धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 70

  1. दण्डनीतिश च राजा च समस्तौ ताव उभाव अपि तस्य किं कुर्वतः सिद्ध्यै तन मे बरूहि पिता मह ॥ 1 ॥

  2. महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः स हेतुकैः शृणु मे शंसतॊ राजन यथा वद इह भारत ॥ 2 ॥

  3. दण्डनीतिः सवधर्मेभ्यश चातुर्वर्ण्यं नियच्छति परयुक्ता सवामिना सम्यग अधर्मेभ्यश च यच्छति ॥ 3 ॥

  4. चातुर्वर्ण्ये सवधर्मस्थे मर्यादानाम असंकरे दण्डनीति कृते कषेमे परजानाम अकुतॊभये ॥ 4 ॥

  5. सॊमे परयत्नं कुर्वन्ति तरयॊ वर्णा यथाविधि तस्माद देवमनुष्याणां सुखं विद्धि समाहितम ॥ 5 ॥

  6. कालॊ वा कारणं राज्ञॊ राजा वा कालकारणम इति ते संशयॊ मा भूद राजा कालस्य कारणम ॥ 6 ॥

  7. दण्डनीत्या यदा राजा सम्यक कार्त्स्न्येन वर्तते तदा कृतयुगं नाम कालः शरेष्ठः परवर्तते ॥ 7 ॥

  8. भवेत कृतयुगे धर्मॊ नाधर्मॊ विद्यते कव चित सर्वेषाम एव वर्णानां नाधर्मे रमते मनः ॥ 8 ॥

  9. यॊगक्षेमाः परवर्तन्ते परजानां नात्र संशयः वैदिकानि च कर्माणि भवन्त्य अविगुणान्य उत ॥ 9 ॥

  10. ऋतवश च सुखाः सर्वे भवन्त्य उत निरामयाः परसीदन्ति नराणां च सवरवर्णमनांसि च ॥ 10 ॥

  11. वयाधयॊ न भवन्त्य अत्र नाल्पायुर दृश्यते नरः विधवा न भवन्त्य अत्र नृशंसॊ नाभिजायते ॥ 11 ॥

  12. अकृष्टपच्यॊ पृथिवी भवन्त्य ओषधयस तथा तवक पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥ 12 ॥

  13. नाधर्मॊ विद्यते तत्र धर्म एव तु केवलः इति कार्तयुगान एतान गुणान विद्धि युधिष्ठिर ॥ 13 ॥

  14. दण्डनीत्या यदा राजा तरीन अंशान अनुवर्तते चतुर्थम अंशम उत्सृज्य तदा तरेता परवर्तते ॥ 14 ॥

  15. अशुभस्य चतुर्थां शस्त्रीन अंशान अनुवर्तते कृष्टपच्यैव पृथिवी भवन्त्य ओषधयस तथा ॥ 15 ॥

  16. अर्धं तयक्त्वा यदा राजा नीत्यर्धम अनुवर्तते ततस तु दवापरं नाम स कालः संप्रवर्तते ॥ 16 ॥

  17. अशुभस्य तदा अर्धं दवाव अंशाव अनुवर्तते कृष्टपच्यैव पृथिवी भवत्य अल्पफला तथा ॥ 17 ॥

  18. दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः परजाः कलिश्नात्य अयॊगेन परविश्यति तदा कलिः ॥ 18 ॥

  19. कलाव अधर्मॊ भूयिष्ठं धर्मॊ भवति तु कव चित सर्वेषाम एव वर्णानां सवधर्माच चयवते मनः ॥ 19 ॥

  20. शूद्रा भैक्षेण जीवन्ति बराह्मणाः परिचर्यया यॊगक्षेमस्य नाशश च वर्तते वर्णसंकरः ॥ 20 ॥

  21. वैदिकानि च कर्माणि भवन्ति वि गुणान्य उत ऋतवॊ न सुखाः सर्वे भवन्त्य आमयिनस तथा ॥ 21 ॥

  22. हरसन्ति च मनुष्याणां सवरवर्णमनांस्य उत वयाधयश च भवन्त्य अत्र मरियन्ते चागतायुषः ॥ 22 ॥

  23. विधवाश च भवन्त्य अत्र नृशंसा जायते परजा कव चिद वर्षति पर्जन्यः कव चित सस्यं पररॊहति ॥ 23 ॥

  24. रसाः सर्वे कषयं यान्ति यदा नेच्छति भूमिपः परजाः संरक्षितुं सम्यग दण्डनीति समाहितः ॥ 24 ॥

  25. राजा कृतयुगस्रष्टा तरेताया दवापरस्य च युगस्य च चतुर्थस्य राजा भवति कारणम ॥ 25 ॥

  26. कृतस्य करणाद राजा सवर्गम अत्यन्तम अश्नुते तरेतायाः करणाद राजा सवर्गं नात्यन्तम अश्नुते ॥ 26 ॥

  27. परवर्तनाद दवापरस्य यथाभागम उपाश्नुते कलेः परवर्तनाद राजा पापम अत्यन्तम अश्नुते ॥ 27 ॥

  28. ततॊ वसति दुष्कर्मा नरके शाश्वतीः समाः परजानां कल्मषे मग्नॊ ऽकीर्थिं पापं च विन्दति ॥ 28 ॥

  29. दण्डनीतिं पुरस्कृत्य विजान कषत्रियः सदा अनवाप्तं च लिप्सेत लब्धं च परिपालयेत ॥ 29 ॥

  30. लॊकस्य सीमन्त करी मर्यादा लॊकभावनी सम्यङ नीता दण्डनीतिर यथा माता यथा पिता ॥ 30 ॥

  31. यस्यां भवन्ति भूतानि तद विद्धि भरतर्षभ एष एव परॊ धर्मॊ यद राजा दण्डनीति मान ॥ 31 ॥

  32. तस्मात कौरव्य धर्मेण परजाः पालय नीतिमान एवंवृत्तः परजा रक्षन सवर्गं जेतासि दुर जयम ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 71

Previous: अध्याय 69