धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 75

  1. यॊगक्षेमॊ हि राष्ट्रस्य राजन्यायत्त उच्यते यॊगक्षेमश च राज्ञॊ ऽपि समायत्त पुरॊहिते ॥ 1 ॥

  2. यतादृष्टं भयं बरह्म परजानां शमयत्य उत दृष्टं च राजा बाहुभ्यां तद राष्ट्रं सुखम एधते ॥ 2 ॥

  3. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मुचुकुन्दस्य संवादं राज्ञॊ वैश्रवणस्य च ॥ 3 ॥

  4. मुचुकुन्दॊ विजित्येमां पृथिवीं पृथिवीपतिः जिज्ञासमानः सवबलम अभ्ययाद अलकाधिपम ॥ 4 ॥

  5. ततॊ वैश्रवणॊ राजा रक्षांसि समवासृजत ते बलान्य अवमृद्नन्तः पराचरंस तस्य नैरृताः ॥ 5 ॥

  6. स हन्यमाने सैन्त्ये सवे मुचुकुन्दॊ नराधिपः गर्हयाम आस विद्वांसं पुरॊहितम अरिंदमः ॥ 6 ॥

  7. तत उग्रं तपस तप्त्वा वसिष्ठॊ बरह्म वित तमः रक्षांस्य अपावधीत तत्र पन्थानं चाप्य अविन्दत ॥ 7 ॥

  8. ततॊ वैश्रवणॊ राजा मुचुकुन्दम अदर्शयत वध्यमानेषु सैन्येषु वचनं चेदम अब्रवीत ॥ 8 ॥

  9. तवत्तॊ हि बलिनः पूर्वे राजानः स पुरॊहिताः न चैवं समवर्तंस ते यथा तवम इह वर्तसे ॥ 9 ॥

  10. ते खल्व अपि कृतास्त्राश च बलवन्तश च भूमिपाः आगम्य पर्युपासन्ते माम ईशं सुखदुःखयॊः ॥ 10 ॥

  11. यद्य अस्ति बाहुवीर्यं ते तद दर्शयितुम अर्हसि किं बराह्मण बलेन तवम अति मात्रं परवर्तसे ॥ 11 ॥

  12. मुचुकुन्दस ततः करुद्धः परत्युवाच धनेश्वरम नयायपूर्वम असंरब्धम असंभ्रान्तम इदं वचः ॥ 12 ॥

  13. बरह्मक्षत्रम इदं सृष्टम एकयॊनिस्वयं भुवा पृथग बलविधानं च तल लॊकं परिरक्षति ॥ 13 ॥

  14. तपॊ मन्त्रबलं नित्यं बराह्मणेषु परतिष्ठितम अस्त्रबाहुबलं नित्यं कषत्रियेषु परतिष्ठितम ॥ 14 ॥

  15. ताभ्यां संभूय कर्तव्यं परजानां परिपालनम तथा च मां परवर्तन्तं गर्हयस्य अलकाधिप ॥ 15 ॥

  16. ततॊ ऽबरवीद वैश्रवणॊ राजानं स पुरॊहितम नाहं राज्यम अनिर्दिष्टं कस्मै चिद विदधाम्य उत ॥ 16 ॥

  17. नाछिन्दे चापि निर्दिष्टम इति जानीहि पार्थिव परशाधि पृथिवीं वीर मद्दत्ताम अखिलाम इमाम ॥ 17 ॥

  18. नाहं राज्यं भवद दत्तं भॊक्तुम इच्छामि पार्थिव बाहुवीर्यार्जितं राज्यम अश्नीयाम इति कामये ॥ 18 ॥

  19. ततॊ वैश्रवणॊ राजा विस्मयं परमं ययौ कषत्रधर्मे सथितं दृष्ट्वा मुचुकुन्दम असंभ्रमम ॥ 19 ॥

  20. ततॊ राजा मुचुकुन्दः सॊ ऽनवशासद वसुंधराम बाहुवीर्यार्जितां सम्यक कषत्रधर्मम अनुव्रतः ॥ 20 ॥

  21. एवं यॊ बरह्म विद राजा बरह्मपूर्वं परवर्तते जयत्य अविजिताम उर्वीं यशश च महद अश्नुते ॥ 21 ॥

  22. नित्यॊदकॊ बराह्मणः सयान नित्यशस्त्रश च कषत्रियः तयॊर हि सर्वम आयत्तं यत किं चिज जगती गतम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 76

Previous: अध्याय 74