[जनमेजय] शरतल्पे शयानस तु भरतानां पितामहः कथम उत्सृष्टवान देहं कं च यॊगम अधारयत ॥ 1 ॥
[वैषम्पायन] शृणुष्वावहितॊ राजञ शुचिर भूत्वा समाहितः भीष्मस्य कुरुशार्दूल देहॊत्सर्गं महात्मनः ॥ 2 ॥
निवृत्तमात्रे तव अयन उत्तरे वै दिवाकरे समावेशयद आत्मानम आत्मन्य एव समाहितः ॥ 3 ॥
विकीर्णांशुर इवादित्यॊ भीष्मः शरशतैश चितः शिश्ये परमया लक्ष्म्या वृतॊ बराह्मणसत्तमैः ॥ 4 ॥
वयासेन वेद शरवसा नारदेन सुरर्षिणा देवस्थानेन वात्स्येन तथाश्मक सुमन्तुना ॥ 5 ॥
एतैश चान्यैर मुनिगणैर महाभागैर महात्मभिः शरद्धा दमपुरस्कारैर वृतश चन्द्र इव गरहैः ॥ 6 ॥
भीष्मस तु पुरुषव्याघ्रः कर्मणा मनसा गिरा शरतल्पगतः कृष्णं परदध्यौ पराञ्जलिः सथितः ॥ 7 ॥
सवरेण पुष्टनादेन तुष्टाव मधुसूदनम यॊगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम ॥ 8 ॥
कृताञ्जलिः शुचिर भूत्वा वाग विदां परवरः परभुम भीष्मः परमधर्मात्मा वासुदेवम अथास्तुवत ॥ 9 ॥
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम तया वयास समासिन्या परीयतां पुरुषॊत्तमः ॥ 10 ॥
शुचिः शुचि षदं हंसं तत्परः परमेष्ठिनम युक्त्वा सर्वात्मनात्मानं तं परपद्ये परजापतिम ॥ 11 ॥
यस्मिन विश्वानि भूतानि तिष्ठन्ति च विशन्ति च गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ 12 ॥
यस्मिन नित्ये तते तन्तौ दृढे सरग इव तिष्ठति सदसद गरथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ 13 ॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम पराहुर नारायणं देवं यं विश्वस्य परायणम ॥ 14 ॥
अणीयसाम अणीयांसं सथविष्ठं च सथवीयसाम गरीयसां गरिष्ठं च शरेष्ठं च शरेयसाम अपि ॥ 15 ॥
यं वाकेष्व अनुवाकेषु निषत्सूपनिषत्सु च गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ 16 ॥
चतुर्भिश चतुरात्मानं सत्त्वस्थं सात्वतां पतिम यं दिव्यैर देवम अर्चन्ति गुह्यैः परमनामभिः ॥ 17 ॥
यं देवं देवकी देवी वसुदेवाद अजीजनत भौमस्य बरह्मणॊ गुप्त्यै दीप्तम अग्निम इवारणिः ॥ 18 ॥
यम अनन्यॊ वयपेताशीर आत्मानं वीतकल्मषम इष्ट्वानन्त्याय गॊविन्दं पश्यत्य आत्मन्य अवस्थितम ॥ 19 ॥
पुराणे पुरुषः परॊक्तॊ बरह्मा परॊक्तॊ युगादिषु कषये संकर्षणः परॊक्तस तम उपास्यम उपास्महे ॥ 20 ॥
अति वाय्विन्द्र कर्माणम अति सूर्याग्नितेजसम अति बुद्धीन्द्रियात्मानं तं परपद्ये परजापतिम ॥ 21 ॥
यं वै विश्वस्य कर्तारं जगतस तस्थुषां पतिम वदन्ति जगतॊ ऽधयक्षम अक्षरं परमं पदम ॥ 22 ॥
हिरण्यवर्णं यं गर्भम अदितिर दैत्य नाशनम एकं दवादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ 23 ॥
शुक्ले देवान पितॄन कृष्णे तर्पयत्य अमृतेन यः यश च राजा दविजातीनां तस्मै सॊमात्मने नमः ॥ 24 ॥
