[वैषम्पायन] परकृतीनां तु तद वाक्यं देशकालॊपसंहितम शरुत्वा युधिष्ठिरॊ राजाथॊत्तरं परत्यभाषत ॥ 1 ॥
धन्याः पाण्डुसुता लॊके येषां बराह्मणपुंगवाः तथ्यान वाप्य अथ वातथ्यान गुणान आहुः समागताः ॥ 2 ॥
अनुग्राह्या वयं नूनं भवताम इति मे मतिः यत्रैवं गुणसंपन्नान अस्मान बरूथ विमत्सराः ॥ 3 ॥
धृतराष्ट्रॊ महाराजः पिता नॊ दैवतं परम साशने ऽसय परिये चैव सथेयं मत्प्रिय काङ्क्षिभिः ॥ 4 ॥
एतदर्थं हि जीवामि कृत्वा जञातिवधं महत अस्य शुश्रूषणं कार्यं मया नित्यम अतन्द्रिणा ॥ 5 ॥
यदि चाहम अनुग्राह्यॊ भवतां सुहृदां ततः धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम अर्हथ ॥ 6 ॥
एष नाथॊ हि जगतॊ भवतां च मया सह अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च एतन मनसि कर्तव्यं भवद्भिर वचनं मम ॥ 7 ॥
अनुगम्य च राजानं यथेष्टं गम्यताम इति पौरजानपदान सर्वान विसृज्य कुरुनन्दनः यौवराज्येन कौरव्यॊ भीमसेनम अयॊजयत ॥ 8 ॥
मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने विदुरं बुद्धिसंपन्नं परीतिमान वै समादिशत ॥ 9 ॥
कृताकृत परिज्ञाने तथाय वययचिन्तने संजयं यॊजयाम आस ऋद्धम ऋद्धैर गुणैर युतम ॥ 10 ॥
बलस्य परिमाणे च भक्त वेतनयॊस तथा नकुलं वयादिशद राजा कर्मिणाम अन्ववेक्षणे ॥ 11 ॥
परचक्रॊपरॊधे च दृप्तानां चावमर्दने युधिष्ठिरॊ महाराजः फल्गुनं वयादिदेश ह ॥ 12 ॥
दविजानां वेद कार्येषु कार्येष्व अन्येषु चैव हि धौम्यं पुरॊधसां शरेष्ठं वयादिदेश परंतपः ॥ 13 ॥
सहदेवं समीपस्थं नित्यम एव समादिशत तेन गॊप्यॊ हि नृपतिः सर्वावस्थॊ विशां पते ॥ 14 ॥
यान यान अमन्यद यॊग्यांश च येषु येष्व इह कर्मसु तांस तांस तेष्व एव युयुजे परीयमाणॊ महीपतिः ॥ 15 ॥
विदुरं संजयं चैव युयुत्सुं च महामतिम अब्रवीत परवीर घनॊ धर्मात्मा धर्मवत्सलः ॥ 16 ॥
उत्थायॊत्थाय यत कार्यम अस्य राज्ञः पितुर मम सर्वं भवद्भिः कर्तव्यम अप्रमत्तैर यथातथम ॥ 17 ॥
पौरजानपदानां च यानि कार्याणि नित्यशः राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥ 18 ॥
शान्तिपर्व · Shanti Parva
अध्याय 41
Reach this point to mark the section finished.
Continue to अध्याय 42