[वैषम्पायन] युधिष्ठिरस तु धर्मात्मा शॊकव्याकुल चेतनः शुशॊच दुःखसंतप्तः समृत्वा कर्णं महारथम ॥ 1 ॥
आविष्टॊ दुःखशॊकाभ्यां निःश्वसंश च पुनः पुनः दृष्ट्वार्जुनम उवाचेदं वचनं शॊककर्शितः ॥ 2 ॥
यद भैक्षम आचरिष्याम वृष्ण्यन्धकपुरे वयम जञातीन निष्पुरुषान कृत्वा नेमां पराप्स्याम दुर्गतिम ॥ 3 ॥
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल आत्मानम आत्मना हत्वा किं धर्मफलम आप्नुमः ॥ 4 ॥
धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम धिग अस्त्व अमर्षं येनेमाम आपदं गमिता वयम ॥ 5 ॥
साधु कषमा दमः शौचम अवैरॊध्यम अमत्सरः अहिंसा सत्यवचनं नित्यानि वनचारिणाम ॥ 6 ॥
वयं तु लॊभान मॊहाच च सतम्भं मानं च संश्रिताः इमाम अवस्थाम आपन्ना राज्यलेश बुभुक्षया ॥ 7 ॥
तरैलॊक्यस्यापि राज्येन नास्मान कश चित परहर्षयेत बान्धवान निहतान दृष्ट्वा पृथिव्याम आमिषैषिणः ॥ 8 ॥
ते वयं पृथिवी हेतॊर अवध्यान पृथिवीसमान संपरित्यज्य जीवामॊ हीनार्था हतबान्धवाः ॥ 9 ॥
आमिषे गृध्यमानानाम अशुनां नः शुनाम इव आमिषं चैव नॊ नष्टम आमिषस्य च भॊजिनः ॥ 10 ॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः न गवाश्वेन सर्वेण ते तयाज्या य इमे हताः ॥ 11 ॥
संयुक्ताः काममन्युभ्यां करॊधामर्षसमन्विताः मृत्युयानं समारुह्य गता वैवस्वतक्षयम ॥ 12 ॥
बहुकल्याणम इच्छन्त ईहन्ते पितरः सुतान तपसा बरह्मचर्येण वन्दनेन तितिक्षया ॥ 13 ॥
उपवासैस तथेज्याभिर वरतकौतुक मङ्गलैः लभन्ते मातरॊ गर्भांस तान मासान दश बिभ्रति ॥ 14 ॥
यदि सवस्ति परजायन्ते जाता जीवन्ति वा यदि संभाविता जातबलास ते दद्युर यदि नः सुखम इह चामुत्र चैवेति कृपणाः फलहेतुकाः ॥ 15 ॥
तासाम अयं समारम्भॊ निवृत्तः केवलॊ ऽफलः यद आसां निहताः पुत्रा युवानॊ मृष्टकुण्डलाः ॥ 16 ॥
अभुक्त्वा पार्थिवान भॊगान ऋणान्य अनवदाय च पितृभ्यॊ देवताभ्यश च गता वैवस्वतक्षयम ॥ 17 ॥
यदैषाम अङ्गपितरौ जातौ काममयाव इव संजातबलरूपेषु तदैव निहता नृपाः ॥ 18 ॥
संयुक्ताः काममन्युभ्यां करॊधहर्षासमञ्जसाः न ते जन्म फलं किं चिद भॊक्तारॊ जातु कर्हि चित ॥ 19 ॥
पाञ्चालानां कुरूणां च हता एव हि ये ऽहताः ते वयं तव अधमाँल लॊकान परपद्येम सवकर्मभिः ॥ 20 ॥
वयम एवास्य लॊकस्य विनाशे कारणं समृताः धृतराष्ट्रस्य पुत्रेण निकृत्या परत्यपत्स्महि ॥ 21 ॥
