धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 57

  1. [भीस्म] नित्यॊद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर परशाम्यते च राजा हि नारीवॊद्यम वर्जितः ॥ 1 ॥

  2. भगवान उशना चाह शलॊकम अत्र विशां पते तम इहैकमना राजन गदतस तवं निबॊध मे ॥ 2 ॥

  3. दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम ॥ 3 ॥

  4. तद एतन नरशार्दूल हृदि तवं कर्तुम अर्हसि संधेयान अपि संधत्स्व विरॊध्यांश च विरॊधय ॥ 4 ॥

  5. सप्ताङ्गे यश च ते राज्ये वैपरीत्यं समाचरेत गुरुर वा यदि वा मित्रं परतिहन्तव्य एव सः ॥ 5 ॥

  6. मरुत्तेन हि राज्ञायं गीतः शलॊकः पुरातनः राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥ 6 ॥

  7. गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः उत्पथप्रतिपन्नस्य परित्यागॊ विधीयते ॥ 7 ॥

  8. बाहॊः पुत्रेण राज्ञा च सगरेणेह धीमता असमञ्जाः सुतॊ जयेष्ठस तयक्तः पौरहितैषिणा ॥ 8 ॥

  9. असमञ्जाः सरय्वां पराक पौराणां बालकान नृप नयमज्जयद अतः पित्रा निर्भर्त्स्य स विवासितः ॥ 9 ॥

  10. ऋषिणॊद्दालकेनापि शवेतकेतुर महातपाः मिथ्या विप्रान उपचरन संत्यक्तॊ दयितः सुतः ॥ 10 ॥

  11. लॊकरञ्जनम एवात्र राज्ञां धर्मः सनातनः सत्यस्य रक्षणं चैव वयवहारस्य चार्जवम ॥ 11 ॥

  12. न हिंस्यात परवित्तानि देयं काले च दापयेत विक्रान्तः सत्यवाक कषान्तॊ नृपॊ न चलते पथः ॥ 12 ॥

  13. गुप्तमन्त्रॊ जितक्रॊधॊ शास्त्रार्थगतनिश्चयः धर्मे चार्थे च कामे च मॊक्षे च सततं रतः ॥ 13 ॥

  14. तरय्या संवृतरन्ध्रश च राजा भवितुम अर्हति वृजिनस्य नरेन्द्राणां नान्यत संवरणात परम ॥ 14 ॥

  15. चातुर्वर्ण्यस्य धर्माश च रक्षितव्या महीक्षिता धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः ॥ 15 ॥

  16. न विश्वसेच च नृपतिर न चात्यर्थं न विश्वसेत षाड्गुण्य गुणदॊषांश च नित्यं बुद्ध्यावलॊकयेत ॥ 16 ॥

  17. दविट छिद्रदर्शि नृपतिर नित्यम एव परशस्यते तरिवर्गविदितार्थश च युक्तचारॊपधिश च यः ॥ 17 ॥

  18. कॊशस्यॊपार्जन रतिर यम वैश्रवणॊपमः वेत्ता च दशवर्गस्य सथानवृद्धि कषयात्मनः ॥ 18 ॥

  19. अभृतानां भवेद भर्ता भृतानां चान्ववेक्षकः नृपतिः सुमुखश च सयात समितपूर्वाभिभाषिता ॥ 19 ॥

  20. उपासिता च वृद्धानां जिततन्द्रीर अलॊलुपः सतां वृत्ते सथितमतिः सन्तॊ हय आचार दर्शिनः ॥ 20 ॥

  21. न चाददीत वित्तानि सतां हस्तात कदा चन असद्भ्यस तु समादद्यात सद्भ्यः संप्रतिपादयेत ॥ 21 ॥

  22. सवयं परहर्तादाता च वश्यात्मा वश्य साधनः काले दाता च भॊक्ता च शुद्धाचारस तथैव च ॥ 22 ॥

  23. शूरान भक्तान असंहार्यान कुले जातान अरॊगिणः शिष्टाञ शिष्टाभिसंबन्धान मानिनॊ नावमानिनः ॥ 23 ॥

