[भीस्म] आश्रमाणां महाबाहॊ शृणु सत्यपराक्रम चतुर्णाम इह वर्णानां कर्माणि च युधिष्ठिर ॥ 1 ॥
वानप्रस्थं भैक्ष चर्यां गार्हस्थ्यं च महाश्रमम बरह्मचर्याश्रमं पराहुश चतुर्थं बराह्मणैर वृतम ॥ 2 ॥
जटा करण संस्कारं दविजातित्वम अवाप्य च आधानादीनि कर्माणि पराप्य वेदम अधीत्य च ॥ 3 ॥
सदारॊ वाप्य अदारॊ वा आत्मवान संयतेन्द्रियः वानप्रस्थाश्रमं गच्छेत कृतकृत्यॊ गृहाश्रमात ॥ 4 ॥
तत्रारण्यक शास्त्राणि समधीत्य स धर्मवित ऊर्ध्वरेताः परजायित्वा गच्छत्य अक्षरसात्मताम ॥ 5 ॥
एतान्य एव निमित्तानि मुनीनाम ऊर्ध्वरेतसाम कर्तव्यानीह विप्रेण राजन्न आदौ विपश्चिता ॥ 6 ॥
चरितब्रह्म चर्यस्य बराह्मणस्य विशां पते भैक्ष चर्यास्व अधीकारः परशस्त इह मॊक्षिणः ॥ 7 ॥
यत्रास्तमित शायी सयान निरग्निर अनिकेतनः यथॊपलब्ध जीवी सयान मुनिर दान्तॊ जितेन्द्रियः ॥ 8 ॥
निराशीः सयात सर्वसमॊ निर्भॊगॊ निर्विकार वान विप्रः कषेमाश्रमप्राप्तॊ गच्छत्य अक्षरसात्मताम ॥ 9 ॥
अधीत्य वेदान कृतसर्वकृत्यः; संतानम उत्पाद्य सुखानि भुक्त्वा समाहितः परचरेद दुश्चरं तं; गार्हस्थ्य धर्मं मुनिधर्मदृष्टम ॥ 10 ॥
सवदारतुष्ट ऋतुकालगामी; नियॊग सेवी न शठॊ न जिह्मः मिताशनॊ देव परः कृतज्ञः; सत्यॊ मृदुश चानृशंसः कषमा वान ॥ 11 ॥
दान्तॊ विधेयॊ हव्यकव्ये ऽपरमत्तॊ; अन्नस्य दाता सततं दविजेभ्यः अमत्सरी सर्वलिङ्गि परदाता; वैतान नित्यश च गृहाश्रमी सयात ॥ 12 ॥
अथात्र नारायण गीतम आहुर; महर्षयस तात महानुभावाः महार्थम अत्य अर्थतपः परयुक्तं; तद उच्यमानं हि मया निबॊध ॥ 13 ॥
सत्यार्जवं चातिथि पूजनं च; धर्मस तथार्थश चरतिश च दारे निषेवितव्यानि सुखानि लॊके; हय अस्मिन परे चैव मतं ममैतत ॥ 14 ॥
भरणं पुत्रदाराणां वेदानां पारणं तथा सतां तम आश्रमश्रेष्ठं वदन्ति परमर्षयः ॥ 15 ॥
एवं हि यॊ बराह्मणॊ यज्ञशीलॊ; गार्हस्थ्यम अध्यावसते यथा वत गृहस्थ वृत्तिं परविशॊध्य सम्यक; सवर्गे विषुद्धं फलम आप्नुते सः ॥ 16 ॥
तस्य देहपरित्यागाद इष्टाः कामाक्षया मताः आनन्त्यायॊपतिष्ठन्ति सर्वतॊ ऽकषिशिरॊमुखाः ॥ 17 ॥
खादन्न एकॊ जपन्न एकः सर्पन्न एकॊ युधिष्ठिर एकस्मिन्न एव आचार्ये शुश्रूषुर मलपङ्कवान ॥ 18 ॥
बरह्म चारी वरती नित्यं नित्यं दीक्षा परॊ वशी अविचार्य तथा वेदं कृत्यं कुर्वन वसेत सदा ॥ 19 ॥
शुश्रूषां सततं कुर्वन गुरॊः संप्रणमेत च षट कर्मस्व अनिवृत्तश च न परवृत्तश च सर्वशः ॥ 20 ॥
न चरत्य अधिकारेण सेवितं दविषतॊ न च एषॊ ऽऽशरमपदस तात बरह्मचारिण इष्यते ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 61
Reach this point to mark the section finished.
Continue to अध्याय 62