कव समुत्थाः कथं शीला ऋत्विजः सयुः पिता मह कथं विधाश च राजेन्द्र तद बरूहि वदतां वर ॥ 1 ॥
परतिकर्म पुराचार ऋत्विजां सम विधीयते आदौ छन्दांसि विज्ञाय दविजानां शरुतम एव च ॥ 2 ॥
ये तव एकरतयॊ नित्यं धीरा नाप्रिय वादिनः परस्परस्य सुहृदः संमताः समदर्शिनः ॥ 3 ॥
येष्व आनृशंस्यं सत्यं चाप्य अहिंसा तप आर्जवम अद्रॊहॊ नाभिमानश च हरीस तितिक्षा दमः शमः ॥ 4 ॥
हरीमान सत्यधृतिर दान्तॊ भूतानाम अविहिंसकः अकाम दवेषसंयुक्तस तरिभिः शुक्लैः समन्वितः ॥ 5 ॥
अहिंसकॊ जञानतृप्तः स बरह्मासनम अर्हति एते महर्त्विजस तात सर्वे मान्या यथातथम ॥ 6 ॥
यद इदं वेद वचनं दक्षिणासु विधीयते इदं देयम इदं देयं न कव चिद वयवतिष्ठते ॥ 7 ॥
नेदं परति धनं शास्त्रम आपद धर्मम अशास्त्रतः आज्ञा शास्त्रस्य घॊरेयं न शक्तिं समवेक्षते ॥ 8 ॥
शरद्धाम आरभ्य यष्टव्यम इत्य एषा वैदिकी शरुतिः मिथ्यॊपेतस्य यज्ञस्य किम उ शरद्धा करिष्यति ॥ 9 ॥
न वेदानां परिभवान न शाठ्येन न मायया कश चिन महद अवाप्नॊति मा ते भूद बुद्धिर ईदृशी ॥ 10 ॥
यज्ञाङ्गं दक्षिणास तात वेदानां परिवृंहणम न मन्त्रा दक्षिणा हीनास तारयन्ति कथं चन ॥ 11 ॥
शक्तिस तु पूर्णपात्रेण संमितानवमा भवेत अवश्यं तात यष्टव्यं तरिभिर वर्णैर यथाविधि ॥ 12 ॥
सॊमॊ राजा बराह्मणानाम इत्य एषा वैदिकी शरुतिः तं च विक्रेतुम इच्छन्ति न वृथा वृत्तिर इष्यते तेन करीतेन धर्मेण ततॊ यज्ञः परतायते ॥ 13 ॥
इत्य एवं धर्मतः खयातम ऋषिभिर धर्मवादिभिः पुमान यज्ञश च सॊमश च नयायवृत्तॊ यथा भवेत अन्याय वृत्तः पुरुषॊ न परस्य न चात्मनः ॥ 14 ॥
शरीरं यज्ञपात्राणि इत्य एषा शरूयते शरुतिः तानि सम्यक परणीतानि बराह्मणानां महात्मनाम ॥ 15 ॥
तपॊयज्ञाद अपि शरेष्ठम इत्य एषा परमा शरुतिः तत ते तपः परवक्ष्यामि विद्वंस तद अपि मे शृणु ॥ 16 ॥
अहिंसा सत्यवचनम आनृशंस्यं दमॊ घृणा एतत तपॊ विदुर धीरा न शरीरस्य शॊषणम ॥ 17 ॥
अप्रमाण्यं च वेदानां शास्त्राणां चाति लङ्घनम अव्यवस्था च सर्वत्र तद वै नाशनम आत्मनः ॥ 18 ॥
निबॊध दश हॊतॄणां विधानं पार्थ यादृशम चित्तिः सरुक चित्तम आज्यं च पवित्रं जञानम उत्तमम ॥ 19 ॥
सर्वं जिह्मं मृत्युपदम आर्जवं बरह्मणः पदम एतावाञ जञानविषयः किं परलापः करिष्यति ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 80
Reach this point to mark the section finished.
Continue to अध्याय 81