धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 59

  1. ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः ययुस ते नगराकारै रथैः पाण्डव यादवाः ॥ 1 ॥

  2. परपद्य च कुरुक्षेत्रं भीष्मम आसाद्य चानघम सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम ॥ 2 ॥

  3. वयासादीन अभिवाद्यर्षीन सर्वैस तैश चाभिनन्दिताः निषेदुर अभितॊ भीष्मं परिवार्य समन्ततः ॥ 3 ॥

  4. ततॊ राजा महातेजा धर्मराजॊ युधिष्ठिरः अब्रवीत पराञ्जलिर भीष्मं परतिपूज्याभिवाद्य च ॥ 4 ॥

  5. य एष राजा राजेति शब्दश चरति भारत कथम एष समुत्पन्नस तन मे बरूहि पिता मह ॥ 5 ॥

  6. तुल्यपाणिशिरॊग्रीवस तुल्यबुद्धीन्द्रियात्मकः तुल्यदुःखसुखात्मा च तुल्यपृष्ठ भुजॊदरः ॥ 6 ॥

  7. तुल्यशुक्रास्थि मज्जश च तुल्यमांसासृग एव च निःश्वासॊच्छाव तुल्यश च तुल्यप्राणशरीरवान ॥ 7 ॥

  8. समानजन्म मरणः समः सर्वगुणैर नृणाम विशिष्ट बुद्धीञ शूरांश च कथम एकॊ ऽधितिष्ठति ॥ 8 ॥

  9. कथम एकॊ महीं कृत्स्नां वीर शूरार्य संकुलाम रक्षत्य अपि च लॊकॊ ऽसय परसादम अभिवाञ्छति ॥ 9 ॥

  10. एकस्य च परसादेन कृत्स्नॊ लॊकः परसीदति वयाकुलेनाकुलः सर्वॊ भवतीति विनिश्चयः ॥ 10 ॥

  11. एतद इच्छाम्य अहं सर्वं तत्त्वेन भरतर्षभ शरॊतुं तन मे यथा वत तवं परब्रूहि वदतां वर ॥ 11 ॥

  12. नैतत कारणम अल्पं हि भविष्यति विषां पते यद एकस्मिञ जगत सर्वं देव वद याति संनतिम ॥ 12 ॥

  13. [भीस्म] नियतस तवं नरश्रेष्ठ शृणु सर्वम अशेषतः यथा राज्यसमुत्पन्नम आदौ कृतयुगे ऽभवत ॥ 13 ॥

  14. नैव राज्यं न राजासीन न दण्डॊ न च दाण्डिकः धर्मेणैव परजाः सर्वा रक्षन्ति च परस्परम ॥ 14 ॥

  15. पालयानास तथान्यॊन्यं नरा धर्मेण भारत खेदं परमम आजग्मुस ततस तान मॊह आविशत ॥ 15 ॥

  16. ते मॊहवशम आपन्ना मानवा मनुजर्षभ परतिपत्तिविमॊहाच च धर्मस तेषाम अनीनशत ॥ 16 ॥

  17. नष्टायां परतिपत्तौ तु मॊहवश्या नरास तदा लॊभस्य वशम आपन्नाः सर्वे भारतसत्तम ॥ 17 ॥

  18. अप्राप्तस्याभिमर्शं तु कुर्वन्तॊ मनुजास ततः कामॊ नामापरस तत्र समपद्यत वै परभॊ ॥ 18 ॥

  19. तांस तु कामवशं पराप्तान रागॊ नाम समस्पृशत रक्ताश च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर ॥ 19 ॥

  20. अगम्यागमनं चैव वाच्यावाच्यं तथैव च भक्ष्याभक्ष्यं च राजेन्द्र दॊषादॊषं च नात्यजन ॥ 20 ॥

  21. विप्लुते नरलॊके ऽसमिंस ततॊ बरह्म ननाश ह नाशाच च बरह्मणॊ राजन धर्मॊ नाशम अथागमत ॥ 21 ॥

