पार्थिवेन विशेषेण किं कार्यम अवशिष्यते कथं रक्ष्यॊ जनपदः कथं रक्ष्याश च शत्रवः ॥ 1 ॥
कथं चारं परयुञ्जीत वर्णान विश्वासयेत कथम कथं भृत्यान कथं दारान कथं पुत्रांश च भारत ॥ 2 ॥
राजवृत्तं महाराज शृणुष्वावहितॊ ऽखिलम यत कार्यं पार्थिवेनादौ पार्थिव परकृतेन वा ॥ 3 ॥
आत्मा जेयः सदा राज्ञा ततॊ जेयाश च शत्रवः अजितात्मा नरपतिर विजयेत कथं रिपून ॥ 4 ॥
एतावान आत्मविजयः पञ्चवर्ग विनिग्रहः जितेन्द्रियॊ नरपतिर बाधितुं शक्नुयाद अरीन ॥ 5 ॥
नयसेत गुल्मान दुर्गेषु संधौ च कुरुनन्दन नगरॊपवने चैव पुरॊद्यानेषु चैव ह ॥ 6 ॥
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च मध्ये च नरशार्दूल तथा राजनिवेशने ॥ 7 ॥
परणिधींश च ततः कुर्याज जडान्धबधिराकृतीन पुंसः परीक्षितान पराज्ञान कषुत्पिपासातप कषमान ॥ 8 ॥
अमात्येषु च सर्वेषु मित्रेषु तरिविधेषु च पुत्रेषु च महाराज परणिदध्यात समाहितः ॥ 9 ॥
पुरे जनपदे चैव तथा सामन्तराजसु यथा न विद्युर अन्यॊन्यं परणिधेयास तथा हि ते ॥ 10 ॥
चारांश च विद्यात परहितान परेण भरतर्षभ आपणेषु विहारेषु समवायेषु भिक्षुषु ॥ 11 ॥
आरामेषु तथॊद्याने पण्डितानां समागमे वेशेषु चत्वरे चैव सभास्व आवसथेषु च ॥ 12 ॥
एवं विहन्याच चारेण परचारं विचक्षणः चारेण विहतं सर्वं हतं भवति पाण्डव ॥ 13 ॥
यदा तु हीनं नृपतिर विद्याद आत्मानम आत्मना अमात्यैः सह संमन्त्र्य कुर्यात संधिं बलीयसा ॥ 14 ॥
अज्ञायमानॊ हीनत्वे कुर्यात संधिं परेण वै लिप्सुर वा कं चिद एवार्थं तवरमाणॊ विचक्षणः ॥ 15 ॥
गुणवन्तॊ महॊत्साहा धर्मज्ञाः साधवश च ये संदधीत नृपस तैश च राष्ट्रं धर्मेण पालयन ॥ 16 ॥
उच्छिद्यमानम आत्मानं जञात्वा राजा महामतिः पूर्वापकारिणॊ हन्याल लॊकद्विष्टांश च सर्वशः ॥ 17 ॥
यॊ नॊपकर्तुं शक्नॊति नापकर्तुं महीपतिः अशक्यरूपश चॊद्धर्तुम उपेक्ष्यस तादृशॊ भवेत ॥ 18 ॥
यात्रां यायाद अविज्ञातम अनाक्रन्दम अनन्तरम वयासक्तं च परमत्तं च दुर बलं च विचक्षणः ॥ 19 ॥
यात्राम आज्ञापयेद वीरः कल्य पुष्टबली सुखी पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ 20 ॥
न च वश्यॊ भवेद अस्य नृपॊ यद्य अपि वीर्यवान हीनश च बलवीर्याभ्यां कर्शयंस तं परावसेत ॥ 21 ॥
राष्ट्रं च पीडयेत तस्य शस्त्राग्निविषमूर्छनैः अमात्यवल्लभानां च विवादांस तस्य कारयेत वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥ 22 ॥
उपायैस तरिभिर आदानम अर्थस्याह बृहस्पतिः सान्त्वेनानुप्रदानेन भेदेन च नराधिप यम अर्थं शक्नुयात पराप्तुं तेन तुष्येद धि पण्डितः ॥ 23 ॥
आददीत बलिं चैव परजाभ्यः कुरुनन्दन षड भागम अमितप्रज्ञस तासाम एवाभिगुप्तये ॥ 24 ॥
