[वैषम्पायन] ततः पुनः स गाङ्गेयम अभिवाद्य पिता महम पराञ्जलिर नियतॊ भूत्वा पर्यपृच्छद युधिष्ठिर ॥ 1 ॥
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक चतुर्णाम आश्रमाणां च राज धर्माश च के मताः ॥ 2 ॥
केन सविद वर्धते राष्ट्रं राजा केन विवर्धते केन पौराश च भृत्याश च वर्धने भरतर्षभ ॥ 3 ॥
कॊशं दण्डं च दुर्गं च सहायान मन्त्रिणस तथा ऋत्विक पुरॊहिताचार्यान कीदृशान वर्जयेन नृपः ॥ 4 ॥
केषु विश्वसितव्यं सयाद राज्ञां कस्यां चिद आपदि कुतॊ वात्मा दृढॊ रक्ष्यस तन मे बरूहि पिता मह ॥ 5 ॥
नमॊ धर्माय महते नमः कृष्णाय वेधसे बराह्मणेभ्यॊ नमस्कृत्वा धर्मान वक्ष्यामि शाश्वतान ॥ 6 ॥
अक्रॊधः सत्यवचनं संविभागः कषमा तथा परजनः सवेषु दारेषु शौचम अद्रॊह एव च ॥ 7 ॥
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः बराह्मणस्य तु यॊ धर्मस तं ते वक्ष्यामि केवलम ॥ 8 ॥
दमम एव महाराज धर्मम आहुः पुरातनम सवाध्यायॊ ऽधयापनं चैव तत्र कर्म समाप्यते ॥ 9 ॥
तं चेद वित्तम उपागच्छेद वर्तमानं सवकर्मणि अकुर्वाणं विकर्माणि शान्तं परज्ञान तर्पितम ॥ 10 ॥
कुर्वीतापत्य संतानम अथॊ दद्याद यजेत च संविभज्य हि भॊक्तव्यं धनं सद्भिर इतीष्यते ॥ 11 ॥
परिनिष्ठित कार्यस तु सवाध्यायेनैव बराह्मणः कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते ॥ 12 ॥
कषत्रियस्यापि यॊ धर्मस तं ते वक्ष्यामि भारत दद्याद राजा न याचेत यजेत न तु याजयेत ॥ 13 ॥
नाध्यापयेद अधीयीत परजाश च परिपालयेत नित्यॊद्युक्तॊ दस्यु वधे रणे कुर्यात पराक्रमम ॥ 14 ॥
ये च करतुभिर ईजानाः शरुतवन्तश च भूमिपाः य एवाहव जेतारस त एषां लॊकजित तमाः ॥ 15 ॥
अविक्षतेन देहेन समराद यॊ निवर्तते कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः ॥ 16 ॥
वधं हि कषत्रबन्धूनां धर्मम आहुः परधानतः नास्य कृत्यतमं किं चिद अन्यद दस्यु निबर्हणात ॥ 17 ॥
दानम अध्ययनं यज्ञॊ यॊगः कषेमॊ विधीयते तस्माद राज्ञा विशेषेण यॊद्धव्यं धर्मम ईप्षता ॥ 18 ॥
सवेषु धर्मेष्व अवस्थाप्य परजाः सर्वा महीपतिः धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत ॥ 19 ॥
परिनिष्ठित कार्यः सयान नृपतिः परिपालनात कुर्याद अन्यन न वा कुर्याद ऐन्द्रॊ राजन्य उच्यते ॥ 20 ॥
वैश्यस्यापीह यॊ धर्मस तं ते वक्ष्यामि भारत दानम अध्ययनं यज्ञः शौचेन धनसंचयः ॥ 21 ॥
पितृवत पालयेद वैश्यॊ युक्तः सर्वपशून इह विकर्म तद भवेद अन्यत कर्म यद यत समाचरेत रक्षया स हि तेषां वै महत सुखम अवाप्नुयात ॥ 22 ॥
परजापतिर हि वैश्याय सृष्ट्वा परिददे पशून बराह्मणाय च राज्ञे च सर्वाः परिददे परजाः ॥ 23 ॥
तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम षण्णाम एकां पिबेद धेनुं शताच च मिथुनं हरेत ॥ 24 ॥
लये च सप्तमॊ भागस तथा शृङ्गे कला खुरे सस्यस्य सर्वबीजानाम एषा सांवत्सरी भृतिः ॥ 25 ॥
न च वैश्यस्य कामः सयान न रक्षेयं पशून इति वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥ 26 ॥
शूद्रस्यापि हि यॊ धर्मस तं ते वक्ष्यामि भारत परजापतिर हि वर्णानां दासं शूद्रम अकल्पयत ॥ 27 ॥
तस्माच छूद्रस्य वर्णानां परिचर्या विधीयते तेषां शुश्रूषणाच चैव महत सुखम अवाप्नुयात ॥ 28 ॥
