[युधिस्ठिर] किम इदं परमाश्चर्यं धयायस्य अमितविक्रम कच चिल लॊकत्रयस्यास्य सवस्ति लॊकपरायण ॥ 1 ॥
चतुर्थं धयानमार्गं तवम आलम्ब्य पुरुषॊत्तम अपक्रान्तॊ यतॊ देव तेन मे विस्मितं मनः ॥ 2 ॥
निगृहीतॊ हि वायुस ते पञ्च कर्मा शरीरगः इन्द्रियाणि च सर्वाणि मनसि सथापितानि ते ॥ 3 ॥
इन्द्रियाणि मनश चैव बुद्धौ संवेशितानि ते सर्वश चैव गणॊ देवक्षेत्रज्ञे ते निवेशितः ॥ 4 ॥
नेङ्गन्ति तव रॊमाणि सथिरा बुद्धिस तथा मनः सथाणुकुड्य शिला भूतॊ निरीहश चासि माधव ॥ 5 ॥
यथा दीपॊ निवातस्थॊ निरिङ्गॊ जवलते ऽचयुत तथासि भगवन देव निश्चलॊ दृढनिश्चयः ॥ 6 ॥
यदि शरॊतुम इहार्हामि न रहस्यच ते यदि छिन्धि मे संशयं देव परपन्नायाभियाचते ॥ 7 ॥
तवं हि कर्ता विकर्ता च तवं कषरं चाक्षरं च हि अनादि निधनश चाद्यस तवम एव पुरुषॊत्तम ॥ 8 ॥
तवत परपन्नाय भक्ताय शिरसा परणताय च धयानस्यास्य यथातत्त्वं बरूहि धर्मभृतां वर ॥ 9 ॥
[वैषम्पायन] ततः सवगॊचरे नयस्य मनॊ बुद्धीन्द्रियाणि च समितपूर्वम उवाचेदं भगवान वासवानुजः ॥ 10 ॥
शरतल्पगतॊ भीष्मः शाम्यन्न इव हुताशनः मां धयाति पुरुषव्याघ्रस ततॊ मे तद्गतं मनः ॥ 11 ॥
यस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः न सहेद देवराजॊ ऽपि तम अस्मि मनसा गतः ॥ 12 ॥
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम ऊढास तिस्रः पुरा कन्यास तम अस्मि मनसा गताः ॥ 13 ॥
तरयॊ विंशतिरात्रं यॊ यॊधयाम आस भार्गवम न च रामेण निस्तीर्णस तम अस्मि मनसा गतः ॥ 14 ॥
यं गङ्गा गर्भविधिना धारयाम आस पार्थिवम वसिष्ठ शिष्यं तं तात मनसास्मि गतॊ नृप ॥ 15 ॥
दिव्यास्त्राणि महातेजा यॊ धारयति बुद्धिमान साङ्गांश च चतुरॊ वेदांस तम अस्मि मनसा गतः ॥ 16 ॥
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव आधारं सर्वविद्यानां तम अस्मि मनसा गतः ॥ 17 ॥
एकीकृत्येन्द्रिय गरामं मनः संयम्य मेधया शरणं माम उपागच्छत ततॊ मे तद्गतं मनः ॥ 18 ॥
स हि भूतं च भव्यं च भवच च पुरुषर्षभ वेत्ति धर्मभृतां शरेष्ठस ततॊ मे तद्गतं मनः ॥ 19 ॥
तस्मिन हि पुरुषव्याघ्रे कर्मभिः सवैर दिवं गते भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥ 20 ॥
तद युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम अभिगम्यॊपसंगृह्य पृच्छ यत ते मनॊगतम ॥ 21 ॥
चातुर्वेद्यं चातुर्हॊत्रं चातुर आश्रम्यम एव च चातुर वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ॥ 22 ॥
तस्मिन्न अस्तमिते भीष्मे कौरवाणां धुरंधरे जञानान्य अल्पी भविष्यन्ति तस्मात तवां चॊदयाम्य अहम ॥ 23 ॥
तच छरुत्वा वासुदेवस्य तथ्यं वचनम उत्तमम साश्रुकण्ठः स धर्मज्ञॊ जनार्दनम उवाच ह ॥ 24 ॥
यद भवान आह भीष्मस्य परभावं परति माधव तथा तन नात्र संदेहॊ विद्यते मम मानद ॥ 25 ॥
महाभाग्यं हि भीष्मस्य परभावश च महात्मनः शरुतं मया कथयतां बराह्मणानां महात्मनाम ॥ 26 ॥
भवांश च कर्ता लॊकानां यद वरवीत्य अरु सूदन तथा तद अनभिध्येयं वाक्यं यादवनन्दन ॥ 27 ॥
यतस तव अनुग्रह कृता बुद्धिस ते मयि माधव तवाम अग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम ॥ 28 ॥
आवृत्ते भगवत्य अर्के स हि लॊकान गमिष्यति तवद्दर्शनं महाबाहॊ तस्माद अर्हति कौरवः ॥ 29 ॥
तव हय आद्यस्य देवस्य कषरस्यैवाक्षरस्य च दर्शनं तस्य लाभः सयात तवं हि बरह्म मयॊ निधिः ॥ 30 ॥
शरुत्वैतद धर्मराजस्य वचनं मधुसूदनः पार्श्वस्थं सात्यकिं पराह रथॊ मे युज्यताम इति ॥ 31 ॥
सात्यकिस तूपनिष्क्रम्य केशवस्य समीपतः दारुकं पराह कृष्णस्य युज्यतां रथ इत्य उत ॥ 32 ॥
स सात्यकेर आशु वचॊ निशम्य; रथॊत्तमं काञ्चनभीषिताङ्गम मसारगल्व अर्कमयैर विभङ्गैर; विभूषितं हेमपिनद्ध चक्रम ॥ 33 ॥
दिवाकरांशु परभम आशु गामिनं; विचित्रनाना मणिरत्नभूषितम नवॊदितं सूर्यम इव परतापिनं; विचित्रतार्क्ष्य धवजिनं पताकिनम ॥ 34 ॥
सुग्रीव सैन्यप्रमुखैर वराश्वैर; मनॊजवैः काञ्चनभूषिताङ्गैः सुयुक्तम आवेदयद अच्युताय; कृताञ्जलिर दारुकॊ राजसिंह ॥ 35 ॥
शान्तिपर्व · Shanti Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47