धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 56

  1. परणिपत्य हृषीकेशम अभिवाद्य पिता महम अनुमान्य गुरून सर्वान पर्यपृच्छद युधिष्ठिरः ॥ 1 ॥

  2. राज्यं वै परमॊ धर्म इति धर्मविदॊ विदुः महान्तम एतं भारं च मन्ये तद बरूहि पार्थिव ॥ 2 ॥

  3. राजधर्मान विशेषेण कथयस्व पिता मह सर्वस्य जीवलॊकस्य राजधर्माः परायणम ॥ 3 ॥

  4. तरिवर्गॊ ऽतर समासक्तॊ राजधर्मेषु कौरव मॊक्षधर्मश च विस्पष्टः सकलॊ ऽतर समाहितः ॥ 4 ॥

  5. यथा हि रश्मयॊ ऽशवस्य दविरदस्याङ्कुशॊ यथा नरेन्द्र धर्मॊ लॊकस्य तथा परग्रहणं समृतम ॥ 5 ॥

  6. अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते लॊकस्य संस्था न भवेत सर्वं च वयाकुलं भवेत ॥ 6 ॥

  7. उदयन हि यथा सूर्यॊ नाशयत्य आसुरं तपः राजधर्मास तथालॊक्याम आक्षिपन्त्य अशुभां गतिम ॥ 7 ॥

  8. तदग्रे राजधर्माणाम अर्थतत्त्वं पिता मह परब्रूहि भरतश्रेष्ठ तवं हि बुद्धिमतां वरः ॥ 8 ॥

  9. आगमश च परस तवत्तः सर्वेषां नः परंतप भवन्तं हि परं बुद्धौ वासुदेवॊ ऽभिमन्यते ॥ 9 ॥

  10. नमॊ धर्माय महते नमः कृष्णाय वेधसे बराह्मणेभ्यॊ नमस्कृत्य धर्मान वक्ष्यामि शाश्वतान ॥ 10 ॥

  11. शृणु कार्त्स्न्येन मत्तस तवं राजधर्मान युधिष्ठिर निरुच्यमानान नियतॊ यच चान्यद अभिवाञ्छसि ॥ 11 ॥

  12. आदाव एव कुरुश्रेष्ठ राज्ञा रञ्जन काम्यया देवतानां दविजानां च वर्तितव्यं यथाविधि ॥ 12 ॥

  13. दैवतान्य अर्चयित्वा हि बराह्मणांश च कुरूद्वह आनृण्यं याति धर्मस्य लॊकेन च स मान्यते ॥ 13 ॥

  14. उत्थाने च सदा पुत्र परयतेथा युधिष्ठिर न हय उत्थानम ऋते दैवं राज्ञाम अर्थप्रसिद्धये ॥ 14 ॥

  15. साधारणं दवयं हय एतद दैवम उत्थानम एव च पौरुषं हि परं मन्ये दैवं निश्चित्यम उच्यते ॥ 15 ॥

  16. विपन्ने च समारम्भे संतापं मा सम वै कृथाः घटते विनयस तात राज्ञाम एष नयः परः ॥ 16 ॥

  17. न हि सत्याद ऋते किं चिद राज्ञां वै सिद्धिकारणम सत्ये हि राजा निरतः परेत्य चेह हि नन्दति ॥ 17 ॥

  18. ऋषीणाम अपि राजेन्द्र सत्यम एव परं धनम तथा राज्ञः परं सत्यान नान्यद विश्वासकारणम ॥ 18 ॥

  19. गुणवाञ शीलवान दान्तॊ मृदुर धर्म्यॊ जितेन्द्रियः सुदर्शः सथूललक्ष्यश च न भरश्येत सदा शरियः ॥ 19 ॥

  20. आर्जवं सर्वकार्येषु शरयेथाः कुरुनन्दन पुनर नयविचारेण तरयी संवरणेन च ॥ 20 ॥

  21. मृदुर हि राजा सततं लङ्घ्यॊ भवति सर्वशः तीक्ष्णाच चॊद्विजते लॊकस तस्माद उभयम आचर ॥ 21 ॥

  22. अदण्ड्याश चैव ते नित्यं विप्राः सयुर ददतां वर भूतम एतत परं लॊके बराह्मणा नाम भारत ॥ 22 ॥

  23. मनुना चापि राजेन्द्र गीतौ शलॊकौ महात्मना धर्मेषु सवेषु कौरव्य हृदि तौ कर्तुम अर्हसि ॥ 23 ॥

  24. अद्भ्यॊ ऽगनिर बरह्मतः कषत्रम अश्मनॊ लॊहम उत्थितम तेषां सर्वत्र गं तेजः सवासु यॊनिषु शाम्यति ॥ 24 ॥

  25. अयॊ हन्ति यदाश्मानम अग्निश चापॊ ऽभिपद्यते बरह्म च कषत्रियॊ दवेष्टि तदा सीदन्ति ते तरयः ॥ 25 ॥

  26. एतज जञात्वा महाराज नमस्या एव ते दविजाः भौमं बरह्म दविजश्रेष्ठा धारयन्ति शमान्विताः ॥ 26 ॥

  27. एवं चैव नरव्याघ्र लॊकतन्त्र विघातकाः निग्राह्या एव सततं बाहुभ्यां ये सयुर ईदृशाः ॥ 27 ॥

  28. शलॊकौ चॊशनसा गीतौ पुरा तात महर्षिणा तौ निबॊध महाप्राज्ञ तवम एकाग्रमना नृप ॥ 28 ॥

  29. उद्यम्य शस्त्रमायान्तम अपि वेदान्तगं रणे निगृह्णीयात सवधर्मेण धर्मापेक्षी नरेश्वरः ॥ 29 ॥

