धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 53

  1. [वैषम्पायन] ततः परविश्य भवनं परसुप्तॊ मधुसूदनः याममात्रावशेषायां यामिन्यां परत्यबुध्यत ॥ 1 ॥

  2. स धयानपथम आश्रित्य सर्वज्ञानानि माधवः अवलॊक्य ततः पश्चाद दध्यौ बरह्म सनातनम ॥ 2 ॥

  3. ततः शरुतिपुराण जञाः शिक्षिता रक्तकण्ठिनः अस्तुवन विश्वकर्माणं वासुदेवं परजापतिम ॥ 3 ॥

  4. पठन्ति पाणिस्वनिकास तथा गायन्ति गायनाः शङ्खानक मृदङ्गांश च परवाद्यन्त सहस्रशः ॥ 4 ॥

  5. वीणा पणववेणूनां सवनश चाति मनॊरमः परहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥ 5 ॥

  6. तथा युधिष्ठिरस्यापि राज्ञॊ मङ्गलसंहिताः उच्चेरुर मधुरा वाचॊ गीतवादित्रसंहिताः ॥ 6 ॥

  7. तत उत्थाय दाशार्हः सनातः पराञ्जलिर अच्युतः जप्त्वा गुह्यं महाबाहुर अग्नीन आश्रित्य तस्थिवान ॥ 7 ॥

  8. ततः सहस्रविप्राणां चतुर्वेद विदां तथा गवां सहस्रेणैकैकं वाचयाम आस माधवः ॥ 8 ॥

  9. मङ्गलालम्भनं कृत्वा आत्मानम अवलॊक्य च आदर्शे विमले कृष्णस ततः सात्यकिम अब्रवीत ॥ 9 ॥

  10. गच्छ शैनेय जानीहि गत्वा राजनिवेशनम अपि सज्जॊ महातेजा भीष्मं दरष्टुं युथिष्ठिरः ॥ 10 ॥

  11. ततः कृष्णस्य वचनात सात्यकिस तवरितॊ ययौ उपगम्य च राजानं युधिष्ठिरम उवाच ह ॥ 11 ॥

  12. युक्तॊ रथवरॊ राजन वासुदेवस्य धीमतः समीपम आपगेयस्य परयास्यति जनार्दनः ॥ 12 ॥

  13. भवत परतीक्षः कृष्णॊ ऽसौ धर्मराज महाद्युते यद अत्रानन्तरं कृत्यं तद भवान कर्तुम अर्हति ॥ 13 ॥

  14. [युधिस्ठिर] युज्यतां मे रथवरः फल्गुनाप्रतिम दयुते न सैनिकैश च यातव्यं यास्यामॊ वयम एव हि ॥ 14 ॥

  15. न च पीडयितव्यॊ मे भीष्मॊ धर्मभृतां वरः अतः पुरःसराश चापि निवर्तन्तु धनंजय ॥ 15 ॥

  16. अद्य परभृति गाङ्गेयः परं गुह्यं परवक्ष्यति ततॊ नेच्छामि कौन्तेय पृथग्जनसमागमम ॥ 16 ॥

  17. [वैषम्पायन] तद वाक्यम आकर्ण्य तथा कुन्तीपुत्रॊ धनंजयः युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥ 17 ॥

  18. ततॊ युधिष्ठिरॊ राजा यमौ भीमार्जुनाव अपि भूतानीव समस्तानि ययुः कृष्ण निवेशनम ॥ 18 ॥

  19. आगच्छत्स्व अथ कृष्णॊ ऽपि पाण्डवेषु महात्मसु शैनेय सहितॊ धीमान रथम एवान्वपद्यत ॥ 19 ॥

  20. रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम मेघघॊषै रथवरैः परययुस ते महारथाः ॥ 20 ॥

  21. मेघपुष्पं बलाहं च सैन्यं सुग्रीवम एव च दारुकश चॊदयाम आस वासुदेवस्य वाजिनः ॥ 21 ॥

  22. ते हया वासुदेवस्य दारुकेण परचॊदिताः गां खुराग्रैस तथा राजँल लिखन्तः परययुस तदा ॥ 22 ॥

  23. ते गरसन्त इवाकाशं वेगवन्तॊ महाबलाः कषेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रम अवातरन ॥ 23 ॥

  24. ततॊ ययुर यत्र भीष्मः शरतल्पगतः परभुः आस्ते बरह्मर्षिभिः सार्धं बरह्मा देवगणैर यथा ॥ 24 ॥

  25. ततॊ ऽवतीर्य गॊविन्दॊ रथात स च युधिष्ठिरः भीमॊ गाण्डीवधन्वा च यमौ सात्यकिर एव च ऋषीन अभ्यर्चयाम आसुः करान उद्यम्य दक्षिणान ॥ 25 ॥

  26. स तैः परिवृतॊ राजा नक्षत्रैर इव चन्द्रमाः अभ्याजगाम गाङ्गेयं बरह्माणम इव वासवः ॥ 26 ॥

  27. शरतल्पे शयानं तम आदित्यं पतितं यथा ददर्श स महाबाहुर भयाद आगतसाध्वसः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 54

Previous: अध्याय 52