धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 79

  1. वयाख्याता कषत्रधर्मेण वृत्तिर आपत्सु भारत कथं चिद वैश्य धर्मेण जीवेद वा बराह्मणॊ न वा ॥ 1 ॥

  2. अशक्तः कषत्रधर्मेण वैश्य धर्मेण वर्तयेत कृषिगॊरक्षम आस्थाय वयसने वृत्ति संक्षये ॥ 2 ॥

  3. कानि पण्यानि विक्रीणन सवर्गलॊकान न हीयते बराह्मणॊ वैश्य धर्मेण वर्तयन भरतर्षभ ॥ 3 ॥

  4. सुरा लवणम इत्य एव तिलान केषरिणः पशून ऋषभान मधु मांसं च कृतान्नं च युधिष्ठिर ॥ 4 ॥

  5. सर्वास्व अवस्थास्व एतानि बराह्मणः परिवर्जयेत एतेषां विक्रयात तात बराह्मणॊ नरकं वरजेत ॥ 5 ॥

  6. अजॊ ऽगनिर वरुणॊ मेषः सूर्यॊ ऽशवः पृथिवी विराट धेनुर यज्ञश च सॊमश च न विक्रेयाः कथं चन ॥ 6 ॥

  7. पक्वेनामस्य निमयं न परशंसन्ति साधवः निमयेत पक्वम आमेन भॊजनार्थाय भारत ॥ 7 ॥

  8. वयं सिद्धम अशिष्यामॊ भवान साधयताम इदम एवं समीक्ष्य निमयन नाधर्मॊ ऽसति कदा चन ॥ 8 ॥

  9. अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः वयवहार परवृत्तानां तन निबॊध युधिष्ठिर ॥ 9 ॥

  10. भवते ऽहं ददानीदं भवान एतत परयच्छतु रुचिते वर्तते धर्मॊ न बलात संप्रवर्तते ॥ 10 ॥

  11. इत्य एवं संप्रवर्तन्त वयवहाराः पुरातनाः ऋषीणाम इतरेषां च साधु चेदम असंशयम ॥ 11 ॥

  12. यथ तात यदा सर्वाः शस्त्रम आददते परजाः वयुत्क्रामन्ति सवधर्मेभ्यः कषत्रस्य कषीयते बलम ॥ 12 ॥

  13. राजा तराता न लॊके सयात किं तदा सयात परायणम एतन मे संशयं बरूहि विस्तरेण पिता मह ॥ 13 ॥

  14. दानेन तपसा यज्ञैर अद्रॊहेण दमेन च बराह्मण परमुखा वर्णाः कषेमम इच्छेयुर आत्मनः ॥ 14 ॥

  15. तेषां ये वेदबलिनस त उत्थाय समन्ततः राज्ञॊ बलं वर्धयेयुर महेन्द्रस्येव देवताः ॥ 15 ॥

  16. राज्ञॊ हि कषीयमाणस्य बरह्मैवाहुः परायणम तस्माद बरह्मबलेनैव समुत्थेयं विजानता ॥ 16 ॥

  17. यदा तु विजयी राजा कषेमं राष्ट्रे ऽभिसंदधेत तदा वर्णा यथाधर्मम आविशेयुः सवकर्मसु ॥ 17 ॥

  18. उन्मर्यादे परवृत्ते तु दस्युभिः संकरे कृते सर्वे वर्णा न दुष्येयुः शस्त्रवन्तॊ युधिष्ठिर ॥ 18 ॥

  19. अथ चेत सर्वतः कषत्रं परदुष्येद बराह्मणान परति कस तस्य बराह्मणस तराता कॊ धर्मः किं परायणम ॥ 19 ॥

  20. तपसा बरह्मचर्येण शस्त्रेण च बलेन च अमायया मायया च नियन्तव्यं तदा भवेत ॥ 20 ॥

  21. कषत्रस्याभिप्रवृद्धस्य बराह्मणेषु विशेषतः बरह्मैव संनियन्तृ सयात कषत्रं हि बरह्म संभवम ॥ 21 ॥

  22. अद्भ्यॊ ऽगनिर बरह्म तः कषत्रम अश्मनॊ लॊहम उत्थितम तेषां सर्वत तर गं तेजः सवासु यॊनिषु शाम्यति ॥ 22 ॥

