धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 73

  1. य एव तु सतॊ रक्षेद असतश च निबर्हयेत स एव राज्ञा कर्तव्यॊ राजन राजपुरॊहितः ॥ 1 ॥

  2. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम पुरूरवस ऐलस्य संवादं मातरिश्वनः ॥ 2 ॥

  3. कुतः सविद बराह्मणॊ जातॊ वर्णाश चापि कुतस तरयः कस्माच च भवति शरेयान एतद वायॊ विचक्ष्व मे ॥ 3 ॥

  4. बरह्मणॊ मुखतः सृष्टॊ बराह्मणॊ राजसत्तम बाहुभ्यां कषत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ॥ 4 ॥

  5. वर्णानां परिचर्यार्थं तरयाणां पुरुषर्षभ वर्णश चतुर्थः पश्चात तु पद्भ्यां शूद्रॊ विनिर्मितः ॥ 5 ॥

  6. बराह्मणॊ जातमात्रस तु पृथिवीम अन्वजायत ईश्वरः सर्वभूतानां धर्मकॊशस्य गुप्तये ॥ 6 ॥

  7. ततः पृथिव्या गॊप्तारं कषत्रियं दण्डधारिणम दवितीयं वर्णम अकरॊत परजानाम अनुगुप्तये ॥ 7 ॥

  8. वैश्यस तु धनधान्येन तरीन वर्णान बिभृयाद इमान शूद्रॊ हय एनान परिचरेद इति बरह्मानुशासनम ॥ 8 ॥

  9. दविजस्य कषत्रबन्धॊर वा कस्येयं पृथिवी भवेत धर्मतः सह वित्तेन सम्यग वायॊ परचक्ष्व मे ॥ 9 ॥

  10. विप्रस्य सर्वम एवैतद यत किं चिज जगती गतम जयेष्ठेनाभिजनेनेह तद धर्मकुशला विदुः ॥ 10 ॥

  11. सवम एव बराह्मणॊ भुङ्क्ते सवं वस्ते सवं ददाति च गुरुर हि सर्ववर्णानां जयेष्ठः शरेष्ठश च वै दविजः ॥ 11 ॥

  12. पत्यभावे यथा सत्री हि देवरं कुरुते पतिम आनन्तर्यात तथा कषत्रं पृथिवी कुरुते पतिम ॥ 12 ॥

  13. एष ते परथमः कल्प आपद्य अन्यॊ भवेद अतः यदि सवर्गे परं सथानं धर्मतः परिमार्गसि ॥ 13 ॥

  14. यः कश चिद विजयेद भूमिं बराह्मणाय निवेदयेत शरुतवृत्तॊपपन्नाय धर्मज्ञाय तपस्विने ॥ 14 ॥

  15. सवधर्मपरितृप्ताय यॊ न वित्तपरॊ भवेत यॊ राजानं नयेद बुद्ध्या सर्वतः परिपूर्णया ॥ 15 ॥

  16. बराह्मणॊ हि कुले जातः कृतप्रज्ञॊ विनीतवाक शरेयॊ नयति राजानं बरुवंश चित्रां सरस्वतीम ॥ 16 ॥

  17. राजा चरति यं धर्मं बराह्मणेन निदर्शितम शुश्रूषुर अनहंवादी कषत्रधर्मव्रते सथितः ॥ 17 ॥

  18. तावता स कृतप्रज्ञश चिरं यशसि तिष्ठति तस्य धर्मस्य सर्वस्य भागी राजपुरॊहितः ॥ 18 ॥

  19. एवम एव परजा सर्वा राजानम अभिसंश्रिताः सम्यग्वृत्ताः सवधर्मस्था न कुतश चिद भयान्विताः ॥ 19 ॥

  20. राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्व अभिरक्षिताः चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ॥ 20 ॥

  21. देवा मनुष्याः पितरॊ गन्धर्वॊरगराक्षसाः यज्ञम एवॊपजीवन्ति नास्ति चेष्टम अराजके ॥ 21 ॥

  22. इतॊ दत्तेन जीवन्ति देवताः पितरस तथा राजन्य एवास्य धर्मस्य यॊगक्षेमः परतिष्ठितः ॥ 22 ॥

  23. छायायाम अप्सु वायौ च सुखम उष्णे ऽधिगच्छति अग्नौ वाससि सूर्ये च सुखं शीते ऽधिगच्छति ॥ 23 ॥

  24. शब्दे सपर्शे रसे रूपे गन्धे च रमते मनः तेषु भॊगेषु सर्वेषु न भीतॊ लभते सुखम ॥ 24 ॥

  25. अभयस्यैव यॊ दाता तस्यैव सुमहत फलम न हि पराणसमं दानं तरिषु लॊकेषु विद्यते ॥ 25 ॥

  26. इन्द्रॊ राजा यमॊ राजा धर्मॊ राजा तथैव च राजा बिभर्ति रूपाणि राज्ञा सर्वम इदं धृतम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 74

Previous: अध्याय 72