[वैषम्पायन] परवेशने तु पार्थानां जनस्य पुरवासिनः दिदृक्षूणां सहस्राणि समाजग्मुर बहून्य अथ ॥ 1 ॥
स राजमार्गः शुशुभे समलं कृतचत्वरः यथा चन्द्रॊदये राजन वर्धमानॊ महॊदधिः ॥ 2 ॥
गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च पराकम्पन्तेव भारेण सत्रीणां पूर्णानि भारत ॥ 3 ॥
ताः शनैर इव सव्रीडं परशशंसुर युधिष्ठिरम भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥ 4 ॥
धन्या तवम असि पाञ्चालि या तवं पुरुषसत्तमान उपतिष्ठसि कल्याणि महर्षीन इव गौतमी ॥ 5 ॥
तव कर्माण्य अमॊघानि वरतचर्या च भामिनि इति कृष्णां महाराज परशशंसुस तदा सत्रियः ॥ 6 ॥
परशंसा वचनैस तासां मिथः शब्दैश च भारत परीतिजैश च तदा शब्दैः पुरम आसीत समाकुलम ॥ 7 ॥
तम अतीत्य यथा युक्तं राजमार्गं युधिष्ठिर अलं कृतं शॊभमानम उपायाद राजवेश्म ह ॥ 8 ॥
ततः परकृतयः सर्वाः पौरजानपदास तथा ऊचुः कथाः कर्णसुखाः समुपेत्य ततस ततः ॥ 9 ॥
दिष्ट्या जयसि राजेन्द्र शत्रूञ शत्रुनिसूदन दिष्ट्या राज्यं पुनः पराप्तं धर्मेण च बलेन च ॥ 10 ॥
भव नस तवं महाराज राजेह शरदां शतम परजाः पालय धर्मेण यथेन्द्रस तरिदिवं नृप ॥ 11 ॥
एवं राजकुलद्वारि मङ्गलैर अभिपूजितः आशीर्वादान दविजैर उक्तान परतिगृह्य समन्ततः ॥ 12 ॥
परविश्य भवनं राजा देवराजगृहॊपमम शरुत्वा विजयसंयुक्तं रथात पश्चाद अवातरत ॥ 13 ॥
परविश्याभ्यन्तरं शरीमान दैवतान्य अभिगम्य च पूजयाम आस रत्नैश च गन्धैर माल्यैश च सर्वशः ॥ 14 ॥
निश्चक्राम ततः शरीमान पुनर एव महायशाः ददर्श बराह्मणांश चैव सॊ ऽभिरूपान उपस्थितान ॥ 15 ॥
स संवृतस तदा विप्रैर आशीर्वादविवक्षुभिः शुशुभे विमलश चन्द्रस तारागणवृतॊ यथा ॥ 16 ॥
तान स संपूजयाम आस कौन्तेयॊ विधिवद दविजान धौम्यं गुरुं पुरस्कृत्य जयेष्ठं पितरम एव च ॥ 17 ॥
सुमनॊमॊदकै रत्नैर हिरण्येन च भूरिणा गॊभिर वस्त्रैश च राजेन्द्र विविधैश च किम इच्छकैः ॥ 18 ॥
ततः पुण्याहघॊषॊ ऽभूद दिवं सतब्ध्वेव भारत सुहृदां हर्षजननः पुण्यः शरुतिसुखावहः ॥ 19 ॥
हंसवन नेदुषां राजन दविजानां तत्र भारती शुश्रुवे वेदविदुषां पुष्कलार्थ पदाक्षरा ॥ 20 ॥
ततॊ दुन्दुभिनिर्घॊषः शङ्खानां च मनॊरमः जयं परवदतां तत्र सवनः परादुरभून नृप ॥ 21 ॥
निःशब्दे च सथिते तत्र ततॊ विप्रजने पुनः राजानं बराह्मण छद्मा चार्वाकॊ राक्षसॊ ऽबरवीत ॥ 22 ॥
तत्र दुर्यॊधन सखा भिक्षुरूपेण संवृतः सांख्यः शिखी तरिदण्डी च धृष्टॊ विगतसाध्वसः ॥ 23 ॥
वृतः सर्वैस तदा विप्रैर आशीर्वादविवक्षुभिः परं सहस्रै राजेन्द्र तपॊ नियमसंस्थितैः ॥ 24 ॥
स दुष्टः पापम आशंसन पाण्डवानां महात्मनाम अनामन्त्र्यैव तान विप्रांस तम उवाच महीपतिम ॥ 25 ॥