  23. यदा छिनत्त्य अयॊ ऽशमानम अग्निश चापॊ ऽभिपद्यते कषत्रं च बराह्मणं दवेष्टि तदा शाम्यन्ति ते तरयः ॥ 23 ॥

  24. तस्माद बरह्मणि शाम्यन्ति कषत्रियाणां युधिष्ठिर अस्मुदीर्णान्य अजेयानि तेजांसि च बलानि च ॥ 24 ॥

  25. बरह्म वीर्ये मृदू भूते कषत्रवीर्ये च दुर बले दुष्टेषु सर्ववर्णेषु बराह्मणान परति सर्वशः ॥ 25 ॥

  26. ये तत्र युद्धं कुर्वन्ति तयक्त्वा जीवितम आत्मनः बराह्मणान परिरक्षन्तॊ धर्मम आत्मानम एव च ॥ 26 ॥

  27. मनॊ विनॊ मन्युमन्तः पुण्यलॊका भवन्ति ते बराह्मणर्थं हि सर्वेषां शस्त्रग्रहणम इष्यते ॥ 27 ॥

  28. अति सविष्ट सवधीतानां लॊकान अति तपस्विनाम अनाशकाग्न्यॊर विशतां शूरा यान्ति परां गतिम एवम एवात्मनस तयागान नान्यं धर्मं विदुर जनाः ॥ 28 ॥

  29. तेभ्यॊ नमश च भद्रं च ये शरीराणि जुह्वति बरह्म दविषॊ नियच्छन्तस तेषां नॊ ऽसतु स लॊकता बरह्मलॊकजितः सवर्ग्यान वीरांस तान मनुर अब्रवीत ॥ 29 ॥

  30. यथाश्वमेधावभृथे सनाताः पूता भवन्त्य उत दुष्कृतः सुकृतश चैव तथा शस्त्रहता रणे ॥ 30 ॥

  31. भवत्य अधर्मॊ धर्मॊ हि धर्माधर्माव उभाव अपि कारणाद देशकालस्य देशकालः स तादृशः ॥ 31 ॥

  32. मैत्राः करूराणि कुर्वन्ति जयन्ति सवर्गम उत्तमम धर्म्याः पापानि कुर्वन्तॊ गच्छन्ति परमां गतिम ॥ 32 ॥

  33. बराह्मणस तरिषु कालेषु शस्त्रं गृह्णन न दुष्यति आत्मत्राणे वर्णदॊषे दुर्गस्य नियमेषु च ॥ 33 ॥

  34. अभ्युत्थिते दस्यु बले कषत्रार्थे वर्णसंकरे संप्रमूढेषु वर्णेषु यद्य अन्यॊ ऽभिभवेद बली ॥ 34 ॥

  35. बराह्मणॊ यदि वा वैश्यः शूद्रॊ वा राजसत्तम दस्युभ्यॊ ऽथ परजा रक्षेद दण्डं धर्मेण धारयन ॥ 35 ॥

  36. कार्यं कुर्यान न वा कुर्यात संवार्यॊ वा भवेन न वा न सम शस्त्रं गरहीतव्यम अन्यत्र कषत्रबन्धुतः ॥ 36 ॥

  37. अपारे यॊ भवेत पारम अप्लवे यः पलवॊ भवेत शूद्रॊ वा यदि वाप्य अन्यः सर्वथा मानम अर्हति ॥ 37 ॥

  38. यम आश्रित्य नरा राजन वर्तयेयुर यथासुखम अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः ॥ 38 ॥

  39. तम एव पूजयेरंस ते परीत्या सवम इव बान्धवम महद धयभीक्ष्णं कौरव्य कर्ता सन मानम अर्हति ॥ 39 ॥

  40. किम उक्ष्णावहता कृत्यं किं धेन्वा चाप्य अदुग्धया वन्ध्यया भार्यया कॊ ऽरथः कॊ ऽरथॊ राज्ञाप्य अरक्षता ॥ 40 ॥

  41. यथा दारु मयॊ हस्ती यथा चर्ममयॊ मृगः यथा हय अनेत्रः शकटः पथि कषेत्रं यथॊषरम ॥ 41 ॥

  42. एवं बरह्मानधीयानं राजा यश च न रक्षिता न वर्षति च यॊ मेघः सर्व एते निरर्थकाः ॥ 42 ॥

  43. नित्यं यस तु सतॊ रक्षेद असतश च निबर्हयेत स एव राजा कर्तव्यस तेन सर्वम इदं धृतम ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 80

Previous: अध्याय 78