  22. नष्टे बरह्मणि धर्मे च देवास तरासम अथागमन ते तरस्ता नरशार्दूल बरह्माणं शरणं ययुः ॥ 22 ॥

  23. परपद्य भगवन्तं ते देवा लॊकपिता महम ऊचुः पराञ्जलयः सर्वे दुःखशॊकभयार्दिताः ॥ 23 ॥

  24. भगवन नरलॊकस्थं नष्टं बरह्म सनातनम लॊभमॊहादिभिर भावैस ततॊ नॊ भयम आविशत ॥ 24 ॥

  25. बरह्मणश च परणाशेन धर्मॊ ऽपय अनशद ईश्वर ततः सम समतां याता मर्त्यैस तरिभुवनेश्वर ॥ 25 ॥

  26. अधॊ हि वर्षम अस्माकं मर्त्यास तूर्ध्व परवर्षिणः करिया वयुपरमात तेषां ततॊ ऽगच्छाम संशयम ॥ 26 ॥

  27. अत्र निःश्रेयसं यन नस तद धयायस्व पिता मह तवत परभावसमुत्थॊ ऽसौ परभावॊ नॊ विनश्यति ॥ 27 ॥

  28. तान उवाच सुरान सर्वान सवयं भूर भगवांस ततः शरेयॊ ऽहं चिन्तयिष्यामि वयेतु वॊ भीः सुरर्षभाः ॥ 28 ॥

  29. ततॊ ऽधयायसहस्राणां शतं चक्रे सवबुद्धिजम यत्र धर्मस तथैवार्थः कामश चैवानुवर्णितः ॥ 29 ॥

  30. तरिवर्ग इति विख्यातॊ गण एष सवयं भुवा चतुर्थॊ मॊक्ष इत्य एव पृथग अर्थः पृथग गणः ॥ 30 ॥

  31. मॊक्षस्यापि तरिवर्गॊ ऽनयः परॊक्तः सत्त्वं रजस्तमः सथानं वृद्धिः कषयश चैव तरिवर्गश चैव दण्डजः ॥ 31 ॥

  32. आत्मा देशश च कालश चाप्य उपायाः कृत्यम एव च सहायाः कारणं चैव षड वर्गॊ नीतिजः समृतः ॥ 32 ॥

  33. तरयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ दण्डनीतिश च विपुला विद्यास तत्र निदर्शिताः ॥ 33 ॥

  34. अमात्यरक्षा परणिधी राजपुत्रस्य रक्षणम चारश च विविधॊपायः परणिधिश च पृथग्विधः ॥ 34 ॥

  35. साम चॊपप्रदानं च भेदॊ दण्डश च पाण्डव उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥ 35 ॥

  36. मन्त्रश च वर्णितः कृत्स्नस तथा भेदार्थ एव च विभ्रंशश चैव मन्त्रस्य सिद्ध्यसिद्ध्यॊश च यत फलम ॥ 36 ॥

  37. संधिश च विविधाभिख्यॊ हीनॊ मध्यस तथॊत्तमः भयसत्कार वित्ताख्यः कार्त्स्न्येन परिवर्णितः ॥ 37 ॥

  38. यात्रा कालाश च चत्वारस तरिवर्गस्य च विस्तरः विजयॊ धर्मयुक्तश च तथार्थ विजयश च ह ॥ 38 ॥

  39. आसुरश चैव विजयस तथा कार्त्स्न्येन वर्णितः लक्षणं पञ्चवर्गस्य तरिविधं चात्र वर्णितम ॥ 39 ॥

  40. परकाशश चाप्रकाशश च दण्डॊ ऽथ परिशब्दितः परकाशॊ ऽषट विधस तत्र गुह्यस तु बहुविस्तरः ॥ 40 ॥