इमे पराहुर दविजाः सर्वे समारॊप्य वचॊ मयि धिग भवन्तं कु नृपतिं जञातिघातिनम अस्तु वै ॥ 26 ॥
किं ते राज्येन कौन्तेय कृत्वेमं जञातिसंक्षयम घातयित्वा गुरूंश चैव मृतं शरेयॊ न जीवितम ॥ 27 ॥
इति ते वै दविजाः शरुत्वा तस्य घॊरस्य रक्षसः विव्यथुश चुक्रुशुश चैव तस्य वाक्यप्रधर्षिताः ॥ 28 ॥
ततस ते बराह्मणाः सर्वे स च राजा युधिष्ठिरः वरीडिताः परमॊद्विग्नास तूष्णीम आसन विशां पते ॥ 29 ॥
[युधिस्ठिर] परसीदन्तु भवन्तॊ मे परणतस्याभियाचतः परत्यापन्नं वयसनिनं न मां धिक कर्तुम अर्हथ ॥ 30 ॥
[वैषम्पायन] ततॊ राजन बराह्मणास ते सर्व एव विशां पते ऊचुर नैतद वचॊ ऽसमाकं शरीर अस्तु तव पार्थिव ॥ 31 ॥
जज्ञुश चैव महात्मानस ततस तं जञानचक्षुषा बराह्मणा वेद विद्वांसस तपॊभिर विमली कृताः ॥ 32 ॥
[बराह्मणाह] एष दुर्यॊधन सखा चार्वाकॊ नाम राक्षसः परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥ 33 ॥
न वयं बरूम धर्मात्मन वयेतु ते भयम ईदृशम उपतिष्ठतु कल्याणं भवन्तं भरातृभिः सह ॥ 34 ॥
[वैषम्पायन] ततस ते बराह्मणाः सर्वे हुंकारैः करॊधमूर्छिताः निर्भर्त्सयन्तः शुचयॊ निजघ्नुः पापराक्षसम ॥ 35 ॥
स पपात विनिर्दग्धस तेजसा बरह्मवादिनाम महेन्द्राशनिनिर्दग्धः पादपॊ ऽङकुरवान इव ॥ 36 ॥
पूजिताश च ययुर विप्रा राजानम अभिनन्द्य तम राजा च हर्षम आपेदे पाण्डवः स सुहृज्जनः ॥ 37 ॥
[वासुदेव] बराह्मणास तात लॊके ऽसमिन्न अर्चनीयाः सदा मम एते भूमिचरा देवा वाग विषाः सुप्रसादकाः ॥ 38 ॥
पुरा कृतयुगे तात चार्वाकॊ नाम राक्षसः तपस तेपे महाबाहॊ बदर्यां बहु वत्सरम ॥ 39 ॥
छन्द्यमानॊ वरेणाथ बराह्मणा स पुनः पुनः अभयं सर्वभूतेभ्यॊ वरयाम आस भारत ॥ 40 ॥
दविजावमानाद अन्यत्र परादाद वरमम उत्तमम अभयं सर्वभूतेभ्यस ततस तस्मै जगत परभुः ॥ 41 ॥
स तु लब्धवरः पापॊ देवान अमितविक्रमः राक्षसस तापयाम आस तीव्रकर्मा महाबलः ॥ 42 ॥
ततॊ देवाः समेत्याथ बराह्मणम इदम अब्रुवन वधाय रक्षसस तस्य बलविप्रकृतास तदा ॥ 43 ॥
तान उवाचाव्ययॊ देवॊ विहितं तत्र वै मया यथास्य भविता मृत्युर अचिरेणैव भारत ॥ 44 ॥
राजा दुर्यॊधनॊ नाम सखास्य भविता नृप तस्य सनेहावबद्धॊ ऽसौ बराह्मणान अवमस्यते ॥ 45 ॥
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः धक्ष्यन्ति वाग्बलाः पापं ततॊ नाशं गमिष्यति ॥ 46 ॥
स एष निहतः शेते बरह्मदण्डेन राक्षसः चार्वाकॊ नृपतिश्रेष्ठ मा शुचॊ भरतर्षभ ॥ 47 ॥
हतास ते कषत्रधर्मेण जञातयस तव पार्थिव सवर्गताश च महात्मानॊ वीराः कषत्रिय पुंगवाः ॥ 48 ॥
स तवम आतिष्ठ कल्याणं मा ते भूद गलानिर अच्युत शत्रूञ जहि परजा रक्ष दविजांश च परतिपालय ॥ 49 ॥
शान्तिपर्व · Shanti Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40