[युधिस्ठिर] शरॊतुम इच्छामि भगवन विस्तरेण महामुने राजधर्मान दविजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान ॥ 1 ॥
आपत्सु च यथा नीतिर विधातव्या महीक्षिता धर्म्यम आलम्ब्य पन्थानं विजयेयं कथं महीम ॥ 2 ॥
परायश्चित्त कथा हय एषा भक्ष्याभक्ष्य विवर्धिता कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥ 3 ॥
धर्मचर्या च राज्यं च नित्यम एव विरुध्यते येन मुह्यति मे चेतश चिन्तयानस्य नित्यशः ॥ 4 ॥
[वैषम्पायन] तम उवाच महातेजा वयासॊ वेद विदां वरः नारदं समभिप्रेक्ष्य सर्वं जानन पुरातनम ॥ 5 ॥
शरॊतुम इच्छसि चेद धर्मान अखिलेन युधिष्ठिर परैहि भीष्मं महाबाहॊ वृद्धं कुरुपितामहम ॥ 6 ॥
स ते सर्वरहस्येषु संशयान मनसि सथितान छेत्त्रा भागीरथी पुत्रः सर्वज्ञः सर्वधर्मवित ॥ 7 ॥
जनयाम आस यं देवी दिव्या तरिपथ गा नदी साक्षाद ददर्श यॊ देवान सर्वाञ शक्रपुरॊगमान ॥ 8 ॥
बृहस्पतिपुरॊ गांश च देवर्षीन असकृत परभुः तॊषयित्वॊपचारेण राजनीतिम अधीतवान ॥ 9 ॥
उशना वेद यच छास्त्रं देवासुरगुरुर दविजः तच च सर्वं स वैयाख्यं पराप्तवान कुरुसत्तमः ॥ 10 ॥
भार्गवाच चयवनाच चापि वेदान अङ्गॊपबृंहितान परतिपेदे महाबुद्धिर वसिष्ठाच च यतव्रतात ॥ 11 ॥
पितामहसुतं जयेष्ठं कुमारं दीप्ततेजसम अध्यात्मगतितत्त्वज्ञम उपाशिक्षत यः पुरा ॥ 12 ॥
मार्कण्डेय मुखात कृत्स्नं यति धर्मम अवाप्तवान रामाद अस्त्राणि शक्राच च पराप्तवान भरतर्षभ ॥ 13 ॥
मृत्युर आत्मेच्छया यस्य जातस्य मनुजेष्व अपि तथानपत्यस्य सतः पुण्यलॊका दिवि शरुताः ॥ 14 ॥
यस्य बरह्मर्षयः पुण्या नित्यम आसन सभा सदः यस्य नाविदितं किं चिज जञानज्ञेयेषु विद्यते ॥ 15 ॥
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित तम अभ्येहि पुरा पराणान स विमुञ्चति धर्मवित ॥ 16 ॥
एवम उक्तस तु कौन्तेयॊ दीर्घप्रज्ञॊ महाद्युतिः उवाच वदतां शरेष्ठं वयासं सत्यवती सुतम ॥ 17 ॥
वैशसं सुमहत कृत्वा जञातीनां लॊमहर्षणम आगः कृत सर्वलॊकस्य पृथिवी नाश कारकः ॥ 18 ॥
घातयित्वा तम एवाजौ छलेनाजिह्म यॊधिनम उपसंप्रष्टुम अर्हामि तम अहं केन हेतुना ॥ 19 ॥
ततस तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया पुनर आह महाबाहुर यदुश्रेष्ठॊ महाद्युतिः ॥ 20 ॥
नेदानीम अतिनिर्बन्धं शॊके कर्तुम इहार्हसि यद आह भगवान वयासस तत कुरुष्व नृपॊत्तम ॥ 21 ॥
बराह्मणास तवां महाबाहॊ भरातरश च महौजसः पर्जन्यम इव घर्मार्ता आशंसाना उपासते ॥ 22 ॥
हतशिष्टाश च राजानः कृत्स्नं चैव समागतम चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम ॥ 23 ॥
परियार्थम अपि चैतेषां बराह्मणानां महात्मनाम नियॊगाद अस्य च गुरॊर वयासस्यामित तेजसः ॥ 24 ॥