  41. रथा नागा हयाश चैव पादाताश चैव पाण्डव विष्टिर नावश चराश चैव देशिकाः पथि चाष्टकम ॥ 41 ॥

  42. अङ्गान्य एतानि कौरव्य परकाशानि बलस्य तु जङ्गमाजङ्गमाश चॊक्ताश चूर्णयॊगा विषादयः ॥ 42 ॥

  43. सपर्शे चाभ्यवहार्ये चाप्य उपांशुर विविधः समृतः अरिमित्रम उदासीन इत्य एते ऽपय अनुवर्णिताः ॥ 43 ॥

  44. कृत्स्ना मार्गगुणाश चैव तथा भूमिगुणाश च ह आत्मरक्षणम आश्वासः सपशानां चान्ववेक्षणम ॥ 44 ॥

  45. कल्पना विविधाश चापि नृनागरथवाजिनाम वयूहाश च विविधाभिख्या विचित्रं युद्धकौशलम ॥ 45 ॥

  46. उत्पाताश च निपाताश च सुयुद्धं सुपलायनम शस्त्राणां पायन जञानं तथैव भरतर्षभ ॥ 46 ॥

  47. बलव्यसनम उक्तं च तथैव बलहर्षणम पीडनास्कन्द कालश च भयकालश च पाण्डव ॥ 47 ॥

  48. तथा खात विधानं च यॊगसंचार एव च चौराटव्य अबलैश चॊग्रैः परराष्ट्रस्य पीडनम ॥ 48 ॥

  49. अग्निदैर गरदैश चैव परतिरूपक चारकैः शरेणि मुख्यॊपजापेन वीरुधश छेदनेन च ॥ 49 ॥

  50. दूषणेन च नागानाम आशङ्का जननेन च आरॊधनेन भक्तस्य पथश चॊपार्जनेन च ॥ 50 ॥

  51. सप्ताङ्गस्य च राज्यस्य हरास वृद्धिसमञ्जसम दूत सामर्थ्य यॊगश च राष्ट्रस्य च विवर्धनम ॥ 51 ॥

  52. अरिमध्य सथ मित्राणां सम्यक चॊक्तं परपञ्चनम अवमर्दः परतीघातस तथैव च बलीयसाम ॥ 52 ॥

  53. वयवहारः सुसूक्ष्मश च तथा कण्टक शॊधनम शमॊ वयायामयॊगश च यॊगॊ दरव्यस्य संचयः ॥ 53 ॥

  54. अभृतानां च भरणं भृतानां चान्ववेक्षणम अर्थकाले परदानं च वयसनेष्व अप्रसङ्गिता ॥ 54 ॥

  55. तथा राजगुणाश चैव सेनापतिगुणाश च ये कारणस्य च कर्तुश च गुणदॊषास तथैव च ॥ 55 ॥

  56. दुष्टेङ्गितं च विविधं वृत्तिश चैवानुजीविनाम शङ्कितत्वं च सर्वस्य परमादस्य च वर्जनम ॥ 56 ॥

  57. अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम परदानं च विवृद्धस्य पात्रेभ्यॊ विधिवत तथा ॥ 57 ॥

  58. विसर्गॊ ऽरथस्य धर्मार्थम अर्थार्थं कामहेतुना चतुर्थॊ वयसनाघाते तथैवात्रानुवर्णितः ॥ 58 ॥

  59. करॊधजानि तथॊग्राणि कामजानि तथैव च दशॊक्तानि कुरुश्रेष्ठ वयसनान्य अत्र चैव ह ॥ 59 ॥

  60. मृगयाक्षास तथा पानं सत्रियश च भरतर्षभ कामजान्य आहुर आचार्याः परॊक्तानीह सवयं भुवा ॥ 60 ॥

  61. वाक पारुष्यं तथॊग्रत्वं दण्डपारुष्यम एव च आत्मनॊ निग्रहस तयागॊ ऽथार्थ दूषणम एव च ॥ 61 ॥

