धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 50

  1. [वैषम्पायन] ततॊ रामस्य तत कर्म शरुत्वा राजा युधिष्ठिरः विस्मयं परमं गत्वा परत्युवाच जनार्दनम ॥ 1 ॥

  2. अहॊ रामस्य वार्ष्णेय शक्रस्येव महात्मनः विक्रमॊ येन वसुधा करॊधान निःक्षत्रिया कृता ॥ 2 ॥

  3. गॊभिः समुद्रेण तथा गॊलाङ्गूलर्क्ष वानरैः गुप्ता राम भयॊद्विग्नाः कषत्रियाणां कुलॊद्वहाः ॥ 3 ॥

  4. अहॊ धन्यॊ हि लॊकॊ ऽयं स भाग्याश च नरा भुवि यत्र कर्मेदृशं धर्म्यं दविजेन कृतम अच्युत ॥ 4 ॥

  5. तथा यान्तौ तदा तात ताव अच्युतयुधिष्ठिरौ जग्मतुर यत्र गाङ्गेयः शरतल्पगतः परभुः ॥ 5 ॥

  6. ततस ते ददृशुर भीष्मं शरप्रस्तर शायिनम सवरश्मि जालसंवीतं सायं सूर्यम इवानलम ॥ 6 ॥

  7. उपास्यमानं मुनिभिर देवैर इव शतक्रतुम देशे परमधर्मिष्ठे नदी मॊघवतीम अनु ॥ 7 ॥

  8. दूराद एव तम आलॊक्य कृष्णॊ राजा च धर्मराट चत्वारः पाण्डवाश चैव ते च शारद्वतादयः ॥ 8 ॥

  9. अवस्कन्द्याथ वाहेभ्यः संयम्य परचलं मनः एकीकृत्येन्द्रिय गरामम उपतस्थुर महामुनीन ॥ 9 ॥

  10. अभिवाद्य च गॊविन्दः सात्यकिस ते च कौरवाः वयासादींस तान ऋषीन पश्चाद गाङ्गेयम उपतस्थिरे ॥ 10 ॥

  11. तपॊवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥ 11 ॥

  12. ततॊ निशम्य गाङ्गेयं शाम्यमानम इवानलम किं चिद दीनमना भीष्मम इति हॊवाच केशवः ॥ 12 ॥

  13. कच चिज जञानानि ते राजन परसन्नानि यथा पुरा कच चिद अव्या कुला चैव बुद्धिस ते वदतां वर ॥ 13 ॥

  14. शराभिघातदुः खात ते कच चिद गात्रं न दूयते मानसाद अपि दुःखाद धि शारीरं बलवत तरम ॥ 14 ॥

  15. वरदानात पितुः कामं छन्द मृत्युर असि परभॊ शंतनॊर धर्मशीलस्य न तव एतच छम कारणम ॥ 15 ॥

  16. सुसूक्ष्मॊ ऽपीह देहे वै शल्यॊ जनयते रुजम किं पुनः शरसंघातैश चितस्य तव भारत ॥ 16 ॥

  17. कामं नैतत तवाख्येयं पराणिनां परभवाप्ययौ भवान हय उपदिशेच छरेयॊ देवानाम अपि भारत ॥ 17 ॥

  18. यद धि भूतं भविष्यच च भवच च पुरुषर्षभ सर्वं तज जञानवृद्धस्य तव पाणाव इवाहितम ॥ 18 ॥

  19. संसारश चैव भूतानां धर्मस्य च फलॊदयः विदितस ते महाप्राज्ञ तवं हि बरह्म मयॊ निधिः ॥ 19 ॥

  20. तवां हि राज्ये सथितं सफीते समग्राङ्गम अरॊगिणम सत्रीसहस्रैः परिवृतं पश्यामीहॊर्ध्व रेतसम ॥ 20 ॥

  21. ऋते शांतनवाद भीष्मात तरिषु लॊकेषु पार्थिव सत्यसंधान महावीर्याच छूराद धर्मैक तत्परात ॥ 21 ॥

  22. मृत्युम आवार्य तरसा शरप्रस्तर शायिनः निसर्ग परभवं किं चिन न च तातानुशुश्रुम ॥ 22 ॥

  23. सत्ये तपसि दाने च यज्ञाधिकरणे तथा धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥ 23 ॥

  24. अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम महारथं तवत सदृशं न कं चिद अनुशुश्रुम ॥ 24 ॥

  25. तवं हि देवान स गन्धर्वान स सुरासुरराक्षसान शक्त एकरथेनैव विजेतुं नात्र संशयः ॥ 25 ॥

  26. तवं हि भीष्म महाबाहॊ वसूनां वासवॊपमः नित्यं विप्रैः समाख्यातॊ नवमॊ ऽनवमॊ गुणैः ॥ 26 ॥

  27. अहं हि तवाभिजानामि यस तवं पुरुषसत्तम तरिदशेष्व अपि विख्यातः सवशक्त्या सुमहाबलः ॥ 27 ॥

  28. मनुष्येषु मनुष्येन्द्र न दृष्टॊ न च मे शरुतः भवतॊ यॊ गुणैस तुल्यः पृथिव्यां पुरुषः कव चित ॥ 28 ॥

  29. तवं हि सर्वैर गुणै राजन देवान अप्य अतिरिच्यसे तपसा हि भवाञ शक्तः सरष्टुं लॊकांश चराचरान ॥ 29 ॥

  30. तद अस्य तप्यमानस्य जञातीनां संक्षयेण वै जयेष्ठस्य पाण्डुपुत्रस्य शॊकं भीष्म वयपानुद ॥ 30 ॥

  31. ये हि धर्माः समाख्याताश चातुर्वर्ण्यस्य भारत चातुर आश्रम्य संसृष्टास ते सर्वे विदितास तव ॥ 31 ॥

  32. चातुर वेद्ये च ये परॊक्ताश चातुर हॊत्रे च भारत सांख्ये यॊगे च नियता ये च धर्माः सनातनाः ॥ 32 ॥

  33. चातुर्वर्ण्येन यश चैकॊ धर्मॊ न सम विरुध्यते सेव्यमानः स चैवाद्यॊ गाङ्गेय विदितस तव ॥ 33 ॥

  34. इतिहास पुराणं च कार्त्स्न्येन विदितं तव धर्मशास्त्रं च सकलं नित्यं मनसि ते सथितम ॥ 34 ॥

  35. ये च के चन लॊके ऽसमिन्न अर्थाः संशय कारकाः तेषां छेत्ता नास्ति लॊके तवदन्यः पुरुषर्षभ ॥ 35 ॥

  36. स पाण्डवेयस्य मनः समुत्थितं; नरेन्द्र शॊकं वयपकर्ष मेधया भवद्विधा हय उत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49