धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 52

  1. [वैषम्पायन] ततः कृष्णस्य तद वाक्यं धर्मार्थसहितं हितम शरुत्वा शांतनवॊ भीष्मः परत्युवाच कृताञ्जलिः ॥ 1 ॥

  2. लॊकनाथ महाबाहॊ शिव नारायणाच्युत तव वाक्यम अभिश्रुत्य हर्षेणास्मि परिप्लुतः ॥ 2 ॥

  3. किं चाहम अभिधास्यामि वाक पते तव संनिधौ यदा वाचॊ गतं सर्वं तव वाचि समाहितम ॥ 3 ॥

  4. यद धि किं चित कृतं लॊके कर्तव्यं करियते च यत तवत्तस तन निःसृतं देवलॊका बुद्धिमया हि ते ॥ 4 ॥

  5. कथयेद देवलॊकं यॊ देवराजसमीपतः धर्मकामार्थ शास्त्राणां सॊ ऽरथान बरूयात तवाग्रतः ॥ 5 ॥

  6. शराभिघाताद वयथितं मनॊ मे मधुसूदन गात्राणि चावसीदन्ति न च बुद्धिः परसीदति ॥ 6 ॥

  7. न च मे परतिभा का चिद अस्ति किं चित परभाषितुम पीड्यमानस्य गॊविन्द विषानल समैः शरैः ॥ 7 ॥

  8. बलं मेधाः परजरति पराणाः संत्वरयन्ति च मर्माणि परितप्यन्ते भरान्तं चेतस तथैव च ॥ 8 ॥

  9. दौर्बाल्यात सज्जते वान मे स कथं वक्तुम उत्सहे साधु मे तवं परसीदस्व दाशार्ह कुलनन्दन ॥ 9 ॥

  10. तत्क्षमस्व महाबाहॊ न बरूयां किं चिद अच्युत तवत्संनिधौ चसीदेत वाचः पतिर अपि बरुवन ॥ 10 ॥

  11. न दिशः संप्रजानामि नाकाशं न च मेदिनीम केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥ 11 ॥

  12. सवयम एव परभॊ तस्माद धर्मराजस्य यद धितम तद बरवीह्य आशु सर्वेषाम आगमानां तवम आगमः ॥ 12 ॥

  13. कथं तवयि सथिते लॊके शाश्वते लॊककर्तरि परब्रूयान मद्विधः कश चिद गुरौ शिष्य इव सथिते ॥ 13 ॥

  14. [वासुदेव] उपपन्नम इदं वाक्यं कौरवाणां धुरंधरे महावीर्ये महासत्त्वे सथिते सर्वार्थदर्शिनि ॥ 14 ॥

  15. यच च माम आत्थ गाङ्गेय बाणघात रुजं परति गृहाणात्र वरं भीष्म मत्प्रसाद कृतं विभॊ ॥ 15 ॥

  16. न ते गलानिर न ते मूर्छा न दाहॊ न च ते रुजा परभविष्यन्ति गाङ्गेय कषुत्पिपासे न चाप्य उत ॥ 16 ॥

  17. जञानानि च समग्राणि परतिभास्यन्ति ते ऽनघ न च ते कव चिद आसक्तिर बुद्धेः परादुर्भविष्यति ॥ 17 ॥

  18. सत्त्वस्थं च मनॊ नित्यं तव भीष्म भविष्यति रजस तमॊभ्यां रहितं घनैर मुक्त इवॊदु राट ॥ 18 ॥

  19. यद यच च धर्मसंयुक्तम अर्थयुक्तम अथापि वा चिन्तयिष्यसि तत्राग्र्या बुद्धिस तव भविष्यति ॥ 19 ॥

  20. इमं च राजशार्दूल भूतग्रामं चतुर्विधम चक्षुर दिव्यं समाश्रित्य दरक्ष्यस्य अमितविक्रम ॥ 20 ॥

  21. चतुर्विधं परजा जालं संयुक्तॊ जञानचक्षुषा भीष्म दरक्ष्यसि तत्त्वेन जले मीन इवामले ॥ 21 ॥

  22. [वैषम्पायन] ततस ते वयास सहिताः सर्व एव महर्षयः ऋग यजुः साम संयुक्तैर वचॊभिः कृष्णम अर्चयन ॥ 22 ॥

  23. ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात पपात यत्र वार्ष्णेयः स गाङ्गेयः स पाण्डवः ॥ 23 ॥

  24. वादित्राणि च दिव्यानि जगुश चाप्सरसां गणाः न चाहितम अनिष्टं वा किं चित तत्र वयदृश्यत ॥ 24 ॥

  25. ववौ शिवः सुखॊ वायुः सर्वगन्धवहः शुचिः शान्तायां दिशि शान्ताश च परावदन मृगपक्षिणः ॥ 25 ॥

  26. ततॊ मुहूर्ताद भगवान सहस्रांशुर दिवाकरः दहन वनम इवैकान्ते परतीच्यां परत्यदृश्यत ॥ 26 ॥

  27. ततॊ महर्षयः सर्वे समुत्थाय जनार्दनम भीष्मम आमन्त्रयां चक्रू राजानं चयुधिष्ठिरम ॥ 27 ॥

  28. ततः परणामम अकरॊत केशवः पाण्डवस तथा सात्यकिः संजयश चैव स च शारद्वतः कृपः ॥ 28 ॥

  29. ततस ते धर्मनिरताः सम्यक तैर अभिपूजिताः शवः समेष्याम इत्य उक्त्वा यथेष्टं तवरिता ययुः ॥ 29 ॥

  30. तथैवामन्त्र्य गाङ्गेयं केशवस ते च पाण्डवाः परदक्षिणम उपावृत्य रथान आरुरुहुः शुभान ॥ 30 ॥

  31. ततॊ रथैः काञ्चनदन्त कूबरैर; महीधराभैः स मदैश च दन्तिभिः हयैः सुपर्णैर इव चाशुगामिभिः; पदातिभिश चात्त शरासनादिभिः ॥ 31 ॥

  32. ययौ रथानां पुरतॊ हि सा चमूस; तथैव पश्चाद अति मात्रसारिणी पुरश च पश्चाच च यथा महानदी; पुरर्क्ष वन्तं गिरिम एत्य नर्मदा ॥ 32 ॥

  33. ततः पुरस्ताद भगवान निशाकरः; समुत्थितस ताम अभिहर्षयंश चमूम दिवाकरापीत रसास तथौषधीः; पुनः सवकेनैव गुणेन यॊजयन ॥ 33 ॥

  34. ततः पुरं सुरपुरसंनिभ दयुति; परविश्य ते यदुवृषपाण्डवास तदा यथॊचितान भवनवरान समाविशञ; शरमान्विता मृगपतयॊ गुहा इव ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51