  62. यन्त्राणि विविधान्य एव करियास तेषां च वर्णिताः अवमर्दः परतीघातः केतनानां च भञ्जनम ॥ 62 ॥

  63. चैत्यद्रुमाणाम आमर्दॊ रॊधः कर्मान्त नाशनम अपस्करॊ ऽथ गमनं तथॊपास्या च वर्णिता ॥ 63 ॥

  64. पणवानकशङ्खानां भेरीणां च युधां वर उपार्जनं च दरव्याणां परमर्म च तानि षट ॥ 64 ॥

  65. लब्धस्य च परशमनं सतां चैव हि पूजनम विद्वद्भिर एकीभावश च परातर हॊमविधिज्ञता ॥ 65 ॥

  66. मङ्गलालम्भनं चैव शरीरस्य परतिक्रिया आहारयॊजनं चैव नित्यम आस्तिक्यम एव च ॥ 66 ॥

  67. एकेन च यथॊत्थेयं सत्यत्वं मधुरा गिरः उत्सवानां समाजानां करियाः केतन जास तथा ॥ 67 ॥

  68. परत्यक्षा च परॊक्षा च सर्वाधिकरणेषु च वृत्तिर भरतशार्दूल नित्यं चैवान्ववेक्षणम ॥ 68 ॥

  69. अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम अनुजीवि सवजातिभ्यॊ गुणेषु परिरक्षणम ॥ 69 ॥

  70. रक्षणं चैव पौराणां सवराष्ट्रस्य विवर्धनम मण्डलस्था च या चिन्ता राजन दवादश राजिका ॥ 70 ॥

  71. दवा सप्तति मतिश चैव परॊक्ता या च सवयं भुवा देशजातिकुलानां च धर्माः समनुवर्णिताः ॥ 71 ॥

  72. धर्मश चार्थश च कामश च मॊक्षश चात्रानुवर्णितः उपायश चार्थलिप्सा च विविधा भूरिदक्षिणाः ॥ 72 ॥

  73. मूलकर्म करिया चात्र मायायॊगश च वर्णितः दूषणं सरॊतसाम अत्र वर्णितं च सथिराम्भसाम ॥ 73 ॥

  74. यैर यैर उपायैर लॊकश च न चलेद आर्य वर्त्मनः तत सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम ॥ 74 ॥

  75. एतत कृत्वा शुभं शास्त्रं ततः स भगवान परभुः देवान उवाच संहृष्टः सर्वाञ शक्रपुरॊगमान ॥ 75 ॥

  76. उपकाराय लॊकस्य तरिवर्गस्थापनाय च नव नीतं सरस्वत्या बुद्धिर एषा परभाविता ॥ 76 ॥

  77. दण्डेन सहिता हय एषा लॊकरक्षण कारिका निग्रहानुग्रह रता लॊकान अनु चरिष्यति ॥ 77 ॥

  78. दण्डेन नीयते चेयं दण्डं नयति चाप्य उत दण्डनीतिर इति परॊक्ता तरीँल लॊकान अनुवर्तते ॥ 78 ॥

  79. षाड्गुण्य गुणसारैषा सथास्यत्य अग्रे महात्मसु महत्त्वात तस्य दण्डस्य नीतिर विस्पष्ट लक्षणा ॥ 79 ॥

  80. नयचारश च विपुलॊ येन सर्वम इदं ततम आगमश च पुराणानां महर्षीणां च संभवः ॥ 80 ॥

  81. तीर्थवंशश च वंशश च नक्षत्राणां युधिष्ठिर सकलं चातुराश्रम्यं चातुर्हॊत्रं तथैव च ॥ 81 ॥

  82. चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम इतिहासॊपवेदाश च नयायः कृत्स्नश च वर्णितः ॥ 82 ॥

