धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 40

  1. [वैषम्पायन] ततः कुन्तीसुतॊ राजा गतमन्युर गतज्वरः काञ्चने पराङ्मुखॊ हृष्टॊ नयषीदत परमासने ॥ 1 ॥

  2. तम एवाभिमुखौ पीठे सेव्यास्तरण संवृते सात्यकिर वासुदेवश च निषीदतुर अरिंदमौ ॥ 2 ॥

  3. मध्ये कृत्वा तु राजानं भीमसेनार्जुनाव उभौ निषीदतुर महात्मानौ शलक्ष्णयॊर मणिपीठयॊः ॥ 3 ॥

  4. दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते पृथापि सहदेवेन सहास्ते नकुलेन च ॥ 4 ॥

  5. सुधर्मा विदुरॊ धौम्यॊ धृतराष्ट्रश च कौरवः निषेदुर जवलनाकारेष्व आसनेषु पृथक पृथक ॥ 5 ॥

  6. युयुत्सुः संजयश चैव गान्धारी च यशस्विनी धृतराष्ट्रॊ यतॊ राजा ततः सर्व उपाविशन ॥ 6 ॥

  7. तत्रॊपविष्टॊ धर्मात्मा शवेताः सुमनसॊ ऽसपृशत सवस्तिकान अक्षतान भूमिं सुवर्णं रजतं मणीन ॥ 7 ॥

  8. ततः परकृतयः सर्वाः पुरस्कृत्य पुरॊहितम ददृशुर धर्मराजानम आदाय बहु मङ्गलम ॥ 8 ॥

  9. पृथिवीं च सुवर्णं च रत्नानि विविधानि च आभिषेचनिकं भाण्डं सर्वसंभार संभृतम ॥ 9 ॥

  10. काञ्चनौदुम्बरास तत्र राजताः पृथिवी मयाः पूर्णकुम्भाः सुमनसॊ लाजा बर्हींषि गॊरसाः ॥ 10 ॥

  11. शमी पलाशपुंनागाः समिधॊ मधुसर्पिषी सरुव औदुम्बरः शङ्खास तथा हेमविभूषिताः ॥ 11 ॥

  12. दाशार्हेणाभ्यनुज्ञातस तत्र धौम्यः पुरॊहितः परागुदक परवणां वेदीं लक्षणेनॊपलिप्य ह ॥ 12 ॥

  13. वयाघ्रचर्मॊत्तरे शलक्ष्णे सर्वतॊभद्र आसने दृढपादप्रतिष्ठाने हुताशनसमत्विषि ॥ 13 ॥

  14. उपवेश्य महात्मानं कृष्णां च दरुपदात्म जाम जुहाव पावकं धीमान विधिमन्त्रपुरस्कृतम ॥ 14 ॥

  15. अभ्यषिञ्चत पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम धृतराष्ट्रश च राजर्षिः सर्वाः परकृतयस तथा ॥ 15 ॥

  16. ततॊ ऽनुवादयाम आसुः पणवानकदुन्दुभीः धर्मराजॊ ऽपि तत सर्वं परतिजग्राह धर्मतः ॥ 16 ॥

  17. पूजयाम आस तांश चापि विधिवद भूरिदक्षिणः ततॊ निष्कसहस्रेण बराह्मणान सवस्ति वाचयत वेदाध्ययनसंपन्नाञ शीलवृत्तसमन्वितान ॥ 17 ॥

  18. ते परीता बराह्मणा राजन सवस्त्य ऊचुर जयम एव च हंसा इव च नर्दन्तः परशशंसुर युधिष्ठिरम ॥ 18 ॥

  19. युधिष्ठिर महाबाहॊ दिष्ट्या जयसि पाण्डव दिष्ट्या सवधर्मं पराप्तॊ ऽसि विक्रमेण महाद्युते ॥ 19 ॥

  20. दिष्ट्या गाण्डीवधन्वा च भीमसेनश च पाण्डवः तवं चापि कुशली राजन माद्रीपुत्रौ च पाण्डवौ ॥ 20 ॥

  21. मुक्ता वीर कषयाद अस्मात संग्रामान निहतद्विषः कषिप्रम उत्तरकालानि कुरु कार्याणि पाण्डव ॥ 21 ॥

  22. ततः परत्यर्चितः सद्भिर धर्मराजॊ युधिष्ठिरः परतिपेदे महद राज्यं सुहृद्भिः सह भारत ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39