सुहृदां चास्मद आदीनां दरौपद्याश च परंतप कुरु परियम अमित्रघ्न लॊकस्य च हितं कुरु ॥ 25 ॥
एवम उक्तस तु कृष्णेन राजा राजीवलॊचनः हितार्थं सर्वलॊकस्य समुत्तस्थौ महातपाः ॥ 26 ॥
सॊ ऽनुनीतॊ नरव्याघ्रॊ विष्टर शरवसा सवयम दवैपायनेन च तथा देवस्थानेन जिष्णुना ॥ 27 ॥
एतैश चान्यैश च बहुभिर अनुनीतॊ युधिष्ठिरः वयजहान मानसं दुःखं संतापं च महामनाः ॥ 28 ॥
शरुतवाक्यः शरुतनिधिः शरुतश्रव्य विशारदः वयवस्य मनसः शान्तिम अगच्छत पाण्डुनन्दनः ॥ 29 ॥
स तैः परिवृतॊ राजा नक्षत्रैर इव चन्द्रमाः धृतराष्ट्रं पुरस्कृत्य सवपुरं परविवेश ह ॥ 30 ॥
परविविक्षुः स धर्मज्ञः कुन्तीपुत्रॊ युधिष्ठिरः अर्चयाम आस देवांश च बराह्मणांश च सहस्रशः ॥ 31 ॥
ततॊ रथं नवं शुभ्रं कम्बलाजिन संवृतम युक्तं षॊडशभिर गॊभिः पाण्डुरैः शुभलक्षणैः ॥ 32 ॥
मन्त्रैर अभ्यर्चितः पुण्यैः सतूयमानॊ महर्षिभिः आरुरॊह यथा देवः सॊमॊ ऽमृतमयं रथम ॥ 33 ॥
जग्राह रश्मीन कौन्तेयॊ भीमॊ भीमपराक्रमः अर्जुनः पाण्डुरं छत्रं धारयाम आस भानुमत ॥ 34 ॥
धरियमाणं तु तच छत्रं पाण्डुरं तस्य मूर्धनि शुशुभे तारका राजसितम अभ्रम इवाम्बरे ॥ 35 ॥
चामरव्यजने चास्य वीरौ जगृहतुस तदा चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्राव अलं कृते ॥ 36 ॥
ते पञ्च रथम आस्थाय भरातरः समलं कृताः भूतानीव समस्तानि राजन ददृशिरे तदा ॥ 37 ॥
आस्थाय तु रथं शुभ्रं युक्तम अश्वैर महाजवैः अन्वयात पृष्ठतॊ राजन युयुत्सुः पाण्डवाग्र जम ॥ 38 ॥
रथं हेममयं शुभ्रं सैन्यसुग्रीव यॊजितम सह सात्यकिना कृष्णः समास्थायान्वयात कुरून ॥ 39 ॥
नरयानेन तु जयेष्ठः पित्रा पार्थस्य भारत अग्रतॊ धर्मराजस्य गान्धारी सहितॊ ययौ ॥ 40 ॥
कुरु सत्रियश च ताः सर्वाः कुन्ती कृष्णा च दरौपदी यानैर उच्चावचैर जग्मुर विदुरेण पुरस्कृताः ॥ 41 ॥
ततॊ रथाश च बहुला नागाश च समलं कृताः पादाताश च हयाश चैव पृष्ठतः समनुव्रजन ॥ 42 ॥
ततॊ वैतालिकैः सूतैर मागधैश च सुभाषितैः सतूयमानॊ ययौ राजा नगरं नागसाह्वयम ॥ 43 ॥
तत परयाणं महाबाहॊर बभूवाप्रतिमं भुवि आकुलाकुलम उत्सृष्टं हृष्टपुष्ट जनान्वितम ॥ 44 ॥
अभियाने तु पार्थस्य नरैर नगरवासिभिः नगरं राजमार्गश च यथावत समलं कृतम ॥ 45 ॥
पाण्डुरेण च माल्येन पताकाभिश च वेदिभिः संवृतॊ राजमार्गश च धूपनैश च सुधूपितः ॥ 46 ॥
अथ चूर्णैश च गन्धानां नानापुष्पैः परियङ्गुभिः माल्यदामभिर आसक्तै राजवेश्माभिसंवृतम ॥ 47 ॥
कुम्भाश च नगरद्वारि वारिपूर्णा दृढा नवाः कन्याः सुमनसश छागाः सथापितास तत्र तत्र ह ॥ 48 ॥
तथा सवलं कृतद्वारं नगरं पाण्डुनन्दनः सतूयमानः शुभैर वाक्यैः परविवेश सुहृद्वृतः ॥ 49 ॥
शान्तिपर्व · Shanti Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39