धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 66

  1. शरुता मे कथिताः पूर्वैश चत्वारॊ मानवाश्रमाः वयाख्यानम एषाम आचक्ष्व पृच्छतॊ मे पिता मह ॥ 1 ॥

  2. विदिताः सर्व एवेह धर्मास तव युधिष्ठिर यथा मम महाबाहॊ विदिताः साधु संमताः ॥ 2 ॥

  3. यत तु लिङ्गान्तर गतं पृच्छसे मां युधिष्ठिर धर्मं धर्मभृतां शरेष्ठ तन निबॊध नराधिप ॥ 3 ॥

  4. सर्वाण्य एतानि कौन्तेय विद्यन्ते मनुजर्षभ साध्व आचार परवृत्तानां चातुराश्रम्य कर्मणाम ॥ 4 ॥

  5. अकाम दवेषयुक्तस्य दण्डनीत्या युधिष्ठिर समेक्षिणश च भूतेषु भैक्षाश्रमपदं भवेत ॥ 5 ॥

  6. वेत्त्य आदान विसर्गं यॊ निग्रहानुग्रहौ तथा यथॊक्तवृत्तेर वीरस्य कषेमाश्रमपदं भवेत ॥ 6 ॥

  7. जञातिसंबन्धिमित्राणि वयापन्नानि युधिष्ठिर समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत ॥ 7 ॥

  8. आह्निकं भूतयज्ञांश च पितृयज्ञांश च मानुषान कुर्वतः पार्थ विपुलान वन्याश्रमपदं भवेत ॥ 8 ॥

  9. पालनात सर्वभूतानां सवराष्ट्र परिपालनात दीक्षा बहुविधा राज्ञॊ वन्याश्रमपदं भवेत ॥ 9 ॥

  10. वेदाध्ययननित्यत्वं कषमाथाचार्य पूजनम तथॊपाध्याय शुश्रूषा बरह्माश्रमपदं भवेत ॥ 10 ॥

  11. अजिह्मम अशठं मार्गं सेवमानस्य भारत सर्वदा सर्वभूतेषु बरह्माश्रमपदं भवेत ॥ 11 ॥

  12. वान परस्थेषु विप्रेषु तरैविद्येषु च भारत परयच्छतॊ ऽरथान विपुलान वन्याश्रमपदं भवेत ॥ 12 ॥

  13. सर्वभूतेष्व अनुक्रॊशं कुर्वतस तस्य भारत आनृशंस्य परवृत्तस्य सर्वावस्थं पदं भवेत ॥ 13 ॥

  14. बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर अनुक्रॊशं विदधतः सर्वावस्थं पदं भवेत ॥ 14 ॥

  15. बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह शरणागतेषु कौरव्य कुर्वन गार्हस्थ्यम आवसेत ॥ 15 ॥

  16. चराचराणां भूतानां रक्षाम अपि च सर्वशः यथार्ह पूजां च सदा कुर्वन गार्हस्थ्यम आवसेत ॥ 16 ॥

  17. जयेष्ठानुज्येष्ठ पत्नीनां भरातॄणां पुत्र नप्तृणाम निग्रहानुग्रहौ पार्थ गार्हस्थ्यम इति तत तपः ॥ 17 ॥

  18. साधूनाम अर्चनीयानां परजासु विदितात्मनाम पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत ॥ 18 ॥

  19. आश्रमस्थानि सर्वाणि यस तु वेश्मनि भारत आददीतेह भॊज्येन तद गार्हस्थ्यं युधिष्ठिर ॥ 19 ॥

  20. यः सथितः पुरुषॊ धर्मे धात्रा सृष्टे यथार्थवत आश्रमाणां स सर्वेषां फलं पराप्नॊत्य अनुत्तमम ॥ 20 ॥

  21. यस्मिन न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा आश्रमस्थं तम अप्य आहुर नरश्रेष्ठं युधिष्ठिर ॥ 21 ॥

  22. सथानमानं वयॊ मानं कुलमानं तथैव च कुर्वन वसति सर्वेषु हय आश्रमेषु युधिष्ठिर ॥ 22 ॥

  23. देशधर्मांश च कौन्तेय कुलधर्मांस तथैव च पालयन पुरुषव्याघ्र राजा सर्वाश्रमी भवेत ॥ 23 ॥

  24. काले विभूतिं भूतानाम उपहारांस तथैव च अर्हयन पुरुषव्याघ्र साधूनाम आश्रमे वसेत ॥ 24 ॥

  25. दश धर्मगतश चापि यॊ धर्मं परत्यवेक्षते सर्वलॊकस्य कौन्तेय राजा भवति सॊ ऽऽशरमी ॥ 25 ॥

  26. ये धर्मकुशला लॊके धर्मं कुर्वन्ति साधवः पालिता यस्य विषये पादॊ ऽंशस तस्य भूपतेः ॥ 26 ॥

  27. धर्मारामान धर्मपरान ये न रक्षन्ति मानवान पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥ 27 ॥

  28. ये च रक्षा सहायाः सयुः पार्थिवानां युधिष्ठिर ते चैवांश हराः सर्वे धर्मे परकृते ऽनघ ॥ 28 ॥

  29. सर्वाश्रमपदे हय आहुर गार्हस्थ्यं दीप्तनिर्णयम पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ॥ 29 ॥

  30. आत्मॊपमस तु भूतेषु यॊ वै भवति मानवः नयस्तदण्डॊ जितक्रॊधः स परेत्य लभते सुखम ॥ 30 ॥

  31. धर्मॊत्थिता सत्त्ववीर्या धर्मसेतु वटाकरा तयागवाताध्व गा शीघ्रा नौस तवा संतारयिष्यति ॥ 31 ॥

  32. यदा निवृत्तः सर्वस्मात कामॊ यॊ ऽसय हृदि सथितः तदा भवति सत्त्वस्थस ततॊ बरह्म समश्नुते ॥ 32 ॥

  33. सुप्रसन्नस तु भावेन यॊगेन च नराधिप धर्मं पुरुषशार्दूल पराप्स्यसे पालने रतः ॥ 33 ॥

  34. वेदाध्ययनशीलानां विप्राणां साधु कर्मणाम पालने यत्नम आतिष्ठ सर्वलॊकस्य चानघ ॥ 34 ॥

  35. वनेचरति यॊ धर्मम आश्रमेषु च भारत रक्षया तच छतगुणं धर्मं पराप्नॊति पार्थिवः ॥ 35 ॥

  36. एष ते विविधॊ धर्मः पाण्डवश्रेष्ठ कीर्तितः अनुतिष्ठ तवम एनं वै पूर्वैर दृष्टं सनातनम ॥ 36 ॥

  37. चातुराश्रम्यम एकाग्रः चातुर्वर्ण्यं च पाण्डव धर्मं पुरुषशार्दूल पराप्स्यसे पालने रतः ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65