धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 68

  1. किम आहुर दैवतं विप्रा राजानं भरतर्षभ मनुष्याणाम अधिपतिं तन मे बरूहि पिता मह ॥ 1 ॥

  2. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतिं वसु मना यथा पप्रच्छ भारत ॥ 2 ॥

  3. राजा वसु मना नाम कौसल्यॊ धीमतां वरः महर्षिं परिपप्रच्छ कृतप्रज्ञॊ बृहस्पतिम ॥ 3 ॥

  4. सर्वं वैनयिकं कृत्वा विनयज्ञॊ बृहस्पतेः दक्षिणानन्तरॊ भूत्वा परणम्य विधिपूर्वकम ॥ 4 ॥

  5. विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः परजानां हितम अन्विच्छन धर्ममूलं विशां पते ॥ 5 ॥

  6. केन भूतानि वर्धन्ते कषयं गच्छन्ति केन च कम अर्चन्तॊ महाप्राज्ञ सुखम अत्यन्तम आप्नुयुः ॥ 6 ॥

  7. इति पृष्टॊ महाराज्ञा कौसल्येनामितौजसा राजसत्कारम अव्यग्रः शशंसास्मै बृहस्पतिः ॥ 7 ॥

  8. राजमूलॊ महाराज धर्मॊ लॊकस्य लक्ष्यते परजा राजभयाद एव न खादन्ति परस्परम ॥ 8 ॥

  9. राजा हय एवाखिलं लॊकं समुदीर्णं समुत्सुकम परसादयति धर्मेण परसाद्य च विराजते ॥ 9 ॥

  10. यथा हय अनुदये राजन भूतानि शशिसूर्ययॊः अन्धे तमसि मज्जेयुर अपश्यन्तः परस्परम ॥ 10 ॥

  11. यथा हय अनुदके मत्स्या निराक्रन्दे विहंगमाः विहरेयुर यथाकामम अभिसृत्य पुनः पुनः ॥ 11 ॥

  12. विमथ्यातिक्रमेरंश च विषह्यापि परस्परम अभावम अचिरेणैव गच्छेयुर नात्र संशयः ॥ 12 ॥

  13. एवम एव विना राज्ञा विनश्येयुर इमाः परजाः अन्धे तमसि मज्जेयुर अगॊपाः पशवॊ यथा ॥ 13 ॥

  14. हरेयुर बलवन्तॊ हि दुर बलानां परिग्रहान हन्युर वयायच्छमानांश च यदि राजा न पालयेत ॥ 14 ॥

  15. यानं वस्त्रम अलं कारान रत्नानि विविधानि च हरेयुः सहसा पापा यदि राजा न पालयेत ॥ 15 ॥

  16. ममेदम इति लॊके ऽसमिन न भवेत संपरिग्रहः विश्वलॊपः परवर्तेत यदि राजा न पालयेत ॥ 16 ॥

  17. मातरं पितरं वृद्धम आचार्यम अतिथिं गुरुम कलिश्नीयुर अपि हिंस्युर वा यदि राजा न पालयेत ॥ 17 ॥

  18. पतेद बहुविधं शस्त्रं बहुधा धर्मचारिषु अधर्मः परगृहीतः सयाद यदि राजा न पालयेत ॥ 18 ॥

  19. वधबन्धपरिक्लेशॊ नित्यम अर्थवतां भवेत ममत्वं च न विन्देयुर यदि राजा न पालयेत ॥ 19 ॥

  20. अन्तश चाकाशम एव सयाल लॊकॊ ऽयं दस्यु साद भवेत पतेच च नरकं घॊरं यदि राजा न पालयेत ॥ 20 ॥

  21. न यॊनिपॊषॊ वर्तेत न कृषिर न वणिक पथः मज्जेद धर्मस तरयी न सयाद यदि राजा न पालयेत ॥ 21 ॥