  24. विद्या विदॊ लॊकविदः परलॊकान्ववेक्षकान धर्मेषु निरतान साधून अचलान अचलान इव ॥ 24 ॥

  25. सहायान सततं कुर्याद राजा भूतिपुरस्कृतः तैस तुल्यश च भवेद भॊगैश छत्रमात्रा जञयाधिकः ॥ 25 ॥

  26. परत्यक्षा च परॊक्षा च वृत्तिश चास्य भवेत सदा एवं कृत्वा नरेन्द्रॊ हि न खेदम इह विन्दति ॥ 26 ॥

  27. सर्वाति शङ्की नृपतिर यश च सर्वहरॊ भवेत स कषिप्रम अनृजुर लुब्धः सवजनेनैव बाध्यते ॥ 27 ॥

  28. शुचिस तु पृथिवीपालॊ लॊकचित्तग्रहे रतः न पतत्य अरिभिर गरस्तः पतितश चावतिष्ठते ॥ 28 ॥

  29. अक्रॊधनॊ ऽथाव्यसनी मृदु दण्डॊ जितेन्द्रियः राजा भवति भूतानां विश्वास्यॊ हिमवान इव ॥ 29 ॥

  30. पराज्ञॊ नयायगुणॊपेतः पररन्ध्रेषु तत्परः सुदर्शः सर्ववर्णानां नयापनयवित तथा ॥ 30 ॥

  31. कषिप्रकारी जितक्रॊधः सुप्रसादॊ महामनाः अरॊग परकृतिर युक्तः करिया वान अविकत्थनः ॥ 31 ॥

  32. आरब्धान्य एव कार्याणि न पर्यवसितानि च यस्य राज्ञः परदृश्यन्ते स राजा राजसत्तमः ॥ 32 ॥

  33. पुत्रा इव पितुर गेहे विषये यस्य मानवाः निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥ 33 ॥

  34. अगूढ विभवा यस्य पौरा राष्ट्रनिवासिनः नयापनयवेत्तारः स राजा राजसत्तमः ॥ 34 ॥

  35. सवकर्मनिरता यस्य जना विषयवासिनः असंघात रता दान्ताः पाल्यमाना यथाविधि ॥ 35 ॥

  36. वश्या नेया विनीताश च न च संघर्षशीलिनः विषये दानरुचयॊ नरा यस्य स पार्थिवः ॥ 36 ॥

  37. न यस्य कूटकपटं न माया न च मत्सरः विषये भूमिपालस्य तस्य धर्मः सनातनः ॥ 37 ॥

  38. यः सत करॊति जञानानि नेयः पौरहिते रतः सतां धर्मानुगस तयागी स राजा राज्यम अर्हति ॥ 38 ॥

  39. यस्य चारश च मन्त्रश च नित्यचैव कृताकृते न जञायते हि रिपुभिः स राजा राज्यम अर्हति ॥ 39 ॥

  40. शलॊकश चायं पुरा गीतॊ भार्गवेण महात्मना आख्याते रामचरिते नृपतिं परति भारत ॥ 40 ॥

  41. राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम राजन्य असति लॊकस्य कुतॊ भार्या कुतॊ धनम ॥ 41 ॥

  42. तद राजन राजसिंहानां नान्यॊ धर्मः सनातनः ऋते रक्षां सुविस्पष्टां रक्षा लॊकस्य धारणम ॥ 42 ॥

  43. पराचेतसेन मनुना शलॊकौ चेमाव उदाहृतौ राजधर्मेषु राजेन्द्र ताव इहैकमनाः शृणु ॥ 43 ॥

  44. षड एतान पुरुषॊ जह्याद भिन्नां नावम इवार्णवे अप्रवक्तारम आचार्यम अनधीयानम ऋत्विजम ॥ 44 ॥

  45. अरक्षितारं राजानं भार्यां चाप्रिय वादिनाम गरामकामं च गॊपालं वनकामं च नापितम ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 58

Previous: अध्याय 56