धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 42

  1. [वैषम्पायन] ततॊ युधिष्ठिरॊ राजा जञातीनां ये हता मृधे शराद्धानि कारयाम आस तेषां पृथग उदारधीः ॥ 1 ॥

  2. धृतराष्ट्रॊ ददौ राजा पुत्राणाम और्ध्वदेहिकम सर्वकामगुणॊपेतम अन्नं गाश च धनानि च रत्नानि च विचित्राणि महार्हाणि महायशाः ॥ 2 ॥

  3. युधिष्ठिरस तु कर्णस्य दरॊणस्य च महात्मनः धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ॥ 3 ॥

  4. विराटप्रभृतीनां च सुहृदाम उपकारिणाम दरुपद दरौपदेयानां दरौपद्या सहितॊ ददौ ॥ 4 ॥

  5. बराह्मणानां सहस्राणि पृथग एकैकम उद्दिशन धनैश च वस्त्रै रत्नैश च गॊभिश च समतर्पयत ॥ 5 ॥

  6. ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः उद्दिश्यॊद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम ॥ 6 ॥

  7. सभाः परपाश च विविधास तडागानि च पाण्डवः सुहृदां कारयाम आस सर्वेषाम और्ध्वदैहिकम ॥ 7 ॥

  8. स तेषाम अनृणॊ भूत्वा गत्वा लॊकेष्व अवाच्यताम कृतकृत्यॊ ऽभवद राजा परजा धर्मेण पालयन ॥ 8 ॥

  9. धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा सर्वांश च कौरवामात्यान भृत्यांश च समपूजयत ॥ 9 ॥

  10. याश च तत्र सत्रियः काश चिद धतवीरा हतात्म जाः सर्वास ताः कौरवॊ राजा संपूज्यापालयद घृणी ॥ 10 ॥

  11. दीनान्ध कृपणानां च गृहाच्छादन भॊजनैः आनृशंस्य परॊ राजा चकारानुग्रहं परभुः ॥ 11 ॥

  12. स विजित्य महीं कृत्स्नाम आनृण्यं पराप्य वैरिषु निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 43

Previous: अध्याय 41