  22. न यज्ञाः संप्रवर्तेरन विधिवत सवाप्तदक्षिणाः न विवाहाः समाजा वा यदि राजा न पालयेत ॥ 22 ॥

  23. न वृषाः संप्रवर्तेरन न मथ्येरंश च गर्गराः घॊषाः परणाशं गच्छेयुर यदि राजा न पालयेत ॥ 23 ॥

  24. तरस्तम उद्विग्नहृदयं हाहाभूतम अचेतनम कषणेन विनशेत सर्वं यदि राजा न पालयेत ॥ 24 ॥

  25. न संवत्सरसत्राणि तिष्ठेयुर अकुतॊभयाः विधिवद दक्षिणा वन्ति यदि राजा न पालयेत ॥ 25 ॥

  26. बराह्मणाश चतुरॊ वेदान नाधीयेरंस तपस्विनः विद्या सनातास तपः सनाता यदि राजा न पालयेत ॥ 26 ॥

  27. हस्तॊ हस्तं स मुष्णीयाद भिद्येरन सर्वसेतवः भयार्तं विद्रवेत सर्वं यदि राजा न पालयेत ॥ 27 ॥

  28. न लभेद धर्मसंश्लेषं हतविप्रहतॊ जनः कर्ता सवेच्छेन्द्रियॊ गच्छेद यदि राजा न पालयेत ॥ 28 ॥

  29. अनयाः संप्रवर्तेरन भवेद वै वर्णसंकरः दुर भिक्षम आविशेद राष्ट्रं यदि राजा न पालयेत ॥ 29 ॥

  30. विवृत्य हि यथाकामं गृहद्वाराणि शेरते मनुष्या रक्षिता राज्ञा समन्ताद अकुतॊभयाः ॥ 30 ॥

  31. नाक्रुष्टं सहते कश चित कुतॊ हस्तस्य लङ्घनम यदि राजा मनुष्येषु तराता भवति धार्मिकः ॥ 31 ॥

  32. सत्रियश चापुरुषा मार्गं सर्वालं कारभूषिताः निर्भयाः परतिपद्यन्ते यदा रक्षति भूमिपः ॥ 32 ॥

  33. धर्मम एव परपद्यन्ते न हिंसन्ति परस्परम अनुगृह्णन्ति चान्यॊन्यं यदा रक्षति भूमिपः ॥ 33 ॥

  34. यजन्ते च तरयॊ वर्णा महायज्ञैः पृथग्विधैः युक्ताश चाधीयते शास्त्रं यदा रक्षति भूमिपः ॥ 34 ॥

  35. वार्ता मूलॊ हय अयं लॊकस तरय्या वै धार्यते सदा तत सर्वं वर्तते सम्यग यदा रक्षति भूमिपः ॥ 35 ॥

  36. यदा राजा धुरं शरेष्ठाम आदाय वहति परजाः महता बलयॊगेन तदा लॊकः परसीदति ॥ 36 ॥

  37. यस्याभावे च भूतानाम अभावः सयात समन्ततः भावे च भावॊ नित्यः सयात कस तं न परतिपूजयेत ॥ 37 ॥

  38. तस्य यॊ वहते भारं सर्वलॊकसुखावहम तिष्ठेत परियहिते राज्ञ उभौ लॊकौ हि यॊ जयेत ॥ 38 ॥

  39. यस तस्य पुरुषः पापं मनसाप्य अनुचिन्तयेत असंशयम इह कलिष्टः परेत्यापि नरकं पतेत ॥ 39 ॥

  40. न हि जात्व अवमन्तव्यॊ मनुष्य इति भूमिपः महती देवता हय एषा नररूपेण तिष्ठति ॥ 40 ॥

  41. कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा भवत्य अग्निस तथादित्यॊ मृत्युर वैश्रवणॊ यमः ॥ 41 ॥

