धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 65

  1. एवं वीर्यः सर्वधर्मॊपपन्नः; कषात्रः शरेष्ठः सर्वधर्मेषु धर्मः पाल्यॊ युष्माभिर लॊकसिंहैर उदारैर; विपर्यये सयाद अभावः परजानाम ॥ 1 ॥

  2. भुवः संस्कारं राजसंस्कारयॊगम; अभैक्ष चर्यां पालनं च परजानाम विद्याद राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्मम अग्र्यम ॥ 2 ॥

  3. तयागं शरेष्ठं मुनयॊ वै वदन्ति; सर्वश्रेष्ठॊ यः शरीरं तयजेत नित्यं तयक्तं राजधर्मेषु सर्वं; परत्यक्षं ते भूमिपालाः सदैते ॥ 3 ॥

  4. बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद वदन्ति नित्यं धर्मं कषत्रियॊ बरह्मचारी; चरेद एकॊ हय आश्रमं धर्मकामः ॥ 4 ॥

  5. सामान्यार्थे वयवहारे परवृत्ते; परियाप्रिये वर्जयन्न एव यत्नात चातुर्वर्ण्यस्थापनात पालनाच च; तैस तैर यॊगैर नियमैर औरसैश च ॥ 5 ॥

  6. सर्वॊद्यॊगैर आश्रमं धर्मम आहुः; कषात्रं जयेष्ठं सर्वधर्मॊपपन्नम सवं सवं धर्मं ये न चरन्ति वर्णास; तांस तान धर्मान अयथा वद वदन्ति ॥ 6 ॥

  7. निर्मर्यादे नित्यम अर्थे विनष्टान; आहुस तान वै पशुभूतान मनुष्यान यथा नीतिं गमयत्य अर्थलॊभाच; छरेयांस तस्माद आश्रमः कषत्रधर्मः ॥ 7 ॥

  8. तरैविद्यानां या गतिर बराह्मणानां; यश चैवॊक्तॊ ऽथाश्रमॊ बराह्मणानाम एतत कर्म बराह्मणस्याहुर अग्र्यम; अन्यत कुर्वञ शूद्र वच छस्त्र वध्यः ॥ 8 ॥

  9. चातुराश्रम्य धर्माश च वेद धर्माश च पार्थिव बराह्मणेनानुगन्तव्या नान्यॊ विद्यात कथं चन ॥ 9 ॥

  10. अन्यथा वर्तमानस्य न सा वृत्तिः परकल्प्यते कर्मणा वयज्यते धर्मॊ यथैव शवा तथैव सः ॥ 10 ॥

  11. यॊ विकर्म सथितॊ विप्रॊ न स सन मानम अर्हति कर्मस्व अनुपयुञ्जानम अविश्वास्यं हि तं विदुः ॥ 11 ॥

  12. एते धर्माः सर्ववर्णाश च वीरैर; उत्क्रष्टव्याः कषत्रियैर एष धर्मः तस्माज जयेष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता ये ॥ 12 ॥

  13. यवनाः किराता गान्धाराश चीनाः शबर बर्बराः शकास तुषाराः कह्वाश च पह्लवाश चान्ध्र मद्रकाः ॥ 13 ॥

  14. ओड्राः पुलिन्दा रमठाः काचा मलेच्छाश च सर्वशः बरह्मक्षत्रप्रसूताश च वैश्याः शूद्राश च मानवाः ॥ 14 ॥

  15. कथं धर्मं चरेयुस ते सर्वे विषयवासिनः मद्विधैश च कथं सथाप्याः सर्वे ते दस्यु जीविनः ॥ 15 ॥

  16. एतद इच्छाम्य अहं शरॊतुं भगवंस तद बरवीहि मे तवं बन्धुभूतॊ हय अस्माकं कषत्रियाणां सुरेश्वर ॥ 16 ॥

  17. मातापित्र्यॊर हि कर्तव्या शुश्रूषा सर्वदस्युभिः आचार्य गुरुशुश्रूषा तथैवाश्रमवासिनाम ॥ 17 ॥

  18. भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः वेद धर्मक्रियाश चैव तेषां धर्मॊ विधीयते ॥ 18 ॥

  19. पितृयज्ञास तथा कूपाः परपाश च शयनानि च दानानि च यथाकालं दविजेषु दद्युर एव ते ॥ 19 ॥

  20. अहिंसा सत्यम अक्रॊधॊ वृत्ति दायानुपालनम भरणं पुत्रदाराणां शौचम अद्रॊह एव च ॥ 20 ॥

  21. दक्षिणा सर्वयज्ञानां दातव्या भूतिम इच्छता पाकयज्ञा महार्हाश च कर्तव्याः सर्वदस्युभिः ॥ 21 ॥

  22. एतान्य एवं परकाराणि विहितानि पुरानघ सर्वलॊकस्य कर्माणि कर्तव्यानीह पार्थिव ॥ 22 ॥

  23. दृश्यन्ते मानवा लॊके सर्ववर्णेषु दस्यवः लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्व अपि ॥ 23 ॥

  24. विनष्टायां दण्डनीतौ राजधर्मे निराकृते संप्रमुह्यन्ति भूतानि राजदौरात्म्यतॊ नृप ॥ 24 ॥

  25. असंख्याता भविष्यन्ति भिक्षवॊ लिङ्गिनस तथा आश्रमाणां विकल्पाश च निवृत्ते ऽसमिन कृते युगे ॥ 25 ॥

  26. अशृण्वानाः पुराणानां धर्माणां परवरा गतीः उत्पथं परतिपत्स्यन्ते काममन्युसमीरिताः ॥ 26 ॥

  27. यदा निवर्त्यते पापॊ दण्डनीत्या महात्मभिः तदा धर्मॊ न चलते सद भूतः शाश्वतः परः ॥ 27 ॥

  28. परलॊकगुरुं चैव राजानं यॊ ऽवमन्यते न तस्य दत्तं न हुतं न शराद्धं फलति कव चित ॥ 28 ॥

  29. मानुषाणाम अधिपतिं देवभूतं सनातनम देवाश च बहु मन्यन्ते धर्मकामं नरेश्वरम ॥ 29 ॥

  30. परजापतिर हि भगवान यः सर्वम असृजज जगत स परवृत्ति निवृत्त्यर्थं धर्माणां कषत्रम इच्छति ॥ 30 ॥

  31. परवृत्तस्य हि धर्मस्य बुद्ध्या यः समरते गतिम स मे मान्यश च पूज्यश च तत्र कषत्रं परतिष्ठितम ॥ 31 ॥

  32. एवम उक्त्वा स भगवान मरुद्गणवृतः परभुः जगाम भवनं विष्णुर अक्षरं परमं पदम ॥ 32 ॥

  33. एवं परवर्तिते धर्मे पुरा सुचरिते ऽनघ कः कषत्रम अवमन्येत चेतना वान बहुश्रुतः ॥ 33 ॥

  34. अन्यायेन परवृत्तानि निवृत्तानि तथैव च अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥ 34 ॥

  35. आदौ परवर्तिते चक्रे तथैवादि परायणे वर्तस्व पुरुषव्याघ्र संविजानामि ते ऽनघ ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 66

Previous: अध्याय 64