[वासुदेव] शृणु कौन्तेय रामस्य मया यावत परिश्रुतम महर्षीणां कथयतां कारणं तस्य जन्म च ॥ 1 ॥
यथा च जामदग्न्येन कॊटिशः कषत्रिया हताः उद्भूता राजवंशेषु ये भूयॊ भारते हताः ॥ 2 ॥
जह्नॊर अजह्नुस तनयॊ बल्लवस तस्य चात्मजः कुशिकॊ नाम धर्मज्ञस तस्य पुत्रॊ महीपतिः ॥ 3 ॥
उग्रं तपः समातिष्ठत सहस्राक्षसमॊ भुवि पुत्रं लभेयम अजितं तरिलॊकेश्वरम इत्य उत ॥ 4 ॥
तम उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः समर्थः पुत्र जनने सवयम एवैत्य भारत ॥ 5 ॥
पुत्रत्वम अगमद राजंस तस्य लॊकेश्वरेश्वरः गाधिर नामाभवत पुत्रः कौशिकः पाकशासनः ॥ 6 ॥
तस्य कन्याभवद राजन नाम्ना सत्यवती परभॊ तां गाधिः कवि पुत्राय स ऋचीकाय ददौ परभुः ॥ 7 ॥
ततः परीतस तु कौन्तेय भार्गवः कुरुनन्दन पुत्रार्थे शरपयाम आस चरुं गाधेस तथैव च ॥ 8 ॥
आहूय चाह तां भार्याम ऋचीकॊ भार्गवस तदा उपयॊज्यश चरुर अयं तवया मात्राप्य अयं तव ॥ 9 ॥
तस्या जनिष्यते पुत्रॊ दीप्तिमान कषत्रियर्षभः अजय्यः कषत्रियैर लॊके कषत्रियर्षभ सूदनः ॥ 10 ॥
तवापि पुत्रं कल्याणि धृतिमन्तं तपॊऽनवितम शमात्मकं दविजश्रेष्ठं चरुर एष विधास्यति ॥ 11 ॥
इत्य एवम उक्त्वा तां भार्याम ऋचीकॊ भृगुनन्दनः तपस्य अभिरतॊ धीमाञ जगामारण्यम एव ह ॥ 12 ॥
एतस्मिन्न एव काले तु तीर्थयात्रा परॊ नृपः गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं परति ॥ 13 ॥
चरुद्वयं गृहीत्वा तु राजन सत्यवती तदा भर्तुर वाक्याद अथाव्यग्रा मात्रे हृष्टा नयवेदयत ॥ 14 ॥
माता तु तस्याः कौन्तेय दुहित्रे सवं चरुं ददौ तस्याश चरुम अथाज्ञातम आत्मसंस्थं चकार ह ॥ 15 ॥
अथ सत्यवती गर्भं कषत्रियान्तकरं तदा धारयाम आस दीप्तेन वपुषा घॊरदर्शनम ॥ 16 ॥
ताम ऋचीकस तदा दृष्ट्वा धयानयॊगेन वै ततः अब्रवीद राजशार्दूल सवां भार्यां वरवर्णिनीम ॥ 17 ॥
मात्रासि वयंसिता भद्रे चरुव्यत्यास हेतुना जनिष्यते हि ते पुत्रः करूरकर्मा महाबलः ॥ 18 ॥
जनिष्यते हि ते भराता बरह्मभूतस तपॊधनः विश्वं हि बरह्म तपसा मया तत्र समर्पितम ॥ 19 ॥
सैवम उक्ता महाभागा भर्त्रा सत्यवती तदा पपात शिरसा तस्मै वेपन्ती चाब्रवीद इदम ॥ 20 ॥
नार्हॊ ऽसि भगवन्न अद्य वक्तुम एवंविधं वचः बराह्मणापसदं पुत्रं पराप्स्यसीति महामुने ॥ 21 ॥
[रचीक] नैष संकल्पितः कामॊ मया भद्रे तथा तवयि उग्रकर्मा भवेत पुत्रश चरुर माता च कारणम ॥ 22 ॥
[सव्यवती] इच्छँल लॊकान अपि मुने सृजेथाः किं पुनर मम शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर ॥ 23 ॥
[रचीक] नॊक्तपूर्वं मया भद्रे सवैरेष्व अप्य अनृतं वचः किम उताग्निं समाधाय मन्त्रवच चरुसाधने ॥ 24 ॥
[सत्यवती] कामम एवं भवेत पौत्रॊ ममेह तव चैव ह शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर ॥ 25 ॥
[रचीक] पुत्रे नास्ति विशेषॊ मे पौत्रे वा वरवर्णिनि यथा तवयॊक्तं तु वचस तथा भद्रे भविष्यति ॥ 26 ॥
[वासुदेव] ततः सत्यवती पुत्रं जनयाम आस भार्गवम तपस्य अभिरतं शान्तं जमदग्निं शमात्मकम ॥ 27 ॥