दश धर्मगतेभ्यॊ यद वसु बह्व अल्पम एव च तन नाददीत सहसा पौराणां रक्षणाय वै ॥ 25 ॥
यथा पुत्रास तथा पौरा दरष्टव्यास ते न संशयः भक्तिश चैषां परकर्तव्या वयवहारे परदर्शिते ॥ 26 ॥
सुतं च सथापयेद राजा राज्ञं सर्वार्थदर्शिनम वयवहारेषु सततं तत्र राज्यं वयवस्थितम ॥ 27 ॥
आकरे लवणे शुल्के तरे नागवने तथा नयसेद अमात्यान नृपतिः सवाप्तान वा पुरुषान हितान ॥ 28 ॥
सम्यग दण्डधरॊ नित्यं राजा धर्मम अवाप्नुयात नृपस्य सततं दण्डः सम्यग धर्मे परशस्यते ॥ 29 ॥
वेदवेदाङ्गवित पराज्ञः सुतपस्वी नृपॊ भवेत दानशीलश च सततं यज्ञशीलश च भारत ॥ 30 ॥
एते गुणाः समस्ताः सयुर नृपस्य सततं सथिराः करिया लॊपे तु नृपतेः कुतः सवर्गः कुतॊ यशः ॥ 31 ॥
यदा तु पीडितॊ राजा भवेद राज्ञा बलीयसा तरिधा तव आक्रन्द्य मित्राणि विधानम उपकल्पयेत ॥ 32 ॥
घॊषान नयसेत मार्गेषु गरामान उत्थापयेद अपि परवेशयेच च तान सर्वाञ शाखा नगरकेष्व अपि ॥ 33 ॥
ये गुप्ताश चैव दुर्गाश च देशास तेषु परवेशयेत धनिनॊ बलमुख्यांश च सान्त्वयित्वा पुनः पुनः ॥ 34 ॥
सस्याभिहारं कुर्याच च सवयम एव नराधिपः असंभवे परवेशस्य दाहयेद अग्निना भृशम ॥ 35 ॥
कषेत्रस्थेषु च सस्येषु शत्रॊर उपजपेन नरान विनाशयेद वा सर्वस्वं बलेनाथ सवकेन वै ॥ 36 ॥
नदीषु मार्गेषु सदा संक्रमान अवसादयेत जलं निस्रावयेत सर्वम अनिस्राव्यं च दूषयेत ॥ 37 ॥
तदात्वेनायतीभिश च विवदन भूम्यनन्तरम परतीघातः परस्याजौ मित्र काले ऽपय उपस्थिते ॥ 38 ॥
दुर्गाणां चाभितॊ राजा मूलछेदं परकारयेत सर्वेषां कषुद्रवृक्षाणां चैत्यवृक्षान विवर्जयेत ॥ 39 ॥
परवृद्धानां च वृक्षाणां शाखाः परच्छेदयेत तथा चैत्यानां सर्वथा वर्ज्यम अपि पत्रस्य पातनम ॥ 40 ॥
परकण्ठीः कारयेत सम्यग आकाशजननीस तथा आपूरयेच च परिखाः सथाणुनक्र झषाकुलाः ॥ 41 ॥
कडङ्ग दवारकाणि सयुर उच्छ्वासार्थे पुरस्य ह तेषां च दवारवद गुप्तिः कार्या सर्वात्मना भवेत ॥ 42 ॥
दवारेषु च गुरूण्य एव यन्त्राणि सथापयेत सदा आरॊपयेच छतघ्नीश च सवाधीनानि च कारयेत ॥ 43 ॥
काष्ठानि चाभिहार्याणि तथा कूपांश च खानयेत संशॊधयेत तथा कूपान कृतान पूर्वं पयॊ ऽरथिभिः ॥ 44 ॥
तृणछन्नानि वेश्मानि पङ्केनापि परलेपयेत निर्हरेच च तृणं मासे चैत्रे वह्नि भयात पुरः ॥ 45 ॥
नक्तम एव च भक्तानि पाचयेत नराधिपः न दिवाग्निर जवलेद गेहे वर्जयित्वाग्निहॊत्रिकम ॥ 46 ॥
कर्मारारिष्ट शालासु जवलेद अग्निः समाहितः गृहाणि च परविश्याथ विधेयः सयाद धुताशनः ॥ 47 ॥
महादण्डश च तस्य सयाद यस्याग्निर वै दिवा भवेत परघॊषयेद अथैवं च रक्षणार्थं पुरस्य वै ॥ 48 ॥
