[वैषम्पायन] एवम उक्तॊ भगवता धर्मराजॊ युधिष्ठिरः चिन्तयित्वा मुहूर्तं तु परत्युवाच तपॊधनम ॥ 1 ॥
किं भक्ष्यं किम अभक्ष्यं च किं च देयं परशस्यते किं च पात्रम अपात्रं वा तन मे बरूहि पितामह ॥ 2 ॥
[वयास] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम सिद्धानां चैव संवादं मनॊश चैव परजापतेः ॥ 3 ॥
सिद्धास तपॊव्रतपराः समागम्य पुरा विभुम धर्मं पप्रच्छुर आसीनम आदि काले परजापतिम ॥ 4 ॥
कथम अन्नं कथं दानं कथम अध्ययनं तपः कार्याकार्यं च नः सर्वं शंस वै तवं परजापते ॥ 5 ॥
तैर एवम उक्तॊ भगवान मनुः सवायम्भुवॊ ऽबरवीत शुश्रूषध्वं यथावृत्तं धर्मं वयास समासतः ॥ 6 ॥
अदत्तस्यानुपादानं दानम अध्ययनं तपः अहिंसा सत्यम अक्रॊधः कषमेज्या धर्मलक्षणम ॥ 7 ॥
य एव धर्मः सॊ ऽधर्मॊ ऽदेशे ऽकाले परतिष्ठितः आदानम अनृतं हिंसा धर्मॊ वयावस्थिकः समृतः ॥ 8 ॥
दविविधौ चाप्य उभाव एतौ धर्माधर्मौ विजानताम अप्रवृत्तिः परवृत्तिश च दवैविध्यं लॊकवेदयॊः ॥ 9 ॥
अप्रवृत्तेर अमर्त्यत्वं मर्त्यत्वं कर्मणः फलम अशुभस्याशुभं विद्याच छुभस्य शुभम एव च ॥ 10 ॥
एतयॊश चॊभयॊः सयातां शुभाशुभतया तथा दैवं च दैवयुक्तं च पराणश च परलयश च ह ॥ 11 ॥
अप्रेक्षा पूर्वकरणाद अशुभानां शुभं फलम ऊर्ध्वं भवति संदेहाद इह दृष्टार्थम एव वा अप्रेक्षा पूर्वकरणात परायश्चित्तं विधीयते ॥ 12 ॥
करॊधमॊहकृते चैव दृष्टान्तागमहेतुभिः शरीराणाम उपक्लेशॊ मनसश च परियाप्रिये तद औषधैश च मन्त्रैश च परायश्चित्तैश च शाम्यति ॥ 13 ॥
जातिश्रेण्य अधिवासानां कुलधर्मांश च सर्वतः वर्जयेन न हि तं धर्मं येषां धर्मॊ न विद्यते ॥ 14 ॥
दशवा वेद शास्त्रज्ञास तरयॊ वा धर्मपाठकाः यद बरूयुः कार्य उत्पन्ने स धर्मॊ धर्मसंशये ॥ 15 ॥
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः शरेष्मातकस तथा विप्रैर अभक्ष्यं विषम एव च ॥ 16 ॥
अभक्ष्या बराह्मणैर मत्स्याः शकलैर ये विवर्जिताः चतुष्पात कच्छपाद अन्यॊ मण्डूका जलजाश च ये ॥ 17 ॥
भासा हंसाः सुपर्णाश च चक्रवाका बकाः पलवाः कङ्कॊ मद्गुश च गृध्राश च कालॊलूकं तथैव च ॥ 18 ॥
करव्यादाः पक्षिणः सर्वे चतुष्पादाश च दंष्ट्रिणः येषां चॊभयतॊ दन्ताश चतुर्दंष्ट्राश च सर्वशः ॥ 19 ॥
एडकाश्वखरॊष्ट्रीणां सूतिकानां गवाम अपि मानुषीणां मृगीणां च न पिबेद बराह्मणः पयः ॥ 20 ॥
परेतान्नं सूतिकान्नं च यच च किं चिद अनिर्दशम अभॊज्यं चाप्य अपेयं च धेन्वा दुग्धम अनिर्दशम ॥ 21 ॥
