जया कर्षणं शत्रुनिबर्हणं च; कृषिर वणिज्या पशुपालनं च शुश्रूषणं चापि तथार्थ हेतॊर; अकार्यम एतत परमं दविजस्य ॥ 1 ॥
सेव्यं तु बरह्म षट कर्म गृहस्थेन मनीषिणा कृतकृत्यस्य चारण्ये वासॊ विप्रस्य शस्यते ॥ 2 ॥
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया कौटिल्यं कौटलेयं च कुसीदं च विवर्जयेत ॥ 3 ॥
शूद्रॊ राजन भवति बरह्म बन्धुर; दुश्चारित्र्यॊ यश च धर्माद अपेतः वृषली पतिः पिशुनॊ नर्तकश च; गरामप्रैष्यॊ यश च भवेद विकर्मा ॥ 4 ॥
जपन वेदान अजपंश चापि राजन; समः शूद्रैर दासवच चापि भॊज्यः एते सर्वे शूद्र समा भवन्ति; राजन्न एतान वर्जयेद देवकृत्ये ॥ 5 ॥
निर्मर्यादे चाशने करूर वृत्तौ; हिंसात्मके तयक्तधर्मस्ववृत्ते हव्यं कव्यं यानि चान्यानि राजन; देयान्य अदेयानि भवन्ति तस्मिन ॥ 6 ॥
तस्माद धर्मॊ विहितॊ बराह्मणस्य; दमः शौचं चार्जवं चापि राजन तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन बरह्मणा वै निसृष्टाः ॥ 7 ॥
यः सयाद दान्तः सॊमप आर्य शीलः; सानुक्रॊशः सर्वसहॊ निराशीः ऋजुर मृदुर अनृशंसः कषमावान; स वै विप्रॊ नेतरः पापकर्मा ॥ 8 ॥
शूद्रं वैश्यं राजपुत्रं च राजँल; लॊकाः सर्वे संश्रिता धर्मकामाः तस्माद वर्णाञ जातिधर्मेषु सक्तान; मत्वा विष्णुर नेच्छति पाण्डुपुत्र ॥ 9 ॥
लॊके चेदं सर्वलॊकस्य न सयाच; चातुर्वर्ण्यं वेदवादाश च न सयुः सर्वाश चेज्याः सर्वलॊकक्रियाश च; सद्यः सर्वे चाश्रमस्था न वै सयुः ॥ 10 ॥
यश च तरयाणां वर्णानाम इच्छेद आश्रमसेवनम कर्तुम आश्रमदृष्टांश च धर्मांस ताञ शृणु पाण्डव ॥ 11 ॥
शुश्रूषा कृतकृत्यस्य कृतसंतान कर्मणः अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ 12 ॥
अल्पान्तरगतस्यापि दश धर्मगतस्य वा आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम ॥ 13 ॥
भैक्ष चर्यां न तुप्राहुस तस्य तद धर्मचारिणः तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैष हि ॥ 14 ॥
कृतकृत्यॊ वयॊ ऽतीतॊ राज्ञॊ कृतपरिश्रमः वैश्यॊ गच्छेद अनुज्ञाती नृपेणाश्रममण्डलम ॥ 15 ॥
वेदान अधीत्य धर्मेण राजशास्त्राणि चानघ संतानादीनि कर्माणि कृत्वा सॊमं निषेव्य च ॥ 16 ॥
पालयित्वा परजाः सर्वा धर्मेण वदतां वर राजसूयाश्वमेधादीन मखान अन्यांस तथैव च ॥ 17 ॥
समानीय यथा पाठं विप्रेभ्यॊ दत्तदक्षिणः संग्रामे विजयं पराप्य तथाल्पं यदि वा बहु ॥ 18 ॥
सथापयित्वा परजा पालं पुत्रं राज्ये च पाण्डव अन्यगॊत्रं परशस्तं वा कषत्रियं कषत्रियर्षभ ॥ 19 ॥
अर्चयित्वा पितॄन सम्यक पितृयज्ञैर यथाविधि देवान यज्ञैर ऋषीन वेदैर अर्चित्वा चैव यत्नतः ॥ 20 ॥
अन्तकाले च संप्राप्ते य इच्छेद आश्रमान्तरम आनुपूर्व्याश्रमान राजन गत्वा सिद्धिम अवाप्नुयात ॥ 21 ॥
राजर्षित्वेन राजेन्द्र भैक्ष चर्याध्व सेवया अपेतगृहधर्मॊ ऽपि चरेज जीवितकाम्यया ॥ 22 ॥
न चैतन नैष्ठिकं कर्म तरयाणां भरतर्षभ चतुर्णां राजशार्दूल पराहुर आश्रमवासिनाम ॥ 23 ॥
बह्व आयत्तं कषत्रियैर मानवानां; लॊकश्रेष्ठं धर्मम आसेवमानैः सर्वे धर्माः सॊपधर्मास तरयाणां; राज्ञॊ धर्माद इति वेदाच छृणॊमि ॥ 24 ॥
यथा राजन हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वॊद्भवानि एवं धर्मान राजधर्मेषु सर्वान; सर्वावस्थं संप्रलीनान निबॊध ॥ 25 ॥
अल्पाश्रयान अल्पफलान वदन्ति; धर्मान अन्यान धर्मविदॊ मनुष्याः महाश्रयं बहुकल्याण रूपं; कषात्रं धर्मं नेतरं पराहुर आर्याः ॥ 26 ॥
सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति सर्वत्यागॊ राजधर्मेषु राजंस; तयागे चाहुर धर्मम अग्र्यं पुराणम ॥ 27 ॥
मज्जेत तरयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर विरुद्धाः सर्वे धर्माश चाश्रमाणां गताः सयुः; कषात्रे तयक्ते राजधर्मे पुराणे ॥ 28 ॥
सर्वे तयागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चॊक्ताः सर्वे यॊगा राजधर्मेषु चॊक्ताः; सर्वे लॊका राजधर्मान परविष्टाः ॥ 29 ॥
यथा जीवाः परकृतौ वध्यमाना; धर्माश्रितानाम उपपीडनाय एवं धर्मा राजधर्मैर वियुक्ताः; सर्वावस्थं नाद्रियन्ते सवधर्मम ॥ 30 ॥
शान्तिपर्व · Shanti Parva
अध्याय 63
Reach this point to mark the section finished.
Continue to अध्याय 64