धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 43

  1. [वैषम्पायन] अभिषिक्तॊ महाप्राज्ञॊ राज्यं पराप्य युधिष्ठिरः दाशार्हं पुण्डरीकाक्षम उवाच पराञ्जलिः शुचिः ॥ 1 ॥

  2. तव कृष्ण परसादेन नयेन च बलेन च बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥ 2 ॥

  3. पुनः पराप्तम इदं राज्यं पितृपैतामहं मया नमस ते पुण्डरीकाक्ष पुनः पुनर अरिंदम ॥ 3 ॥

  4. तवाम एकम आहुः पुरुषं तवाम आहुः सात्वतां पतिम नामभिस तवां बहुविधैः सतुवन्ति परमर्षयः ॥ 4 ॥

  5. विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव विष्णॊ जिष्णॊ हरे कृष्ण वैकुण्ठ पुरुषॊत्तम ॥ 5 ॥

  6. अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः पृश्नि गर्भस तवम एवैकस तरियुगं तवां वदन्त्य अपि ॥ 6 ॥

  7. शुचि शरवा हृषीकेशॊ घृतार्चिर हंस उच्यसे तरिचक्षुः शम्भुर एकस तवं विभुर दामॊदरॊ ऽपि च ॥ 7 ॥

  8. वराहॊ ऽगनिर बृहद भानुर वृषणस तार्क्ष्य लक्षणः अनीक साहः पुरुषः शिपि विष्ट उरु करमः ॥ 8 ॥

  9. वाचिष्ठ उग्रः सेनानीः सत्यॊ वाजसनिर गुहः अच्युतश चयावनॊ ऽरीणां संकृतिर विकृतिर वृषः ॥ 9 ॥

  10. कृतवर्त्मा तवम एवाद्रिर वृषगर्भॊ वृषा कपिः सिन्धुक्षिद ऊर्मिस तरिककुत तरिधामा तरिवृद अच्युत ॥ 10 ॥

  11. संराद विराट सवराट चैव सुरराड धर्मदॊ भवः विभुर भूर अभिभूः कृष्णः कृष्णवर्त्मा तवम एव च ॥ 11 ॥

  12. सविष्टकृद भिषग आवर्तः कपिलस तवं च वामनः यज्ञॊ धरुवः पतंगश च जयत्सेनस तवम उच्यसे ॥ 12 ॥

  13. शिखण्डी नहुषॊ बभ्रुर दिवस्पृक तवं पुनर वसुः सुबभ्रुर उक्षॊ रुक्मस तवं सुषेणॊ दुन्दुभिस तथा ॥ 13 ॥

  14. गभस्तिनेमिः शरीपद्मं पुष्करं पुष्पधारणः ऋभुर विभुः सर्वसूक्ष्मस तवं सावित्रं च पठ्यसे ॥ 14 ॥

  15. अम्भॊनिधिस तवं बरह्मा तवं पवित्रं धाम धन्व च हिरण्यगर्भं तवाम आहुः सवधा सवाहा च केशव ॥ 15 ॥

  16. यॊनिस तवम अस्य परलयश च कृष्ण; तवम एवेदं सृजसि विश्वम अग्रे विश्वं चेदं तवद्वशे विश्वयॊने; नमॊ ऽसतु ते शार्ङ्गचक्रासि पाणे ॥ 16 ॥

  17. एवं सतुतॊ धर्मराजेन कृष्णः; सभामध्ये परीतिमान पुष्कराक्षः तम अभ्यनन्दद भारतं पुष्कलाभिर; वाग्भिर जयेष्ठं पाण्डवं यादवाग्र्यः ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42