केषां राजा परभवति वित्तस्य भरतर्षभ कया च वृत्त्या वर्तेत तन मे बरूहि पिता मह ॥ 1 ॥
अब्राह्मणानां वित्तस्य सवामी राजेति वैदिकम बराह्मणानां च ये के चिद वि कर्म सथा भवन्त्य उत ॥ 2 ॥
वि कर्म सथाश च नॊपेक्ष्या विप्रा राज्ञा कथं चन इति राज्ञां पुरावृत्तम अभिजल्पन्ति साधवः ॥ 3 ॥
यस्य सम विषये राज्ञः सतेनॊ भवति वै दविजः राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥ 4 ॥
अभि शस्तम इवात्मानं मन्यन्ते तेन कर्मणा तस्माद राजर्षयः सर्वे बराह्मणान अन्वपालयन ॥ 5 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं केकयराजेन हरियमाणेन रक्षसा ॥ 6 ॥
केकयानाम अधिपतिं रक्षॊ जग्राह दारुणम सवाध्यायेनान्वितं राजन्न अरण्ये संशितव्रतम ॥ 7 ॥
न मे सतेनॊ जनपदे न कदर्यॊ न मद्य पः नानाहिताग्निर नायज्वा मामकान्तरम आविशः ॥ 8 ॥
न च मे बराह्मणॊ ऽविद्वान नाव्रती नाप्य असॊम पः नानाहिताग्निर विषये मामकान्तरम आविशः ॥ 9 ॥
नानाप्त दक्षिणैर यज्ञैर यजन्ते विषये मम अधीते नाव्रती कश चिन मामकान्तरम आविशः ॥ 10 ॥
अधीयते ऽधयापयन्ति यजन्ते याजयन्ति च ददति परतिगृह्णन्ति षट्सु कर्मस्व अवस्थिताः ॥ 11 ॥
पूजिताः संविभक्ताश च मृदवः सत्यवादिनः बराह्मणा मे सवकर्म सथा मामकान्तरम आविशः ॥ 12 ॥
न याचन्ते परयछन्ति सत्यधर्मविशारदाः नाध्यापयन्त्य अधीयन्ते यजन्ते न च याजकाः ॥ 13 ॥
बराह्मणान परिरक्षन्ति संग्रामेष्व अपलायिनः कषत्रिया मे सवकर्म सथा मामकान्तरम आविशः ॥ 14 ॥
कृषिगॊरक्ष वाणिज्यम उपजीवन्त्य अमायया अप्रमत्ताः करिया वन्तः सुव्रताः सत्यवादिनः ॥ 15 ॥
संविभागं दमं शौचं सौहृदं च वयपाश्रिताः मम वैश्याः सवकर्म सथा मामकान्तरम आविशः ॥ 16 ॥
तरीन वर्णान अनुतिष्ठन्ति यथा वद अनसूयकाः मम शूद्राः सवकर्म सथा मामकान्तरम आविशः ॥ 17 ॥
कृपणानाथ वृद्धानां दुर बलातुर यॊषिताम संविभक्तास्मि सर्वेषां मामकान्तरम आविशः ॥ 18 ॥
कुलदेशादि धर्माणां परस्थितानां यथाविधि अव्युच्छेत्तास्मि सर्वेषां मामकान्तरम आविशः ॥ 19 ॥
तपस्विनॊ मे विषये पूजिताः परिपालिताः संविभक्ताश च सत्कृत्य मामकान्तरम आविशः ॥ 20 ॥
नासंविभज्य भॊक्तास्मि न विशामि परस्त्रियम सवतन्त्रॊ जातु न करीडे मामकान्तरम आविशः ॥ 21 ॥
नाब्रह्म चारी भिक्षा वान भिक्षुर वाब्रह्म चारिकः अनृत्विजं हुतं नास्ति मामकान्तरम आविशः ॥ 22 ॥
नावजानाम्य अहं वृद्धान न वैद्यान न तपस्विनः राष्ट्रे सवपप्ति जागर्मि मामकान्तरम आविशः ॥ 23 ॥
वेदाध्ययनसंपन्नस तपस्वी सर्वधर्मवित सवामी सर्वस्य राज्यस्य शरीमान मम पुरॊहितः ॥ 24 ॥
दानेन दिव्यान अभिवाञ्छामि लॊकान; सत्येनाथॊ बराह्मणानां च गुप्त्या शुश्रूषया चापि गुरून उपैमि; न मे भयं विद्यते राक्षसेभ्यः ॥ 25 ॥
न मे राष्ट्रे विधवा बरह्म बन्धुर; न बराह्मणः कृपणॊ नॊत चॊरः न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ॥ 26 ॥
न मे शस्त्रैर अनिर्भिन्नम अङ्गे दव्यङ्गुलम अन्तरम धर्मार्थं युध्यमानस्य मामकान्तरम आविशः ॥ 27 ॥
गॊब्राह्मणे च यज्ञे च नित्यं सवस्त्ययनं मम आशासते जना राष्ट्रे मामकान्तरम आविशः ॥ 28 ॥
यस्मात सर्वास्व अवस्थासु धर्मम एवान्ववेक्षसे तस्मात पराप्नुहि कैकेय गृहान सवस्ति वरजाम्य अहम ॥ 29 ॥
येषां गॊब्राह्मणा रक्ष्याः परजा रक्ष्याश च केकय न रक्षॊभ्यॊ भयं तेषां कुत एव तु मानुषात ॥ 30 ॥
येषां पुरॊगमा विप्रा येषां बरह्मबलं बलम परियातिथ्यास तथा दारास ते वै सवर्गजितॊ नराः ॥ 31 ॥
तस्माद दविजातीन रक्षेत ते हि रक्षन्ति रक्षिताः आशीर एषां भवेद राज्ञां राष्ट्रं सम्यक परवर्धते ॥ 32 ॥
तस्माद राज्ञा विशेषेण वि कर्म सथा दविजातयः नियम्याः संविभज्याश च परजानुग्रह कारणात ॥ 33 ॥
य एवं वर्तते राजा पौरजानपदेष्व इह अनुभूयेह भद्राणि पराप्नॊतीन्द्र स लॊकताम ॥ 34 ॥
शान्तिपर्व · Shanti Parva
अध्याय 78
Reach this point to mark the section finished.
Continue to अध्याय 79