धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 3

  1. [नारद] कर्णस्य बाहुवीर्येण परश्रयेण दमेन च तुतॊष भृगुशार्दूलॊ गुरुशुश्रूषया तथा ॥ 1 ॥

  2. तस्मै स विधिवत कृत्स्नं बरह्मास्त्रं स निवर्तनम परॊवाचाखिलम अव्यग्रं तपस्वी सुतपस्विने ॥ 2 ॥

  3. विदितास्त्रस ततः कर्णॊ रममाणॊ ऽऽशरमे भृगॊः चकार वै धनुर्वेदे यत्नम अद्भुतविक्रमः ॥ 3 ॥

  4. ततः कदा चिद रामस तु चरन्न आश्रमम अन्तिकात कर्णेन सहितॊ धीमान उपवासेन कर्शितः ॥ 4 ॥

  5. सुष्वाप जामदग्न्यॊ वै विस्रम्भॊत्पन्न सौहृदः कर्णस्यॊत्सङ्ग आधाय शिरॊ कलान्तमना गुरुः ॥ 5 ॥

  6. अथ कृमिः शलेष्म मयॊ मांसशॊणितभॊजनः दारुणॊ दारुणस्पर्शः कर्णस्याभ्याशम आगमत ॥ 6 ॥

  7. स तस्यॊरुम अथासाद्य बिभेद रुधिराशनः न चैनम अशकत कषेप्तुं हन्तुं वापि गुरॊर भयात ॥ 7 ॥

  8. संदश्यमानॊ ऽपि तथा कृमिणा तेन भारत गुरु परबॊध शङ्की च तम उपैक्षत सूत जः ॥ 8 ॥

  9. कर्णस तु वेदनां धैर्याद असह्यां विनिगृह्य ताम अकम्पन्न अव्यथंश चैव धारयाम आस भार्गवम ॥ 9 ॥

  10. यदा तु रिधिरेणाङ्गे परिस्पृष्टॊ भृगूद्वहः तदाबुध्यत तेजस्वी संतप्तश चेदम अब्रवीत ॥ 10 ॥

  11. अहॊ ऽसम्य अशुचितां पराप्तः किम इदं करियते तवया कथयस्व भयं तयक्त्वा याथातथ्यम इदं मम ॥ 11 ॥

  12. तस्य कर्णस तदाचष्ट कृमिणा परिभक्षणम ददर्श रामस तं चापि कृमिं सूकर संनिभम ॥ 12 ॥

  13. अष्ट पादं तीक्ष्णदंष्ट्रं सूचीभिर इव संवृतम रॊमभिः संनिरुद्धाङ्गम अलर्कं नाम नामतः ॥ 13 ॥

  14. स दृष्टमात्रॊ रामेण कृमिः पराणान अवासृजत तस्मिन्न एवासृक संक्लिन्ने तद अद्भुतम इवाभवत ॥ 14 ॥

  15. ततॊ ऽनतरिक्षे ददृशे विश्वरूपः करालवान राक्षसॊ लॊहितग्रीवः कृष्णाङ्गॊ मेघवाहनः ॥ 15 ॥

  16. स राम पराञ्जलिर भूत्वा बभाषे पूर्णमानसः सवस्ति ते भृगुशार्दूल गमिष्यामि यथागतम ॥ 16 ॥

  17. मॊक्षितॊ नरकाद अस्मि भवता मुनिसत्तम भद्रं च ते ऽसु नन्दिश च परियं मे भवता कृतम ॥ 17 ॥

  18. तम उवाचं महाबाहुर जामदग्न्यः परतापवान कस तवं कस्माच च नरकं परतिपन्नॊ बरवीहि तत ॥ 18 ॥

  19. सॊ ऽबरवीद अहम आसं पराग गृत्सॊ नाम महासुरः पुरा देवयुगे तात भृगॊस तुल्यवया इव ॥ 19 ॥

  20. सॊ ऽहं भृगॊर सुदयितां भार्याम अपहरं बलात महर्षेर अभिशापेन कृमिभूतॊ ऽपतं भुवि ॥ 20 ॥

  21. अब्रवीत तु स मां करॊधात तव पूर्वपितामहः मूत्र शलेष्माशनः पापनिरयं परतिपत्स्यसे ॥ 21 ॥

  22. शापस्यान्तॊ भवेद बरह्मन्न इत्य एवं तम अथाब्रुवम भविता भार्गवे राम इति माम अब्रवीद भृगुः ॥ 22 ॥

  23. सॊ ऽहम एतां गतिं पराप्तॊ यथा न कुशलं तथा तवया साधॊ समागम्य विमुक्तः पापयॊनितः ॥ 23 ॥

  24. एवम उक्त्वा नमस्कृत्य ययौ रामं महासुरः रामः कर्णं तु स करॊदम इदं वचनम अब्रवीत ॥ 24 ॥

  25. अति दुःखम इदं मूढ न जातु बराह्मणः सहेत कषत्रियस्यैव ते धैर्यं कामया सत्यम उच्यताम ॥ 25 ॥

  26. तम उवाच ततः कर्णः शापभीतः परसादयन बरह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ॥ 26 ॥

  27. राधेयः कर्ण इति मां परवदन्ति जना भुवि परसादं कुरु मे बरह्मन्न अस्त्रलुब्धस्य भार्गव ॥ 27 ॥

  28. पिता गुरुर न संदेहॊ वेद विद्या परदः परभुः अतॊ भार्गव इत्य उक्तं मया गॊत्रं तवान्तिके ॥ 28 ॥

  29. तम उवाच भृगुश्रेष्ठः सरॊषः परहसन्न इव भूमौ निपतितं दीनं वेपमान कृताञ्जलिम ॥ 29 ॥

  30. यस्मान मिथ्यॊपचरितॊ अस्त्रलॊभाद इह तवया तस्माद एतद धि ते मूढ बरह्मास्त्रं परतिभास्यति ॥ 30 ॥

  31. अन्यत्र वधकालात ते सदृशेन समेयुषः अब्राह्मणे न हि बरह्म धरुवं तिष्ठेत कदा चन ॥ 31 ॥

  32. गच्छेदानीं न ते सथानम अनृतस्येह विद्यते न तवया सदृशॊ युद्धे भविता कशत्रियॊ भुवि ॥ 32 ॥

  33. एवम उक्तस तु रामेण नयायेनॊपजगाम सः दुर्यॊधनम उपागम्य कृतास्त्रॊ ऽसमीति चाब्रवीत ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2