धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 58

  1. [भीस्म] एतत ते राजधर्माणां नव नीतं युधिष्ठिर बृहस्पतिर हि भगवान नान्यं धर्मं परशंसति ॥ 1 ॥

  2. विशालाक्षश च भगवान काव्यश चैव महातपाः सहस्राक्षॊ महेन्द्रश च तथा पराचेतसॊ मनुः ॥ 2 ॥

  3. भरद्वाजश च भगवांस तथा गौर शिरा मुनिः राजशास्त्रप्रणेतारॊ बरह्मण्या बरह्मवादिनः ॥ 3 ॥

  4. रक्षाम एव परशंसन्ति धर्मं धर्मभृतां वर राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ॥ 4 ॥

  5. चारश च परणिधिश चैव काले दानम अमत्सरः युक्त्यादानं न चादानम अयॊगेन युधिष्ठिर ॥ 5 ॥

  6. सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं परजाहितम अनार्जवैर आर्जवैश च शत्रुपक्षस्य भेदनम ॥ 6 ॥

  7. साधूनाम अपरित्यागः कुलीनानां च धारणम निचयश च निचेयानां सेवा बुद्धिमताम अपि ॥ 7 ॥

  8. बलानां हर्षणं नित्यं परजानाम अन्ववेक्षणम कार्येष्व अखेदः कॊशस्य तथैव च विवर्धनम ॥ 8 ॥

  9. पुरगुप्तिर अविश्वासः पौरसंघात भेदनम केतनानां च जीर्णानाम अवेक्षा चैव सीदताम ॥ 9 ॥

  10. दविविधस्य च दण्डस्य परयॊगः कालचॊदितः अरिमध्य सथ मित्राणां यथावच चान्ववेक्षणम ॥ 10 ॥

  11. उपजापश च भृत्यानाम आत्मनः परदर्शनात अविश्वासः सवयं चैव परस्याश्वासनं तथा ॥ 11 ॥

  12. नीतिधर्मानुसरणं नित्यम उत्थानम एव च रिपूणाम अनवज्ञानं नित्यं चानार्य वर्जनम ॥ 12 ॥

  13. उत्थानं हि नरेन्द्राणां बृहस्पतिर अभाषत राजधर्मस्य यन मूलं शलॊकांश चात्र निबॊध मे ॥ 13 ॥

  14. उत्थानेनामृतं लब्धम उत्थानेनासुरा हताः उत्थानेन महेन्द्रेण शरैष्ठ्यं पराप्तं दिवीह च ॥ 14 ॥

  15. उत्थान धीरः पुरुषॊ वाग धीरान अधितिष्ठति उत्थान धीरं वाग धीरा रमयन्त उपासते ॥ 15 ॥

  16. उत्थान हीनॊ राजा हि बुद्धिमान अपि नित्यशः धर्षणीयॊ रिपूणां सत्याद भुजंग इव निर्विषः ॥ 16 ॥

  17. न च शत्रुर अवज्ञेयॊ दुर्बलॊ ऽपि बलीयसा अल्पॊ ऽपि हि दहत्य अग्निर विषम अल्पं हिनस्ति च ॥ 17 ॥

  18. एकाश्वेनापि संभूतः शत्रुर दुर्ग समाश्रितः तं तं तापयते देशम अपि राज्ञः समृद्धिनः ॥ 18 ॥

  19. राज्ञॊ रहस्यं यद वाक्यं जयार्थं लॊकसंग्रहः हृदि यच चास्य जिह्मं सयात कारणार्थं च यद भवेत ॥ 19 ॥

  20. यच चास्य कार्यं वृजिनम आर्जवेनैव धार्यते दम्भनार्थाय लॊकस्य धर्मिष्ठाम आचरेत करियाम ॥ 20 ॥

  21. राज्यं हि सुमहत तन्त्रं दुर्धार्यम अकृतात्मभिः न शक्यं मृदुना वॊढुम आघात सथानम उत्तमम ॥ 21 ॥

  22. राज्यं सर्वामिषं नित्यम आर्जवेनेह धार्यते तस्मान मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥ 22 ॥

  23. यद्य अप्य अस्य विपत्तिः सयाद रक्षमाणस्य वै परजाः सॊ ऽपय अस्य विपुलॊ धर्म एवंवृत्ता हि भूमिपाः ॥ 23 ॥

  24. एष ते राजधर्माणां लेशः समनुवर्णितः भूयस ते यत्र संदेहस तद बरूहि वदतां वर ॥ 24 ॥

  25. ततॊ वयासश च भगवान देवस्थानॊ ऽशमना सह वासुदेवः कृपश चैव सात्यकिः संजयस तथा ॥ 25 ॥

  26. साधु साध्व इति संहृष्टाः पुष्यमाणैर इवाननैः अस्तुवंस ते नरव्याघ्रं भीष्मं धर्मभृतां वरम ॥ 26 ॥

  27. ततॊ दीनमना भीष्मम उवाच कुरुसत्तमः नेत्राभ्याम अश्रुपूर्णाभ्यां पादौ तस्य शनैः सपृशन ॥ 27 ॥

  28. शव इदानीं सवसंदेहं परक्ष्यामि तवं पिता मह उपैति सविताप्य अस्तं रसम आपीय पार्थिवम ॥ 28 ॥

  29. ततॊ दविजातीनाम इवाद्य केशवः; कृपश च ते चैव युधिष्ठिरादयः परदक्षिणीकृत्य महानदी सुतं; ततॊ रथान आरुरुहुर मुदा युताः ॥ 29 ॥

  30. दृषद वतीं चाप्य अवगाह्य सुव्रताः; कृतॊद कार्याः कृतजप्य मङ्गलाः उपास्य संध्यां विधिवत परंतपास; ततः पुरं ते विविशुर गजाह्वयम ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57