धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 6

  1. [वैषम्पायन] एतावद उक्त्वा देवर्षिर विरराम स नारदः युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः ॥ 1 ॥

  2. तं दीनमनसं वीरम अधॊ वदनम आतुलम निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥ 2 ॥

  3. कुन्ती शॊकपरीताङ्गी दुःखॊपहत चेतना अब्रवीन मधुराभाषा काले वचनम अर्थवत ॥ 3 ॥

  4. युधिष्ठिर महाबाहॊ नैनं शॊचितुम अर्हसि जहि शॊकं महाप्राज्ञ शृणु चेदं वचॊ मम ॥ 4 ॥

  5. यतितः स मया पूर्वं भरात्र्यं जञापयितुं तव भास्करेण च देवेन पित्रा धर्मभृतां वर ॥ 5 ॥

  6. यद वाच्यं हितकामेन सुहृदा भूतिम इच्छता तथा दिवाकरेणॊक्तः सवप्नान्ते मम चाग्रतः ॥ 6 ॥

  7. न चैनम अशकद भानुर अहं वा सनेहकारणैः पुरा परत्यनुनेतुं वा नेतुं वाप्य एकतां तवया ॥ 7 ॥

  8. ततः कालपरीतः स वैरस्यॊद्धुक्षणे रतः परतीप कारी युष्माकम इति चॊपेक्षितॊ मया ॥ 8 ॥

  9. इत्य उक्तॊ धर्मराजस तु मात्रा बाष्पाकुलेक्षणः उवाच वाक्यं धर्मात्मा शॊकव्याकुल चेतनः ॥ 9 ॥

  10. भवत्या गूढमन्त्रत्वात पीडितॊ ऽसमीत्य उवाच ताम शशाप च महातेजाः सर्वलॊकेषु च सत्रियः न गुह्यं धारयिष्यन्तीत्य अतिदुःख समन्वितः ॥ 10 ॥

  11. स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा समरन्न उद्विग्नहृदयॊ बभूवास्वस्थ चेतनः ॥ 11 ॥

  12. ततः शॊकपरीतात्मा स धूम इव पावकः निर्वेदम अकरॊद धीमान राजा संतापपीडितः ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5