महतस तमसः पारे पुरुषं जवलनद्युतिम यं जञात्वा मृत्युम अत्येति तस्मै जञेयात्मने नमः ॥ 25 ॥
यं बृहन्तं बृहत्य उक्थे यम अग्नौ यं महाध्वरे यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः ॥ 26 ॥
ऋग यजुः साम धामानं दशार्ध हविर आकृतिम यं सप्त तन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ 27 ॥
यः सुपर्णॊ यजुर नाम छन्दॊ गात्रस तरिवृच छिराः रथंतर बृहत्य अक्षस तस्मै सतॊत्रात्मने नमः ॥ 28 ॥
यः सहस्रसवे सत्रे जज्ञे विश्वसृजाम ऋषिः हिरण्यवर्णः शकुनिस तस्मै हंसात्मने नमः ॥ 29 ॥
पदाङ्गं संधिपर्वाणं सवरव्यञ्जन लक्षणम यम आहुर अक्षरं नित्यं तस्मै वाग आत्मने नमः ॥ 30 ॥
यश चिनॊति सतां सेतुम ऋतेनामृत यॊनिना धर्मार्थव्यवहाराङ्गैस तस्मै सत्यात्मने नमः ॥ 31 ॥
यं पृथग धर्मचरणाः पृथग धर्मफलैषिणः पृथग धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ 32 ॥
यं तं वयक्तस्थम अव्यक्तं विचिन्वन्ति महर्षयः कषेत्रे कषेत्रज्ञम आसीनं तस्मै कषेत्रात्मने नमः ॥ 33 ॥
यं दृग आत्मानम आत्मस्थं वृतं षॊडशभिर गुणैः पराहुः सप्त दशं सांख्यास तस्मै सांख्यात्मने नमः ॥ 34 ॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः जयॊतिः पश्यन्ति युञ्जानास तस्मै यॊगात्मने नमः ॥ 35 ॥
अपुण्य पुण्यॊपरमे यं पुनर भव निर्भयाः शान्ताः संन्यासिनॊ यान्ति तस्मै मॊक्षात्मने नमः ॥ 36 ॥
यॊ ऽसौ युगसहस्रान्ते परदीप्तार्चिर विभावसु संभक्षयति भूतानि तस्मै घॊरात्मने नमः ॥ 37 ॥
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत बालः सवपिति यश चैकस तस्मै मायात्मने नमः ॥ 38 ॥
सहस्रशिरसे तस्मै पुरुषायामितात्मने चतुःसमुद्रपर्याय यॊगनिद्रात्मने नमः ॥ 39 ॥
अजस्य नाभाव अध्येकं यस्मिन विश्वं परतिष्ठितम पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ 40 ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु कुक्षौ समुद्राश चत्वारस तस्मै तॊयात्मने नमः ॥ 41 ॥
युगेष्व आवर्तते यॊ ऽंशैर दिनर्त्व अनय हायनैः सर्ग परलययॊः कर्ता तस्मै कालात्मने नमः ॥ 42 ॥
बरह्म वक्त्रं भुजौ कषत्रं कृत्स्नम ऊरूदरं विशः पादौ यस्याश्रिताः शूद्रास तस्मै वर्णात्मने नमः ॥ 43 ॥
यस्याग्निर आस्यं दयौर मूर्धा खं नाभिश चरणौ कषितिः सूर्यश चक्षुर दिशः शरॊत्रे तस्मै लॊकात्मने नमः ॥ 44 ॥
विषये वर्तमानानां यं तं वैशेषिकैर गुणैः पराहुर विषयगॊप्तारं तस्मै गॊप्त्र आत्मने नमः ॥ 45 ॥
अन्नपानेन्धन मयॊ रसप्राणविवर्धनः यॊ धारयति भूतानि तस्मै पराणात्मने नमः ॥ 46 ॥
परः कालात परॊ यज्ञात परः सद असतॊश च यः अनादिर आदिर विश्वस्य तस्मै विश्वात्मने नमः ॥ 47 ॥
यॊ मॊहयति भूतानि सनेहरागानुबन्धनैः सर्गस्य रक्षणार्थाय तस्मै मॊहात्मने नमः ॥ 48 ॥
