[वैषम्पायन] ततः स च हृषीकेशः स च राजा युधिष्ठिरः कृपादयश च ते सर्वे चत्वारः पाण्डवाश च ह ॥ 1 ॥
रथैस ते नगराकारैः पताकाध्वजशॊभितैः ययुर आशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥ 2 ॥
ते ऽवतीर्य कुरुक्षेत्रं केशमज्जास्थि संकुलम देहन्यासः कृतॊ यत्र कषत्रियैस तैर महात्मभिः ॥ 3 ॥
गजाश्वदेहास्थि चयैः पर्वतैर इव संचितम नरशीर्ष कपालैश च शङ्खैर इव समाचितम ॥ 4 ॥
चिता सहस्रैर निचितं वर्म शस्त्रसमाकुलम आपानभूमिं कालस्य तदा भुक्तॊज्झिताम इव ॥ 5 ॥
भूतसंघानुचरितं रक्षॊगणनिषेवितम पश्यन्तस ते कुरुक्षेत्रं ययुर आशु महारथाः ॥ 6 ॥
गच्छन्न एव महाबाहुः सर्वयादवनन्दनः युधिष्ठिराय परॊवाच जामदग्न्यस्य विक्रमम ॥ 7 ॥
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः येषु संतर्पयाम आस पूर्वान कषत्रिय शॊणितैः ॥ 8 ॥
तरिसप्त कृत्वॊ वसुधां कृत्वा निःक्षत्रियां परभुः इहेदानीं ततॊ रामः कर्मणॊ विरराम ह ॥ 9 ॥
[युधिस्थिर] तरिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा रामेणेति यद आत्थ तवम अत्र मे संशयॊ महान ॥ 10 ॥
कषत्रबीजं यदा दग्धं रामेण यदुपुंगव कथं भूयः समुत्पत्तिः कषत्रस्यामित विक्रम ॥ 11 ॥
महात्मना भगवता रामेण यदुपुंगव कथम उत्सादितं कषत्रं कथं वृत्थिं पुनर गतम ॥ 12 ॥
महाभारत युद्धे हि कॊटिशः कषत्रिया हताः तथाभूच च मही कीर्णा कषत्रियैर वदतां वर ॥ 13 ॥
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्य केतन आगमॊ हि परः कृष्ण तवत्तॊ नॊ वासवानुज ॥ 14 ॥
[वैषम्पायन] ततॊ वरजन्न एव गदाग्र जः परभुः; शशंस तस्मै निखिलेन तत्त्वतः युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत कषत्रिय संकुला मही ॥ 15 ॥
शान्तिपर्व · Shanti Parva
अध्याय 48
Reach this point to mark the section finished.
Continue to अध्याय 49