धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 64

  1. चातुराश्रम्य धर्माश च जातिधर्माश च पाण्डव लॊकपालॊत्तराश चैव कषात्रे धर्मे वयवस्थिताः ॥ 1 ॥

  2. सर्वाण्य एतानि धर्माणि कषात्रे भरतसत्तम निराशिषॊ जीवलॊके कषात्रे धर्मे वयवस्थिताः ॥ 2 ॥

  3. अप्रत्यक्षं बहु दवारं धर्मम आश्रमवासिनाम पररूपयन्ति तद्भावम आगमैर एव शाश्वतम ॥ 3 ॥

  4. अपरे वचनैः पुण्यैर वादिनॊ लॊकनिश्चयम अनिश्चय जञा धर्माणाम अदृष्टान्ते परे रताः ॥ 4 ॥

  5. परत्यक्षसुखभूयिष्ठम आत्मसाक्षिकम अच्छलम सर्वलॊकहितं धर्मं कषत्रियेषु परतिष्ठितम ॥ 5 ॥

  6. धर्माश्रमव्यवसिनां बराह्मणानां युधिष्ठिर यथा तरयाणां वर्णानां संख्यातॊपश्रुतिः पुरा राजधर्मेष्व अनुपमा लॊक्या सुचरितैर इह ॥ 6 ॥

  7. उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम सर्वभूतेश्वरं देवं परभुं नारायणं पुरा जग्मुः सुबहवः शूरा राजानॊ दण्डनीतये ॥ 7 ॥

  8. एकैकम आत्मनः कर्म तुलयित्वाश्रमे पुरा राजानः पर्युपातिष्ठन दृष्टान्त वचने सथिताः ॥ 8 ॥

  9. साध्या देवा वसवश चाश्विनौ च; रुद्राश च विश्वे मरुतां गणाश च सृष्टाः पुरा आदिदेवेन देवा; कषात्रे धर्मे वर्तयन्ते च सिद्धाः ॥ 9 ॥

  10. अत्र ते वर्तयिष्यामि धर्मम अर्थविनिश्चयम निर्मर्यादे वर्तमाने दानवैकायने कृते बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान ॥ 10 ॥

  11. पुरा वसु मती पालॊ यज्ञं चक्रे दिदृक्षया अनादिमध्यनिधनं देवं नारायणं परति ॥ 11 ॥

  12. स राजा राजशार्दूल मान्धाता परमेष्ठिनः जग्राह शिरसा पादौ यज्ञे विष्णॊर महात्मनः ॥ 12 ॥

  13. दर्शयाम आस तं विष्णू रूपम आस्थाय वासवम स पार्थिवैर वृतः सद्भिर अर्चयाम आस तं परभुम ॥ 13 ॥

  14. तस्य पार्थिव संघस्य तस्य चैव महात्मनः संवादॊ ऽयं महान आसीद विष्णुं परति महाद्युते ॥ 14 ॥

  15. किम इष्यते धर्मभृतां वरिष्ठ; यद दरष्टुकामॊ ऽसि तम अप्रमेयम अनन्त मायामित सत्त्ववीर्यं; नारायणं हय आदिदेवं पुराणम ॥ 15 ॥

  16. नासौ देवॊ विश्वरूपॊ मयापि; शक्यॊ दरष्टुं बरह्मणा वापि साक्षात ये ऽनये कामास तव राजन हृदि सथा; दास्यामि तांस तवं हि मर्त्येषु राजा ॥ 16 ॥

  17. सत्ये सथितॊ धर्मपरॊ जितेन्द्रियः; शूरॊ दृढं परीतिरतः सुराणाम बुद्ध्या भक्त्या चॊत्तमश्रद्धया च; ततस ते ऽहं दद्मि वरं यथेष्टम ॥ 17 ॥

  18. असंशयं भगवन्न आदिदेवं; दरक्ष्याम्य अहं शिरसाहं परसाद्य तयक्त्वा भॊगान धर्मकामॊ हय अरण्यम; इच्छे गन्तुं सत्पथं लॊकजुष्टम ॥ 18 ॥

  19. कषात्राद धर्माद विपुलाद अप्रमेयाल; लॊकाः पराप्ताः सथापितं सवं यशश च धर्मॊ यॊ ऽसाव आदिदेवात परवृत्तॊ; लॊकज्येष्ठस तं न जानामि कर्तुम ॥ 19 ॥

  20. असैनिकॊ ऽधर्मपरश चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः कषात्रॊ धर्मॊ हय आदिदेवात परवृत्तः; पश्चाद अन्ये शेषभूताश च धर्माः ॥ 20 ॥

  21. शेषाः सृष्टा हय अन्तवन्तॊ हय अनन्ताः; सुप्रस्थानाः कषत्रधर्माविशिष्टाः अस्मिन धर्मे सर्वधर्माः परविष्टास; तस्माद धर्मं शरेष्ठम इमं वदन्ति ॥ 21 ॥

  22. कर्मणा वै पुरा देवा ऋषयश चामितौजसः तराताः सर्वे परमथ्यारीन कषत्रधर्मेण विष्णुना ॥ 22 ॥

  23. यदि हय असौ भगवान नानहिष्यद; रिपून सर्वान वसु मान अप्रमेयः न बराह्मणा न च लॊकादि कर्ता; न सद धर्मा नादि धर्मा भवेयुः ॥ 23 ॥

  24. इमाम उर्वीं न जयेद विक्रमेण; देव शरेष्ठॊ ऽसौ पुरा चेद अमेयः चातुर्वर्ण्यं चातुराश्रम्य धर्माः; सर्वे न सयुर बरह्मणॊ वै विनाशात ॥ 24 ॥

  25. दृष्टा धर्माः शतधा शाश्वतेन; कषात्रेण धर्मेण पुनः परवृत्ताः युगे युगे हय आदि धर्माः परवृत्ता; लॊकज्येष्ठं कषत्रधर्मं वदन्ति ॥ 25 ॥

  26. आत्मत्यागः सर्वभूतानुकम्पा; लॊकज्ञानं मॊक्षणं पालनं च विषण्णानां मॊक्षणं पीडितानां; कषात्रे धर्मे विद्यते पार्थिवानाम ॥ 26 ॥

  27. निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञॊ नाधिगच्छन्ति पापम शिष्टाश चान्ये सर्वधर्मॊपपन्नाः; साध्व आचाराः साधु धर्मं चरन्ति ॥ 27 ॥

  28. पुत्र वत परिपाल्यानि लिङ्गधर्मेण पार्थिवैः लॊके भूतानि सर्वाणि विचरन्ति न संशयः ॥ 28 ॥

  29. सर्वधर्मपरं कषत्रं लॊकज्येष्ठं सनातनम शश्वद अक्षरपर्यन्तम अक्षरं सर्वतॊ मुखम ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63