दवेष्टि समर्थान कुरुते च यः ॥ 26 ॥
यॊ न कामाद भयाल लॊभात करॊधाद वा धर्मम उत्सृजेत दक्षः पर्याप्तवचनः स ते सयात परत्यनन्तरः ॥ 27 ॥
शूरश चार्यश च विद्वांश च परतिपत्तिविशारदः कुलीनः शीलसंपन्नस तितिक्षुर अनसूयकः ॥ 28 ॥
एते हय अमात्याः कर्तव्याः सर्वकर्मस्व अवस्थिताः पूजिताः संविभक्ताश च सुसहायाः सवनुष्ठिताः ॥ 29 ॥
कृत्स्नम एते विनिक्षिप्ताः परतिरूपेषु कर्मसु युक्ता महत्सु कार्येषु शरेयांस्य उत्पादयन्ति च ॥ 30 ॥
एते कर्माणि कुर्वन्ति सपर्धमाना मिथः सदा अनुतिष्ठन्ति चैवार्थान आचक्षाणाः परस्परम ॥ 31 ॥
जञातिभ्यश चैव बिभ्येथा मृत्यॊर इव यतः सदा उपराजेव राजर्धिं जञातिर न सहते सदा ॥ 32 ॥
ऋजॊर मृदॊर वदान्यस्य हरीमतः सत्यवादिनः नान्यॊ जञातेर महाबाहॊ विनाशम अभिनन्दति ॥ 33 ॥
अज्ञातिता नातिसुखा नावज्ञेयास तव अतः परम अज्ञाति मन्तं पुरुषं परे परिभवन्त्य उत ॥ 34 ॥
निकृतस्य नरैर अन्यैर जञातिर एव परायणम नान्यैर निकारं सहते जञातेर जञातिः कदा चन ॥ 35 ॥
आत्मानम एव जानाति निकृतं बान्धवैर अपि तेषु सन्ति गुणाश चैव नैर्गुण्यं तेषु लक्ष्यते ॥ 36 ॥
नाज्ञातिर अनुगृह्णाति नाज्ञातिर दिग्धम अस्यति उभयं जञातिलॊकेषु दृश्यते साध्व असाधु च ॥ 37 ॥
तान मानयेत पूजयेच च नित्यं वाचा च कर्मणा कुर्याच च परियम एतेभ्यॊ नाप्रियं किं चिद आचरेत ॥ 38 ॥
विश्वस्तवद अविश्वस्तस तेषु वर्तेत सर्वदा न हि दॊषॊ गुणॊ वेति निस्पृक्तस तेषु दृश्यते ॥ 39 ॥
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः अमित्राः संप्रसीदन्ति तथा मित्री भवन्त्य अपि ॥ 40 ॥
य एवं वर्तते नित्यं जञातिसंबन्धिमण्डले मित्रेष्व अमित्रेष्व ऐश्वर्ये चिरं यशसि तिष्ठति ॥ 41 ॥
शान्तिपर्व · Shanti Parva
अध्याय 81
Reach this point to mark the section finished.
Continue to अध्याय 82