  30. विनश्यमानं धर्मं हि यॊ रक्षति स धर्मवित न तेन भरूण हा स सयान मन्युस तं मनुम ऋच्छति ॥ 30 ॥

  31. एवं चैव नरश्रेष्ठ रक्ष्या एव दविजातयः सवपराधान अपि हि तान विषयान्ते समुत्सृजेत ॥ 31 ॥

  32. अभिशस्तम अपि हय एषां कृपायीत विशां पते बरह्मघ्ने गुरु तल्पे च भरूणहत्ये तथैव च ॥ 32 ॥

  33. राजद्वेष्टे च विप्रस्य विषयान्ते विसर्जनम विधीयते न शारीरं भयम एषां कदा चन ॥ 33 ॥

  34. दयिताश च नरास ते सयुर नित्यं पुरुषसत्तम न कॊशः परमॊ हय अन्यॊ राज्ञां पुरुषसंचयात ॥ 34 ॥

  35. दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम ॥ 35 ॥

  36. तस्मान नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता धर्मात्मा सत्यवाक चैव राजा रञ्जयति परजाः ॥ 36 ॥

  37. न च कषान्तेन ते भाव्यं नित्यं पुरुषसत्तम अधर्म्यॊ हि मृदू राजा कषमा वान इव कुञ्जरः ॥ 37 ॥

  38. बार्हस्पत्ये च शास्त्रे वै शलॊका विनियताः पुरा अस्मिन्न अर्थे महाराज तन मे निगदतः शृणु ॥ 38 ॥

  39. कषममाणं नृपं नित्यं नीचः परिभवेज जनः हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥ 39 ॥

  40. तस्मान नैव मृदुर नित्यं तीक्ष्णॊ वापि भवेन नृपः वसन्ते ऽरक इव शरीमान न शीतॊ न च घर्मदः ॥ 40 ॥

  41. परत्यक्षेणानुमानेन तथौपम्यॊपदेशतः परीक्ष्यास ते महाराज सवे परे चैव सर्वदा ॥ 41 ॥

  42. वयसनानि च सर्वाणि तयजेथा भूरिदक्षिण न चैव न परयुञ्जीत सङ्गं तु परिवर्जयेत ॥ 42 ॥

  43. नित्यं हि वयसनी लॊके परिभूतॊ भवत्य उत उद्वेजयति लॊकं चाप्य अति दवेषी महीपतिः ॥ 43 ॥

  44. भवितव्यं सदा राज्ञा गर्भिणी सहधर्मिणा कारणं च महाराज शृणु येनेदम इष्यते ॥ 44 ॥

  45. यथा हि गर्भिणी हित्वा सवं परियं मनसॊ ऽनुगम गर्भस्य हितम आधत्ते तथा राज्ञाप्य असंशयम ॥ 45 ॥

  46. वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना सवं परियं समभित्यज्य यद यल लॊकहितं भवेत ॥ 46 ॥

  47. न संत्याज्यं च ते धैर्यं कदा चिद अपि पाण्डव धीरस्य सपष्ट दण्डस्य न हय आज्ञा परतिहन्यते ॥ 47 ॥

  48. परिहासश च भृत्यैस ते न नित्यं वदतां वर कर्तव्यॊ राजशार्दूल दॊषम अत्र हि मे शृणु ॥ 48 ॥

  49. अवमन्यन्ति भर्तारं संहर्षाद उपजीविनः सवे सथाने न च तिष्ठन्ति लङ्घयन्ति हि तद वचः ॥ 49 ॥

  50. परेष्यमाणा विकल्पन्ते गुह्यं चाप्य अनुयुञ्जते अयाच्यं चैव याचन्ते ऽभॊज्यान्य आहारयन्ति च ॥ 50 ॥

  51. करुध्यन्ति परिदीप्यन्ति भीमम अध्यासते ऽसय च उत्कॊचैर वञ्चनाभिश च कार्याण्य अनुविहन्ति च ॥ 51 ॥

  52. जर्जरं चास्य विषयं कुर्वन्ति परतिरूपकैः सत्रीर अक्षिभिश च सज्जन्ते तुल्यवेषा भवन्ति च ॥ 52 ॥

  53. वातं षष्ठीवनं चैव कुर्वते चास्य संनिधौ निर्लज्जा नरशार्दूल वयाहरन्ति च तद वचः ॥ 53 ॥

  54. हयं वा दन्तिनं वापि रथं नृपतिसंमतम अधिरॊहन्त्य अनादृत्य हर्षुले पार्थिवे मृदौ ॥ 54 ॥

  55. इदं ते दुष्करं राजन्न इदं ते दुर्विचेष्टितम इत्य एवं सुहृदॊ नाम बरुवन्ति परिषद्गताः ॥ 55 ॥

  56. करुद्धे चास्मिन हसन्त्य एव न च हृष्यन्ति पूजिताः संघर्षशीलाश च सदा भवन्त्य अन्यॊन्यकारणात ॥ 56 ॥

  57. विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम लीलया चैव कुर्वन्ति सावज्ञास तस्य शासनम अलं करण भॊज्यं च तथा सनानानुलेपनम ॥ 57 ॥

  58. हेलमाना नरव्याघ्र सवस्थास तस्यॊपषृण्वते निन्दन्ति सवान अधीकारान संत्यजन्ति च भारत ॥ 58 ॥

  59. न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च करीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा अस्मत परणेयॊ राजेति लॊके चैव वदन्त्य उत ॥ 59 ॥

  60. एते चैवापरे चैव दॊषाः परादुर्भवन्त्य उत नृपतौ मार्दवॊपेते हर्षुले च युधिष्ठिर ॥ 60 ॥

Reach this point to mark the section finished.

Continue to अध्याय 57

Previous: अध्याय 55