शूद्र एतान परिचरेत तरीन वर्णान अनसूयकः संचयांश च न कुर्वीत जातु शूद्रः कथं चन ॥ 29 ॥
पापीयान हि धनं लब्ध्वा वशे कुर्याद गरीयसः राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥ 30 ॥
तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम अवश्य भरणीयॊ हि वर्णानां शूद्र उच्यते ॥ 31 ॥
छत्रं वेष्टनम औशीरम उपानद वयजनानि च यातयामानि देयानि शूद्राय परिचारिणे ॥ 32 ॥
अधार्याणि विशीर्णानि वसनानि दविजातिभिः शूद्रायैव विधेयानि तस्य धर्मधनं हि तत ॥ 33 ॥
यश च कश चिद दविजातीनां शूद्रः शुश्रूषुर आव्रजेत कल्प्यां तस्य तु तेनाहुर वृत्तिं धर्मविदॊ जनाः देयः पिण्डॊ ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ॥ 34 ॥
शूद्रेण च न हातव्यॊ भर्ता कस्यां चिद आपदि अतिरेकेण भर्तव्यॊ भर्ता दरव्यपरिक्षये न हि सवम अस्ति शूद्रस्य भर्तृहार्य धनॊ हय असौ ॥ 35 ॥
उक्तस तरयाणां वर्णानां यज्ञस तरय्य एव भारत सवाहाकारनमः कारौ मन्त्रः शूद्रे विधीयते ॥ 36 ॥
ताभ्यां शूद्रः पाकयज्ञैर यजेत वरतवान सवयम पूर्णपात्र मयीम आहुः पाकयज्ञस्य दक्षिणाम ॥ 37 ॥
शूद्रः पैजवनॊ नाम सहस्राणां शतं ददौ ऐन्द्राग्नेन विधानेन दक्षिणाम इति नः शरुतम ॥ 38 ॥
अतॊ हि सर्ववर्णानां शरद्धा यज्ञॊ विधीयते दैवतं हि महच छरद्धा पवित्रं यजतां च यत ॥ 39 ॥
दैवतं परमं विप्राः सवेन सवेन परस्परम अयजन्न इह सत्रैस ते तैस तैः कामैः सनातनैः ॥ 40 ॥
संसृष्टा बराह्मणैर एव तरिषु वर्णेषु सृष्टयः देवानाम अपि ये देवा यद बरूयुस ते परं हि तत तस्माद वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥ 41 ॥
ऋग यजुः साम वित पूज्यॊ नित्यं सयाद देव वद दविजः अनृग यजुर असामा तु पराजापत्य उपद्रवः ॥ 42 ॥
यज्ञॊ मनीषया तात सर्ववर्णेषु भारत नास्य यज्ञहनॊ देवा ईहन्ते नेतरे जनाः तस्मात सर्वेषु वर्णेषु शरद्धा यज्ञॊ विधीयते ॥ 43 ॥
सवं दैवतं बराह्मणाः सवेन नित्यं; परान वर्णान अयजन्न एवम आसीत आरॊचिता नः सुमहान स धर्मः; सृष्टॊ बरह्मणा तरिषु वर्णेषु दृष्टः ॥ 44 ॥
तस्माद वर्णा ऋजवॊ जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः एकं साम यजुर एकम ऋग एका; विप्रश चैकॊ ऽनिश्चयस तेषु दृष्टः ॥ 45 ॥
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुरा विदः वैखानसानां राजेन्द्र मुनीनां यष्टुम इच्छताम ॥ 46 ॥
उदिते ऽनुदिते वापि शरद्दधानॊ जितेन्द्रियः वह्निं जुहॊति धर्मेण शरद्धा वै कारणं महत ॥ 47 ॥
यत सकन्नम अस्य तत पूर्वं यद अस्कन्न्नं तद उत्तरम बहूनि यज्ञरूपाणि नाना कर्मफलानि च ॥ 48 ॥
तानि यः संविजानाति जञाननिश्चय निश्चितः दविजातिः शरद्धयॊपेतः स यष्टुं पुरुषॊ ऽरहति ॥ 49 ॥
सतेनॊ वा यदि वा पापॊ यदि वा पापकृत तमः यष्टुम इच्छति यज्ञं यः साधुम एव वदन्ति तम ॥ 50 ॥
ऋषयस तं परशंसन्ति साधु चैतद असंशयम सर्वथा सर्ववर्णैर हि यष्टव्यम इति निश्चयः न हि यज्ञसमं किं चित तरिषु लॊकेषु विद्यते ॥ 51 ॥
तस्माद यष्टव्यम इत्य आहुः पुरुषेणानसूयता शरद्धा पवित्रम आश्रित्य यथाशक्ति परयच्छता ॥ 52 ॥
शान्तिपर्व · Shanti Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61