  83. तपॊ जञानम अहिंसा च सत्यासत्ये नयः परः वृद्धॊपसेवा दानं च शौचम उत्थानम एव च ॥ 83 ॥

  84. सर्वभूतानुकम्पा च सर्वम अत्रॊपवर्णितम भुवि वाचॊ गतं यच च तच च सर्वं समर्पितम ॥ 84 ॥

  85. तस्मिन पैतामहे शास्त्रे पाण्डवैतद असंशयम धर्मार्थकाममॊक्षश च सकला हय अत्र शब्दिताः ॥ 85 ॥

  86. ततस तां भगवान नीतिं पूर्वं जग्राह शंकरः बहुरूपॊ विशालाक्षः शिवः सथाणुर उमापतिः ॥ 86 ॥

  87. युगानाम आयुषॊ हरासं विज्ञाय भगवाञ शिवः संचिक्षेप ततः शास्त्रं महार्थं बरह्मणा कृतम ॥ 87 ॥

  88. वैशालाक्षम इति परॊक्तं तद इन्द्रः परत्यपद्यत दश धयाय सहस्राणि सुब्रह्मण्यॊ महातपाः ॥ 88 ॥

  89. भगवान अपि तच छास्त्रं संचिक्षेप पुरंदरः सहस्रैः पञ्चभिस तात यद उक्तं बाहुदन्तकम ॥ 89 ॥

  90. अध्यायानां सहस्रैस तु तरिभिर एव बृहस्पतिः संचिक्षेपेश्वरॊ बुद्ध्या बार्हस्पत्यं तद उच्यते ॥ 90 ॥

  91. अध्यायानां सहस्रेण काव्यः संक्षेपम अब्रवीत तच छास्त्रम अमितप्रज्ञॊ यॊगाचार्यॊ महातपाः ॥ 91 ॥

  92. एवं लॊकानुरॊधेन शास्त्रम एतन महर्षिभिः संक्षिप्तम आयुर विज्ञाय मर्त्यानां हरासि पाण्डव ॥ 92 ॥

  93. अथ देवाः समागम्य विष्णुम ऊचुः परजापतिम एकॊ यॊ ऽरहति मर्त्येभ्यः शरैष्ठ्यं तं वै समादिश ॥ 93 ॥

  94. ततः संचिन्त्य भगवान देवॊ नारायणः परभुः तैजसं वै विरजसं सॊ ऽसृजन मानसं सुतम ॥ 94 ॥

  95. विराजास तु महाभाग विभुत्वं भुवि नैच्छत नयासायैवाभवद बुद्धिः परणीता तस्य पाण्डव ॥ 95 ॥

  96. कीर्तिमांस तस्य पुत्रॊ ऽभूत सॊ ऽपि पञ्चातिगॊ ऽभवत कर्दमस तस्य च सुतः सॊ ऽपय अतप्यन महत तपः ॥ 96 ॥

  97. परजापतेः कर्दमस्य अनङ्गॊ नाम वै सुतः परजानां रक्षिता साधुर दण्डनीति विशारदः ॥ 97 ॥

  98. अनङ्ग पुत्रॊ ऽति बलॊ नीतिमान अधिगम्य वै अभिपेदे मही राज्यम अथेन्द्रिय वशॊ ऽभवत ॥ 98 ॥

  99. मृत्यॊस तु दुहिता राजन सुनीथा नाम मानसी परख्याता तरिषु लॊकेषु या सा वेनम अजीजनत ॥ 99 ॥

  100. तं परजासु विधर्माणं रागद्वेषवशानुगम मन्त्रपूतैः कुशैर जघ्नुर ऋषयॊ बरह्मवादिनः ॥ 100 ॥

  101. ममन्थुर दक्षिणं चॊरुम ऋषयस तस्य मन्त्रतः ततॊ ऽसय विकृतॊ जज्ञे हरस्वाङ्गः पुरुषॊ भुवि ॥ 101 ॥

