[नारद] कर्णस तु समवाप्यैतद अस्त्रं भार्गवनन्दनात दुर्यॊधनेन सहितॊ मुमुदे भरतर्षभ ॥ 1 ॥
ततः कदा चिद राजानः समाजग्मुः सवयंवरे कलिङ्ग विषये राजन राज्ञश चित्राङ्गदस्य च ॥ 2 ॥
शरीमद्राजपुरं नाम नगरं तत्र भारत राजानः शतशस तत्र कन्यार्थं समुपागमन ॥ 3 ॥
शुत्वा दुर्यॊधनस तत्र समेतान सर्वपार्थिवान रथेन काञ्चनाङ्गेन कर्णेन सहितॊ ययौ ॥ 4 ॥
ततः सवयंवरे तस्मिन संप्रवृत्ते महॊत्सवे समापेतुर नृपतयः कन्यार्थे नृपसत्तम ॥ 5 ॥
शिशुपालॊ जरासंधॊ भीष्मकॊ वक्र एव च कपॊत रॊमा नीलश च रुक्मी च दृढविक्रमः ॥ 6 ॥
सृगालश च महाराज सत्री राज्याधिपतिश च यः अशॊकः शतधन्वा च भॊजॊ वीरश च नामतः ॥ 7 ॥
एते चान्ये च बहवॊ दक्षिणां दिशम आश्रिताः मलेच्छाचार्याश च राजानः पराच्यॊदीच्यश च भारत ॥ 8 ॥
काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनद सरजः सर्वे भास्वरदेहाश च वयाघ्रा इव मदॊत्कटाः ॥ 9 ॥
ततः समुपविष्टेषु तेषु राजसु भारत विवेश रङ्गं सा कन्या धात्री वर्षधरान्विता ॥ 10 ॥
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत अत्यक्रामद धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ 11 ॥
दुर्यॊधनस तु कौरव्यॊ नामर्षयत लङ्घनम परत्यषेधच च तां कन्याम असत्कृत्य नराधिपान ॥ 12 ॥
स वीर्यमदमत्तत्वाद भीष्मद्रॊणाव उपाश्रितः रथम आरॊप्य तां कन्याम आजुहाव नराधिपान ॥ 13 ॥
तम अन्वयाद रथी खड्गी भद्ध गॊधाङ्गुलित्रवान कर्णः शस्त भृतां शरेष्ठः पृष्ठतः पुरुषर्षभ ॥ 14 ॥
ततॊ विमर्दः सुमहान राज्ञाम आसीद युधिष्ठिरः संनह्यतां तनुत्राणि रथान यॊजयताम अपि ॥ 15 ॥
ते ऽभयधावन्त संक्रुद्धाः कर्णदुर्यॊधनाव उभौ शरवर्षाणि मुञ्चन्तॊ मेघाः पर्वतयॊर इव ॥ 16 ॥
कर्णस तेषाम आपतताम एकैकेन कषुरेण ह धनूंषि स शरावापान्य अपातयत भूतले ॥ 17 ॥
ततॊ विधनुषः कांश चित कांश चिद उद्यतकार्मुकान कांश चिद उद्वहतॊ बाणान रथशक्ति गदास तथा ॥ 18 ॥
लाघवाद आकुली कृत्यकर्णः परहरतां वरः हतसूतांश च भूयिष्ठान अवजिग्ये नराधिपान ॥ 19 ॥
ते सवयं तवरयन्तॊ ऽशवान याहि याहीति वादिनः वयपेयुस ते रणं हित्वा राजानॊ भग्नमानसाः ॥ 20 ॥
दुर्यॊधनस तु कर्णेन पाल्यमानॊ ऽभययात तदा हृष्टः कन्याम उपादाय नरगं नागसाह्वयम ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5