धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 5

  1. [नारद] आविष कृतबलं कर्णं जञात्वा राजा तु मागधः आह्वयद दवैरथेनाजौ जरासंधॊ महीपतिः ॥ 1 ॥

  2. तयॊः समभवद युद्धं दिव्यास्त्रविदुषॊर दवयॊः युधि नानाप्रहरणैर अन्यॊन्यम अभिवर्षतॊः ॥ 2 ॥

  3. कषीणबाणौ वि धनुषौ भग्नखड्गौ महीं गतौ बाहुभिः समसञ्जेताम उभाव अपि बलान्वितौ ॥ 3 ॥

  4. बाहुकण्टक युद्धेन तस्य कर्णॊ ऽथ युध्यतः बिभेद संधिं देहस्य जरया शलेषितस्य ह ॥ 4 ॥

  5. स विकारं शरीरस्य दृष्ट्वा नृपतिर आत्मनः परीतॊ ऽसमीत्य अब्रवीत कर्णं वैरम उत्सृज्य भारत ॥ 5 ॥

  6. परीत्या ददौ स कर्णाय मालिनीं नगरीम अथ अङ्गेषु नरशार्दूल स राजासीत सपत्नजित ॥ 6 ॥

  7. पालयाम आस चम्पां तु कर्णः परबलार्दनः दुर्यॊधनस्यानुमते तवापि विदितं तथा ॥ 7 ॥

  8. एवं शस्त्रप्रतापेन परथितः सॊ ऽभवत कषितौ तवद्धितार्थं सुरेन्द्रेण भिक्षितॊ वर्म कुण्डले ॥ 8 ॥

  9. स दिव्ये सहजे परादात कुण्डले परमार्चिते सहजं कवचं चैव मॊहितॊ देव मायया ॥ 9 ॥

  10. विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा निहतॊ विजयेनाजौ वासुदेवस्य पश्यतः ॥ 10 ॥

  11. बराह्मणस्याभिशापेन रामस्य च महात्मनः कुन्त्याश च वरदानेन मायया च शतक्रतॊः ॥ 11 ॥

  12. भीष्मावमानात संख्यायां रथानाम अर्धकीर्तनात शल्यात तेजॊवधाच चापि वासुदेव नयेन च ॥ 12 ॥

  13. रुद्रस्य देवराजस्य यमस्य वरुणस्य च कुबेर दरॊणयॊश चैव कृपस्य च महात्मनः ॥ 13 ॥

  14. अस्त्राणि दिव्यान्य आदाय युधि गाण्डीवधन्वना हतॊ वैकर्तनः कर्णॊ दिवाकरसमद्युतिः ॥ 14 ॥

  15. एवं शप्तस तव भराता बहुभिश चापि वञ्चितः न शॊच्यः स नरव्याघ्रॊ युद्धे हि निधनं गतः ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4