आत्मज्ञानम इदं जञानं जञात्वा पञ्चस्व अवस्थितम यं जञानिनॊ ऽधिगच्छन्ति तस्मै जञानात्मने नमः ॥ 49 ॥
अप्रमेयशरीराय सर्वतॊ ऽनन्त चक्षुषे अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ॥ 50 ॥
जटिने दडिने नित्यं लम्बॊदर शरीरिणे कमण्डलुनिषङ्गाय तस्मै बरह्मात्मने नमः ॥ 51 ॥
शूलिने तरिदशेशाय तर्यम्बकाय महात्मने भस्म दिग्धॊर्ध्व लिङ्गाय तस्मै रुद्रात्मने नमः ॥ 52 ॥
पञ्च भूतात्मभूताय भूतादि निधनात्मने अक्रॊध दरॊह मॊहाय तस्मै शान्तात्मने नमः ॥ 53 ॥
यस्मिन सर्वं यतः सर्वं यः सर्वं सर्वतश च यः यश च सर्वमयॊ नित्यं तस्मै सर्वात्मने नमः ॥ 54 ॥
विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव अपवर्गॊ ऽसि भूतानां पञ्चानां परतः सथितः ॥ 55 ॥
नमस ते तरिषु लॊकेषु नमस ते परतस्त्रिषु नमस ते दिक्षु सर्वासु तवं हि सर्वपरायणम ॥ 56 ॥
नमस ते भगवन विष्णॊ लॊकानां परभवाप्यय तवं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ 57 ॥
तेन पश्यामि ते दिव्यान भावान हि तरिषु वर्त्मसु तच च पश्यामि तत्त्वेन यत ते रूपं सनातनम ॥ 58 ॥
दिवं ते शिरसा वयाप्तं पद्भ्यां देवी वसुंधरा विक्रमेण तरयॊ लॊकाः पुरुषॊ ऽसि सनातनः ॥ 59 ॥
अतसी पुष्पसंकाशं पीतवाससम अच्युतम ये नमस्यन्ति गॊविन्दं न तेषां विद्यते भयम ॥ 60 ॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ 61 ॥
तवां परपन्नाय भक्ताय गतिम इष्टां जिगीषवे यच छरेयः पुण्डरीकाक्ष तद धयायस्व सुरॊत्तम ॥ 62 ॥
इति विद्या तपॊ यॊनिर अयॊनिर विष्णुर ईडितः वाग यज्ञेनार्चितॊ देवः परीयतां मेजनार्दनः ॥ 63 ॥
एतावद उक्त्वा वचनं भीष्मस्तद गतमानसः नम इत्य एव कृष्णाय परणामम अकरॊत तदा ॥ 64 ॥
अभिगम्य तु यॊगेन भक्तिं भीष्मस्य माधवः तरैकाल्य दर्शनं जञानं दिव्यं दातुं ययौ हरिः ॥ 65 ॥
तस्मिन्न उपरते शब्दे ततस ते बरह्मवादिनः भीष्मं वाग्भिर बाष्पकण्ठास तम आनर्चुर महामतिम ॥ 66 ॥
ते सतुवन्तश च विप्राग्र्याः केशवं पुरुषॊत्तमम भीष्मं च शनकैः सर्वे परशशंसुः पुनः पुनः ॥ 67 ॥
विदित्वा भक्तियॊगं तु भीष्मस्य पुरुषॊत्तमः सहसॊत्थाय संहृष्टॊ यानम एवान्वपद्यत ॥ 68 ॥
केशवः सात्यकिश चैव रथेनैकेन जग्मतुः अपरेण महात्मानौ युधिष्ठिर धनंजयौ ॥ 69 ॥
भीमसेनॊ यमौ चॊभौ रथम एकं समास्थितौ कृपॊ युयुत्सुः सूतश च संजयश चापरं रथम ॥ 70 ॥
ते रथैर नगराकारैः परयाताः पुरुषर्षभाः नेमिघॊषेण महता कम्पयन्तॊ वसुंधराम ॥ 71 ॥
ततॊ गिरः पुरुषवरस तवान्विता; दविजेरिताः पथि सुमनाः स शुश्रुवे कृताञ्जलिं परणतम अथापरं जनं; स केशि हा मुदितमनाभ्यनन्दत ॥ 72 ॥
शान्तिपर्व · Shanti Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 48