[जनमेजय] पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः यद अन्यद अकरॊद विप्र तन मे वक्तुम इहार्हसि ॥ 1 ॥
भगवान वा हृषीकेशस तरैलॊक्यस्य परॊ गुरुः ऋषे यद अकरॊद वीरस तच च वयाख्यातुम अर्हसि ॥ 2 ॥
[वैषम्पायन] शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ वासुदेवं पुरस्कृत्य यद अकुर्वत पाण्डवाः ॥ 3 ॥
पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः चातुर्वर्ण्यं यथायॊगं सवे सवे धर्मे नयवेशयत ॥ 4 ॥
बराह्मणानां सहस्रं च सनातकानां महात्मनाम सहस्रनिष्कम एकैकं वाचयाम आस पाण्डवः ॥ 5 ॥
तथानुजीविनॊ भृत्यान संश्रितान अतिथीन अपि कामैः संतर्पयाम आस कृपणांस तर्ककान अपि ॥ 6 ॥
पुरॊहिताय धौम्याय परादाद अयुतशः स गाः धनं सुवर्णं रजतं वासांसि विविधानि च ॥ 7 ॥
कृपाय च महाराज गुरुवृत्तम अवर्तत विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥ 8 ॥
भक्षान्न पानैर विविधैर वासॊभिः शयनासनैः सर्वान संतॊषयाम आस संश्रितान ददतां वरः ॥ 9 ॥
लब्धप्रशमनं कृत्वा स राजा राजसत्तम युयुत्सॊर धातराष्ट्रस्य पूजां चक्रे महायशाः ॥ 10 ॥
धृतराष्ट्राय तद राज्यगान्धार्यै विदुराय च निवेद्य सवस्थवद राजन्न आस्ते राजा युधिष्ठिरः ॥ 11 ॥
तथा सर्वं स नगरं परसाद्य जनमेजय वासुदेवं महात्मानम अभ्यगच्छत कृताञ्जलिः ॥ 12 ॥
ततॊ महति पर्यङ्के मणिकाञ्चनभूषिते ददर्श कृष्णम आसीनं नीलं मेराव इवाम्बुदम ॥ 13 ॥
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम पीतकौशेयसंवीतं हेम्नीवॊपहितं मणिम ॥ 14 ॥
कौस्तुभेन उरःस्थेन मणिनाभि विराजितम उद्यतेवॊदयं शैलं सूर्येणाप्त किरीटिनम नौपम्यं विद्यते यस्य तरिषु लॊकेषु किं चन ॥ 15 ॥
सॊ ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम उवाच मधुराभाषः समितपूर्वम इदं तदा ॥ 16 ॥
सुखेन ते निशा कच चिद वयुष्टा बुद्धिमतां वर कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत ॥ 17 ॥
तव हय आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर वयं राज्यम अनुप्राप्ताः पृथिवी च वशे सथिता ॥ 18 ॥
भवत्प्रसादाद भगवंस तरिलॊकगतिविक्रम जयः पराप्तॊ यशश चाग्र्यं न च धर्माच चयुता वयम ॥ 19 ॥
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम नॊवाच भगवान किं चिद धयानम एवान्वपद्यत ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 45
Reach this point to mark the section finished.
Continue to अध्याय 46