  102. दग्धस्थाणुप्रतीकाशॊ रक्ताक्षः कृष्ण मूर्ध जः निषीदेत्य एवम ऊचुस तम ऋषयॊ बरह्मवादिनः ॥ 102 ॥

  103. तस्मान निषादाः संभूताः करूराः शैलवनाश्रयाः ये चान्ये विन्ध्यनिलया मलेच्छाः शतसहस्रशः ॥ 103 ॥

  104. भूयॊ ऽसय दक्षिणं पाणिं ममन्थुस ते महर्षयः ततः पुरुष उत्पन्नॊ रूपेणेन्द्र इवापरः ॥ 104 ॥

  105. कवची बद्धनिस्त्रिंशः स शरः स शरासनः वेदवेदाङ्गविच चैव धनुर्वेदे च पारगः ॥ 105 ॥

  106. तं दण्डनीतिः सकला शरिता राजन नरॊत्तमम ततः स पराञ्जलिर वैन्यॊ महर्षींस तान उवाच ह ॥ 106 ॥

  107. सुसूक्ष्मा मे समुत्पन्ना बुद्धिर धर्मार्थदर्शिनी अनया किं मया कार्यं तन मे तत्त्वेन शंसत ॥ 107 ॥

  108. यन मां भवन्तॊ वक्ष्यन्ति कार्यम अर्थसमन्वितम तद अहं वै करिष्यामि नात्र कार्या विचारणा ॥ 108 ॥

  109. तम ऊचुर अथ देवास ते ते चैव परमर्षयः नियतॊ यत्र धर्मॊ वै तम अशङ्कः समाचर ॥ 109 ॥

  110. परियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु कामक्रॊधौ च लॊभं च मानं चॊत्सृज्य दूरतः ॥ 110 ॥

  111. यश च धर्मात परविचलेल लॊके कश चन मानवः निग्राह्यस ते स बाहुभ्यां शश्वद धर्मम अवेक्षतः ॥ 111 ॥

  112. परतिज्ञां चाधिरॊहस्व मनसा कर्मणा गिरा पालयिष्याम्य अहं भौमं बरह्म इत्य एव चासकृत ॥ 112 ॥

  113. यश चात्र धर्मनीत्य उक्तॊ दण्डनीति वयपाश्रयः तम अशङ्कः करिष्यामि सववशॊ न कदा चन ॥ 113 ॥

  114. अदण्ड्या मे दविजाश चेति परतिजानीष्व चाभिभॊ लॊकं च संकरात कृत्स्नात तरातास्मीति परंतप ॥ 114 ॥

  115. वैन्यस ततस तान उवाच देवान ऋषिपुरॊगमान बराह्मणा मे सहायाश चेद एवम अस्तु सुरर्षभाः ॥ 115 ॥

  116. एवम अस्त्व इति वैन्यस तु तैर उक्तॊ बरह्मवादिभिः पुरॊधाश चाभवत तस्य शुक्रॊ बरह्म मयॊ निधिः ॥ 116 ॥

  117. मन्त्रिणॊ वालखिल्यास तु सारस्वत्यॊ गणॊ हय अभूत महर्षिर भगवान गर्गस तस्य सांवत्सरॊ ऽभवत ॥ 117 ॥

  118. आत्मनाष्टम इत्य एव शरुतिर एषा परा नृषु उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥ 118 ॥

  119. समतां वसुधायाश च स सम्यग उपपादयत वैषम्यं हि परं भूमेर आसीद इति ह नः शरुतम ॥ 119 ॥

  120. स विष्णुना च देवेन शक्रेण विबुधैः सह ऋषिभिश च परजापाल्ये बरह्मणा चाभिषेचितः ॥ 120 ॥

  121. तं साक्षात पृथिवी भेजे रत्नान्य आदाय पाण्डव सागरः सरितां भर्ता हिमवांश चाचलॊत्तमः ॥ 121 ॥