सदैव निकृतिप्रज्ञॊ दवेष्टा मायॊपजीवनः मिथ्यवृत्तः स सततम अस्मास्व अनपकारिषु ॥ 22 ॥
अंशकामा वयं ते च न चास्माभिर न तैर जितम न तैर भुक्तेयम अवनिर न नार्यॊ गीतवादितम ॥ 23 ॥
नामात्य समितौ कथ्यं न च शरुतवतां शरुतम न रत्नानि परार्ध्यानि न भूर न दरविणागमः ॥ 24 ॥
ऋद्धिम अस्मासु तां दृष्ट्वा विवर्णॊ हरिणः कृशः धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ॥ 25 ॥
तं पिता पुत्रगृद्धित्वाद अनुमेने ऽनये सथितम अनवेक्ष्यैष पितरं गाङ्गेयं विदुरं तथा असंशयं धृतराष्ट्रॊ यथैवाहं तथागतः ॥ 26 ॥
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम पतितॊ यशसॊ दीप्ताद घातयित्वा सहॊदरान ॥ 27 ॥
इमौ वृद्धौ च शॊकाग्नौ परक्षिप्य स सुयॊधनः अस्मत परद्वेष संयुक्तः पापबुद्धिः सदैव हि ॥ 28 ॥
कॊ हि बन्धुः कुलीनः संस तथा बरूयात सुहृज्जने यथासाव उक्तवान कषुद्रॊ युयुत्सुर वृष्णिसंनिधौ ॥ 29 ॥
आत्मनॊ हि वयं दॊषाद विनष्टाः शाश्वतीः समाः परदहन्तॊ दिशः सर्वास तेजसा भास्करा इव ॥ 30 ॥
सॊ ऽसमाकं वैरपुरुषॊ दुर्मन्त्रि परग्रहं गतः दुर्यॊधनकृते हय एतत कुलं नॊ विनिपातितम अवध्यानां वधं कृत्वा लॊके पराप्ताः सम वाच्यताम ॥ 31 ॥
कुलस्यास्यान्त करणं दुर्मतिं पापकारिणम राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रॊ ऽदय शॊचति ॥ 32 ॥
हताः शूराः कृतं पापं विषयः सवॊ विनाशितः हत्वा नॊ विगतॊ मन्युः शॊकॊ मां रुन्धयत्य अयम ॥ 33 ॥
धनंजय कृतं पापं कल्याणेनॊपहन्यते तयागवांश च पुनः पापं नालं कर्तुम इति शरुतिः ॥ 34 ॥
तयागवाञ जन्म मरणे नाप्नॊतीति शरुतिर यदा पराप्तवर्मा कृतमतिर बरह्म संपद्यते तदा ॥ 35 ॥
सधनंजय निर्द्वंद्वॊ मुनिर जञानसमन्वितः वनम आमन्त्र्य वः सर्वान गमिष्यामि परंतप ॥ 36 ॥
न हि कृत्स्नतमॊ धर्मः शक्यः पराप्तुम इति शरुतिः परिग्रहवता तन मे परत्यक्षम अरिसूदन ॥ 37 ॥
मया निसृष्टं पापं हि परिग्रहम अभीप्सता जन्म कषयनिमित्तं च शक्यं पराप्तुम इति शरुतिः ॥ 38 ॥
स परिग्रहम उत्सृज्य कृत्स्नं राज्यं तथैव च गमिष्यामि विनिर्मुक्तॊ विशॊकॊ वि जवरस तथा ॥ 39 ॥
परशाधि तवम इमाम उर्वीं कषेमां निहतकण्टकाम न ममार्थॊ ऽसति राज्येन न भॊगैर वा कुरूत्तम ॥ 40 ॥
एतावद उक्त्वा वचनं धर्मराजॊ युधिष्ठिरः वयुपारमत ततः पार्थः कनीयान परत्यभाषत ॥ 41 ॥
शान्तिपर्व · Shanti Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8