[वैषम्पायन] ततॊ विसर्जयाम आस सर्वाः परकृतयॊ नृपः विविशुश चाभ्यनुज्ञाता यथा सवानि गृहाणि च ॥ 1 ॥
ततॊ युधिष्ठिरॊ राजा भीमं भीमपराक्रमम सान्त्वयन्न अब्रवीद धीमान अर्जुनं यमजौ तथा ॥ 2 ॥
शत्रुभिर विविधैः शस्त्रैः कृत्तदेहा महारणे शरान्ता भवन्तः सुभृशं तापिताः शॊकमन्युभिः ॥ 3 ॥
अरण्ये दुःखवसतीर मत्कृते पुरुषॊत्तमाः भवद्भिर अनुभूताश च यथा कु पुरुषैस तथा ॥ 4 ॥
यथासुखं यथाजॊषं जयॊ ऽयम अनुभूयताम विश्रान्ताँल लब्धविज्ञानाञ शवः समेतासि वः पुनः ॥ 5 ॥
ततॊ दुर्यॊधन गृहं परासादैर उपशॊभितम बहुरत्नसमाकीर्णं दासीदास समाकुलम ॥ 6 ॥
धृतराष्ट्राभ्यनुज्ञातं भरात्रा दत्तं वृकॊदरः परतिपेदे महाबाहुर मन्दरं मघवान इव ॥ 7 ॥
यथा दुर्यॊधन गृहं तथा दुःशासनस्य च परासादमाला संयुक्तं हेमतॊरण भीषितम ॥ 8 ॥
दासीदास सुसंपूर्णं परभूतधनधान्यवत परतिपेदे महाबाहुर अर्जुनॊ राजशासनात ॥ 9 ॥
दुर्मर्षणस्य भवनं दुःशासन गृहाद वरम कुबेरभवनप्रख्यं मणिहेमविभूषितम ॥ 10 ॥
नकुलाय वरार्हाय कर्शिताय महावने ददौ परीतॊ महाराज धर्मराजॊ युधिष्ठिरः ॥ 11 ॥
दुर्मुखस्य च वेश्माग्र्यं शरीमत कनकभूषितम पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम ॥ 12 ॥
परददौ सहदेवाय सततं परियकारिणे मुमुदे तच च लब्ध्वा स कैलासं धनदॊ यथा ॥ 13 ॥
युयुत्सुर विदुरश चैव संजयश च महाद्युतिः सुधर्मा चैव धौम्यश च यथा सवं जग्मुर आलयान ॥ 14 ॥
सह सात्यकिना शौरिर अर्जुनस्य निवेशनम विवेश पुरुषव्याघ्रॊ वयाघ्रॊ गिरिगुहाम इव ॥ 15 ॥
तत्र भक्षान्न पानैस ते समुपेताः सुखॊषिताः सुखप्रबुद्धा राजानम उपतस्थुर युधिष्ठिरम ॥ 16 ॥
शान्तिपर्व · Shanti Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45