तक्ष्णश चर्मावकर्तुश च पुंश चल्या रजकस्य च चिकित्सकस्य यच चान्नम अभॊज्यं रक्षिणस तथा ॥ 22 ॥
गणग्रामाभिशस्तानां रङ्ग सत्री जीविनश च ये परिवित्ति नपुंषां च बन्दि दयूतविदां तथा ॥ 23 ॥
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत सुरानुगतम उच्छिष्टम अभॊज्यं शेषितं च यत ॥ 24 ॥
पिष्ट मांसेक्षु शाकानां विकाराः पयसस तथा सक्तु धाना करम्भाश च नॊपभॊज्याश चिरस्थिताः ॥ 25 ॥
पायसं कृसरं मांसम अपूपाश च वृथा कृताः अभॊज्याश चाप्य अभक्ष्याश च बराह्मणैर गृहमेधिभिः ॥ 26 ॥
देवान पितॄन मनुष्यांश च मुनीन गृह्याश च देवताः पूजयित्वा ततः पश्चाद गृहस्थॊ भॊक्तुम अर्हति ॥ 27 ॥
यथा परव्रजितॊ भिक्षुर गृहस्थः सवगृहे वसेत एवंवृत्तः परियैर दारैः संवसन धर्मम आप्नुयात ॥ 28 ॥
न दद्याद यशसे दानं न भयान नॊपकारिणे न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥ 29 ॥
न मत्ते नैव चॊन्मत्ते न सतेने न चिकित्सके न वाग घीने विवर्णे वा नाङ्गहीने न वामने ॥ 30 ॥
न दुर्जने दौष्कुले वा वरतैर वा यॊ न संस्कृतः अश्रॊत्रिये मृतं दानं बराह्मणे ऽबरह्म वादिनि ॥ 31 ॥
असम्यक चैव यद दत्तम असम्यक च परतिग्रहः उभयॊः सयाद अनर्थाय दातुर आदातुर एव च ॥ 32 ॥
यथा खदिरम आलम्ब्य शिलां वाप्य अर्णवं तरन मज्जते मज्जते तद्वद दाता यश च परतीच्छकः ॥ 33 ॥
काष्ठैर आर्द्रैर यथा वह्निर उपस्तीर्णॊ न दीप्यते तपःस्वाध्यायचारित्रैर एवं हीनः परतिग्रही ॥ 34 ॥
कपाले यद्वद आपः सयुः शवदृतौ वा यथा पयः आश्रयस्थानदॊषेण वृत्तहीने तथा शरुतम ॥ 35 ॥
निर्मन्त्रॊ निर्व्रतॊ यः सयाद अशास्त्रज्ञॊ ऽनसूयकः अनुक्रॊशात परदातव्यं दीनेष्व एव नरेष्व अपि ॥ 36 ॥
न वै देयम अनुक्रॊशाद दीनायाप्य अपकारिणे आप्ताचरितम इत्य एव धर्म इत्य एव वा पुनः ॥ 37 ॥
निष्कारणं सम तद दत्तं बराह्मणे धर्मवर्जिते भवेद अपात्र दॊषेण न मे ऽतरास्ति विचारणा ॥ 38 ॥
यथा दारु मयॊ हस्ती यथा चर्ममयॊ मृगः बराह्मणश चानधीयानस तरयस ते नाम धारकाः ॥ 39 ॥
यथा षण्ढॊ ऽफलः सत्रीषु यथा गौर गवि चाफला शकुनिर वाप्य अपक्षः सयान निर्मन्त्रॊ बराह्मणस तथा ॥ 40 ॥
गरामधान्यं यथा शून्यं यथा कूपश च निर्जलः यथा हुतम अनग्नौ च तथैव सयान निराकृतौ ॥ 41 ॥
देवतानां पितॄणां च हव्यकव्य विनाशनः शत्रुर अर्थहरॊ मूर्खॊ न लॊकान पराप्तुम अर्हति ॥ 42 ॥
एतत ते कथितं सर्वं यथावृत्तं युधिष्ठिर समासेन महद धयेतच छरॊतव्यं भरतर्षभ ॥ 43 ॥
शान्तिपर्व · Shanti Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38