भिक्षुकांश चाक्रिकांश चैव कषीबॊन्मत्तान कुशीलवान बाह्यान कुर्यान नरश्रेष्ठ दॊषाय सयुर हि ते ऽनयथा ॥ 49 ॥
चत्वरेषु च तीर्थेषु सभास्व आवसथेषु च यथार्ह वर्णं परणिधिं कुर्यात सर्वत्र पार्थिवः ॥ 50 ॥
विशालान राजमार्गांश च कारयेत नराधिपः परपाश च विपणीश चैव यथॊद्देशं समादिशेत ॥ 51 ॥
भाण्डागारायुधागारान धान्यागारांश च सर्वशः अश्वागारान गजागारान बलाधिकरणानि च ॥ 52 ॥
परिखाश चैव कौरव्य परतॊलीः संकटानि च न जातु कश चित पश्येत तु गुह्यम एतद युधिष्ठिर ॥ 53 ॥
अथ संनिचयं कुर्याद राजा परबलार्दितः तैलं मधु घृतं सस्यम औषधानि च सर्वशः ॥ 54 ॥
अङ्गारकुश मुञ्जानां पलाशशरपर्णिनाम यवसेन्धन दिग्धानां कारयेत च संचयान ॥ 55 ॥
आयुधानां च सर्वेषां शक्त्यृष्टि परासवर्मणाम संचयान एवमादीनां कारयेत नराधिपः ॥ 56 ॥
औषधानि च सर्वाणि मूलानि च फलानि च चतुर्विधांश च वैद्यान वै संगृह्णीयाद विशेषतः ॥ 57 ॥
नटाश च नर्तकाश चैव मल्ला माया विनस तथा शॊभयेयुः पुरवरं मॊदयेयुश च सर्वशः ॥ 58 ॥
यतः शङ्का भवेच चापि भृत्यतॊ वापि मन्त्रितः पौरेभ्यॊ नृपतेर वापि सवाधीनान कारयेत तान ॥ 59 ॥
कृते कर्मणि राजेन्द्र पूजयेद धनसंचयैः मानेन च यथार्हेण सान्त्वेन विविधेन च ॥ 60 ॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन गतानृण्यॊ भवेद राजा यथाशास्त्रेषु दर्शितम ॥ 61 ॥
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबॊध मे आत्मामात्यश च कॊशश च दण्डॊ मित्राणि चैव हि ॥ 62 ॥
तथा जनपदश चैव पुरं च कुरुनन्दन एतत सप्तात्मकं राज्यं परिपाल्यं परयत्नतः ॥ 63 ॥
षाड्गुण्यं च तरिवर्गं च तरिवर्गम अपरं तथा यॊ वेत्ति पुरुषव्याघ्र स भुनक्ति महीम इमाम ॥ 64 ॥
षाड्गुण्यम इति यत परॊक्तं तन निबॊध युधिष्ठिर संधायासनम इत्य एव यात्रा संधानम एव च ॥ 65 ॥
विगृह्यासनम इत्य एव यात्रां संपरिगृह्य च दवैधी भावस तथान्येषां संश्रयॊ ऽथ परस्य च ॥ 66 ॥
तरिवर्गश चापि यः परॊक्तस तम इहैकमनाः शृणु कषयः सथानं च वृद्धिश च तरिवर्गम अपरं तथा ॥ 67 ॥
धर्मश चार्थश च कामश च सेवितव्यॊ ऽथ कालतः धर्मेण हि महीपालश चिरं पालयते महीम ॥ 68 ॥
अस्मिन्न अर्थे च यौ शलॊकौ गीताव अङ्गिरसा सवयम यादवी पुत्र भद्रं ते शरॊतुम अर्हसि ताव अपि ॥ 69 ॥
कृत्वा सर्वाणि कार्याणि सम्यक संपाल्य मेदिनीम पालयित्वा तथा पौरान परत्र सुखम एधते ॥ 70 ॥
किं तस्य तपसा राज्ञः किं च तस्याध्वरैर अपि अपालिताः परजा यस्य सर्वा धर्मविनाकृताः ॥ 71 ॥
शान्तिपर्व · Shanti Parva
अध्याय 69
Reach this point to mark the section finished.
Continue to अध्याय 70