  122. शक्रश च धनम अक्षय्यं परादात तस्य युधिष्ठिर रुक्मं चापि महामेरुः सवयं कनकपर्वतः ॥ 122 ॥

  123. यक्षराक्षस भर्ता च भगवान नरवाहनः धर्मे चार्थे च कामे च समर्थं परददौ धनम ॥ 123 ॥

  124. हया रथाश च नागाश च कॊटिशः पुरुषास तथा परादुर्बभूवुर वैन्यस्य चिन्तनाद एव पाण्डव न जरा न च दुर्भिक्षं नाधनॊ वयाधयस तथा ॥ 124 ॥

  125. सरीसृपेभ्यः सतेनेभ्यॊ न चान्यॊन्यात कदा चन भयम उत्पद्यते तत्र तस्य राज्ञॊ ऽभिरक्षणात ॥ 125 ॥

  126. तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च यक्षराक्षस नागैश चापीप्षितं यस्य यस्य यत ॥ 126 ॥

  127. तेन धर्मॊत्तरश चायं कृतॊ लॊकॊ महात्मना रञ्जिताश च परजाः सर्वास तेन राजेति शब्द्यते ॥ 127 ॥

  128. बराह्मणानां कषतत्राणात ततः कषत्रिय उच्यते परथिता धनतश चेयं पृथिवी साधुभिः समृता ॥ 128 ॥

  129. सथापनं चाकरॊद विष्णुः सवयम एव सतातनः नातिवर्तिष्यते कश चिद राजंस तवाम इति पार्थिव ॥ 129 ॥

  130. तपसा भगवान विष्णुर आविवेश च भूमिपम देव वन नरदेवानां नमते यज जगन नृप ॥ 130 ॥

  131. दण्डनीत्या च सततं रक्षितं तं नरेश्वर नाधर्षयत ततः कश चिच चारनित्याच च दर्शनात ॥ 131 ॥

  132. आत्मना करणैश चैव समस्येह महीक्षितः कॊ हेतुर यद वशे तिष्ठेल लॊकॊ दैवाद ऋते गुणात ॥ 132 ॥

  133. विष्णॊर ललाटात कमलं सौवर्णम अभवत तदा शरीः संभूता यतॊ देवी पत्नी धर्मस्य धीमतः ॥ 133 ॥

  134. शरियः सकाशाद अर्थश च जातॊ धर्मेण पाण्डव अथ धर्मस तथैवार्थः शरीश च राज्ये परतिष्ठिता ॥ 134 ॥

  135. सुकृतस्य कषयाच चैव सवर्लॊकाद एत्य मेदिनीम पार्थिवॊ जायते तात दण्डनीति वशानुगः ॥ 135 ॥

  136. महत्त्वेन च संयुक्तॊ वैष्णवेन नरॊ भुवि बुद्ध्या भवति संयुक्तॊ माहात्म्यं चाधिगच्छति ॥ 136 ॥

  137. सथापनाम अथ देवानां न कश चिद अतिवर्तते तिष्ठत्य एकस्य च वशे तं चेद अनुविधीयते ॥ 137 ॥

  138. शुभं हि कर्म राजेन्द्र शुभत्वायॊपकल्पते तुल्यस्यैकस्य यस्यायं लॊकॊ वचसि तिष्ठति ॥ 138 ॥

  139. यॊ हय अस्य मुखम अद्राक्षीत सॊम्य सॊ ऽसय वशानुगः सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥ 139 ॥

  140. ततॊ जगति राजेन्द्र सततं शब्दितं बुधैः देवाश च नरदेवाश च तुल्या इति विशां पते ॥ 140 ॥

  141. एतत ते सर्वम आख्यातं महत्त्वं परति राजसु कार्त्स्न्येन भरतश्रेष्ठ किम अन्यद इह वर्तताम ॥ 141 ॥

Reach this point to mark the section finished.

Continue to अध्याय 60

Previous: अध्याय 58