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः पराप बरह्मर्षिसमितं विश्वेन बरह्मणा युतम ॥ 28 ॥
आर्चीकॊ जनयाम आस जमदग्निं सुदारुणम सव्र विद्यान्त गं शरेष्ठं धनुर्वेदे च पारगम रामं कषत्रिय हन्तारं परदीप्तम इव पावकम ॥ 29 ॥
एतस्मिन्न एव काले तु कृतवीर्यात्म जॊ बली अर्जुनॊ नाम तेजस्वी कषत्रियॊ हैहयान्वयः ॥ 30 ॥
ददाह पृथिवीं सर्वां सप्त दवीपां स पत्तनाम सवबाह्वस्त्रबलैनाजौ धर्मेण परमेण च ॥ 31 ॥
तृषितेन स कौरव्य भिक्षितश चित्रभानुना सहस्रबाहुर विक्रान्तः परादाद भिक्षाम अथाग्नये ॥ 32 ॥
गरामान पुराणि घॊषांश च पत्तनानि च वीर्यवान जज्वाल तस्य बाणैस तु चित्रभानुर दिधक्षया ॥ 33 ॥
स तस्य पुरुषेन्द्रस्य परभावेन महातपाः ददाह कार्तवीर्यस्य शैलान अथ वनानि च ॥ 34 ॥
स शून्यम आश्रमारण्यं वरुणस्यात्म जस्य तत ददाह पवनेनेद्धश चित्रभानुः स हैहयः ॥ 35 ॥
आपवस तं ततॊ रॊषाच छशापार्जुनम अच्युत दग्धे ऽऽशरमे महाराज कार्तवीर्येण वीर्यवान ॥ 36 ॥
तवया न वर्जितं मॊहाद यस्माद वनम इदं मम दग्धं तस्माद रणे रामॊ बाहूंस ते छेत्स्यते ऽरजुन ॥ 37 ॥
अर्जुनस तु महाराज बली नित्यं शमात्मकः बरह्मण्यश च शरण्यश च दाता शूरश च भारत ॥ 38 ॥
तस्य पुत्राः सुबलिनः शापेनासन पितुर वधे निमित्तम अवलिप्ता वै नृशंसाश चैव नित्यदा ॥ 39 ॥
जमदग्निधेन्वास ते वत्सम आनिन्युर भरतर्षभ अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥ 40 ॥
ततॊ ऽरजुनस्य बाहूंस तु छित्त्वा वै पौरुषान्वितः तं रुवन्तं ततॊ वत्सं जामदग्न्यः सवम आश्रमम परत्यानयत राजेन्द्र तेषाम अन्तःपुरात परभुः ॥ 41 ॥
अर्जुनस्य सुतास ते तु संभूयाबुद्धयस तदा गत्वाश्रमम असंबुद्धं जमदग्नेर महात्मनः ॥ 42 ॥
अपातयन्त भल्लाग्रैः शिरः कायान नराधिप समित कुशार्थं रामस्य निर्गतस्य महात्मनः ॥ 43 ॥
ततः पितृवधामर्षाद रामः परममन्युमान निःक्षत्रियां परतिश्रुत्य महीं शस्त्रम अगृह्णत ॥ 44 ॥
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान विक्रम्य निजघानाशु पुत्रान पौत्रांश च सर्वशः ॥ 45 ॥
स हैहय सहस्राणि हत्वा परममन्युमान चकार भार्गवॊ राजन महीं शॊणितकर्दमाम ॥ 46 ॥
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम कृपया परयाविष्टॊ वनम एव जगाम ह ॥ 47 ॥
ततॊ वर्षसहस्रेषु समतीतेषु केषु चित कषॊभं संप्राप्तवांस तीव्रं परकृत्या कॊपनः परभुः ॥ 48 ॥
विश्वामितस्य पौत्रस तु रैभ्य पुत्रॊ महातपाः परावसुर महाराज कषिप्त्वाह जनसंसदि ॥ 49 ॥
ये ते ययाति पतने यज्ञे सन्तः समागताः परतर्दनप्रभृतयॊ राम किं कषत्रिया न ते ॥ 50 ॥
मिथ्याप्रतिज्ञॊ राम तवं कत्थसे जनसंसदि भयात कषत्रिय वीराणां पर्वतं समुपाश्रितः ॥ 51 ॥
स पुनः कषत्रिय शतैः पृथिवीम अनुसंतताम परावसॊस तदा शरुत्वा शस्त्रं जग्राह भार्गवः ॥ 52 ॥
ततॊ ये कषत्रिया राजञ शतशस तेन जीविताः ते विवृद्धा महावीर्याः पृथिवीपतयॊ ऽभवन ॥ 53 ॥
स पुनस ताञ जघानाशु बालान अपि नराधिप गर्भस्थैस तु मही वयाप्ता पुनर एवाभवत तदा ॥ 54 ॥