  42. यदा हय आसीद अतः पापान दहत्य उग्रेण तेजसा मिथ्यॊपचरितॊ राजा तदा भवति पावकः ॥ 42 ॥

  43. यदा पश्यति चारेण सर्वभूतानि भूमिपः कषेमं च कृत्वा वरजति तदा भवति भास्करः ॥ 43 ॥

  44. अशुचींश च यदा करुद्धः कषिणॊति शतशॊ नरान सपुत्रपौत्रान सामात्यांस तदा भवति सॊ ऽनतकः ॥ 44 ॥

  45. यदा तव अधार्मिकान सर्वांस तीक्ष्णैर दण्डैर नियच्छति धार्मिकांश चानुगृह्णाति भवत्य अथ यमस तदा ॥ 45 ॥

  46. यदा तु धनधाराभिस तर्पयत्य उपकारिणः आच्छिनत्ति च रत्नानि विविधान्य अपकारिणाम ॥ 46 ॥

  47. शरियं ददाति कस्मै चित कस्माच चिद अपकर्षति तदा वैश्रवणॊ राजँल लॊके भवति भूमिपः ॥ 47 ॥

  48. नास्यापवादे सथातव्यं दक्षेणाक्लिष्ट कर्मणा धर्म्यम आकाङ्क्षता लाभम ईश्वरस्यानसूयता ॥ 48 ॥

  49. न हि राज्ञः परतीपानि कुर्वन सुखम अवाप्नुयात पुत्रॊ भराता वयस्यॊ वा यद्य अप्य आत्मसमॊ भवेत ॥ 49 ॥

  50. कुर्यात कृष्ण गतिः शेषं जवलितॊ ऽनिलसारथिः न तु राज्ञाभिपन्नस्य शेषं कव चन विद्यते ॥ 50 ॥

  51. तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत मृत्यॊर इव जुगुप्सेत राजस्वहरणान नरः ॥ 51 ॥

  52. नश्येद अभिमृशन सद्यॊ मृगः कूटम इव सपृशन आत्मस्वम इव संरक्षेद राजस्वम इह बुद्धिमान ॥ 52 ॥

  53. महान्तं नरकं घॊरम अप्रतिष्ठम अचेतसः पतन्ति चिररत्राय राजवित्तापहारिणः ॥ 53 ॥

  54. राजा भॊजॊ विराट सम्राट कषत्रियॊ भूपतिर नृपः य एवं सतूयते शब्दैः कस तं नार्चितुम इच्छति ॥ 54 ॥

  55. तस्माद बुभूषुर नियतॊ जितात्मा संयतेन्द्रियः मेधा वि समृतिमान दक्षः संश्रयेत महीपतिम ॥ 55 ॥

  56. कृतज्ञं पराज्ञम अक्षुद्रं दृढभक्तिं जितेन्द्रियम धर्मनित्यं सथितं सथित्यां मन्त्रिणं पूजयेन नृपः ॥ 56 ॥

  57. दृठ भक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम शूरम अक्षुद्र कर्माणं निषिद्ध जनम आश्रयेत ॥ 57 ॥

  58. राजा परगल्भं पुरुषं करॊति; राजा कृशं बृंहयते मनुष्यम राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करॊति ॥ 58 ॥

  59. राजा परजानां हृदयं गरीयॊ; गतिः परतिष्ठा सुखम उत्तमं च यम आश्रिता लॊकम इमं परं च; जयन्ति सम्यक पुरुषा नरेन्द्रम ॥ 59 ॥

  60. नराधिपश चाप्य अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन महद्भिर इष्ट्वा करतुभिर महायशास; तरिविष्टपे सथानम उपैति सत्कृतम ॥ 60 ॥

  61. स एवम उक्तॊ गुरुणा कौसल्यॊ राजसत्तमः परयत्नात कृतवान वीरः परजानां परिपालनम ॥ 61 ॥

Reach this point to mark the section finished.

Continue to अध्याय 69

Previous: अध्याय 67