जातं जातं स गर्भं तु पुनर एव जघान ह अरक्षंश च सुतान कांश चित तदा कषत्रिय यॊषितः ॥ 55 ॥
तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां परभुः दक्षिणाम अश्वमेधान्ते कश्यपायाददत ततः ॥ 56 ॥
कषत्रियाणां तु शेषार्थं करेणॊद्दिश्य कश्यपः सरुक परग्रह वता राजञ शरीमान वाक्यम अथाब्रवीत ॥ 57 ॥
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने न ते मद्विषये राम वस्तव्यम इह कर्हि चित ॥ 58 ॥
ततः शूर्पारकं देशं सागरस तस्य निर्ममे संत्रासाज जामदग्न्यस्य सॊ ऽपरान्तं महीतलम ॥ 59 ॥
कश्यपस तु महाराज परतिगृह्य महीम इमाम कृत्वा बराह्मण संस्थां वै परविवेश महावनम ॥ 60 ॥
ततः शूद्राश च वैश्याश च यथा सवैर अप्रचारिणः अवर्तन्त दविजाग्र्याणां दारेषु भरतर्षभ ॥ 61 ॥
अराजके जीवलॊके दुर्बला बलवत्तरैः बाध्यन्ते न च वित्तेषु परभुत्वम इह कस्य चित ॥ 62 ॥
ततः कालेन पृथिवी परविवेश रसातलम अरक्ष्यमाणा विधिवत कषत्रियैर धर्मरक्षिभिः ॥ 63 ॥
ऊरुणा धारयाम आस कश्यपः पृथिवीं ततः निमज्जन्तीं तदा राजंस तेनॊर्वीति मही समृता ॥ 64 ॥
रक्षिणश च समुद्दिश्य परायाचत पृथिवी तदा परसाद्य कश्यपं देवी कषत्रियान बाहुशालिनः ॥ 65 ॥
सन्ति बरह्मन मया गुप्ता नृषु कषत्रिय पुंगवाः हैहयानां कुले जातास ते संरक्षन्तु मां मुने ॥ 66 ॥
अस्ति पौरव दायादॊ विडूरथ सुतः परभॊ ऋक्षैः संवर्धितॊ विप्र ऋक्षवत्य एव पर्वते ॥ 67 ॥
तथानुकम्पमानेन यज्वनाथामितौजसा पराशरेण दायादः सौदासस्याभिरक्षितः ॥ 68 ॥
सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद धि सः सर्वकर्मेत्य अभिख्यातः स मां रक्षतु पार्थिव ॥ 69 ॥
शिबेः पुत्रॊ महातेजा गॊपतिर नाम नामतः वने संरक्षितॊ गॊभिः सॊ ऽभिरक्षतु मां मुने ॥ 70 ॥
परतर्दनस्य पुत्रस तु वत्सॊ नाम महायशाः वत्सैः संवर्धितॊ गॊष्ठे स मां रक्षतु पार्थिवः ॥ 71 ॥
दधि वाहन पौत्रस तु पुत्रॊ दिवि रथस्य ह अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः ॥ 72 ॥
बृहद्रथॊ महाबाहुर भुवि भूतिपुरस्कृतः गॊलाङ्गूलैर महाभागॊ गृध्रकूटे ऽभिरक्षितः ॥ 73 ॥
मरुत्तस्यान्ववाये तु कषत्रियास तुर्वसॊस तरयः मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥ 74 ॥
एते कषत्रिय दायादास तत्र तत्र परिश्रुताः सम्यङ माम अभिरक्षन्तु ततः सथास्यामि निश्चला ॥ 75 ॥
एतेषां पितरश चैव तथैव च पितामहाः मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ॥ 76 ॥
तेषाम अपचितिश चैव मया कार्या न संशयः न हय अहं कामये नित्यम अविक्रान्तेन रक्षणम ॥ 77 ॥
ततः पृथिव्या निर्दिष्टांस तान समानीय कश्यपः अभ्यषिञ्चन महीपालान कषत्रियान वीर्यसंमतान ॥ 78 ॥
तेषां पुत्राश च पौत्राश च येषां वंशाः परतिष्ठिताः एवम एतत पुरावृत्तं यन मां पृच्छसि पाण्डव ॥ 79 ॥
[व] एवं बरुवन्न एव यदुप्रविरॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम रथेन तेनाशु ययौ यथार्कॊ; विशन परभाभिर भगवांस तरिलॊकम ॥ 80 ॥
शान्तिपर्व · Shanti Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50