[वयास] तपसा कर्मभिश चैव परदानेन च भारत पुनाति पापं पुरुषः पूतश चेन न परवर्तते ॥ 1 ॥
एककालं तु भुञ्जानश चरन भैक्षं सवकर्मकृत कपालपाणिः खट्वाङ्गी बरह्म चारी सदॊत्थितः ॥ 2 ॥
अनसूयुर अधः शायी कर्म लॊके परकाशयन पूर्णैर दवादशभिर वर्षैर बरह्म हा विप्रमुच्यते ॥ 3 ॥
षड्भिर वर्षैः कृच्छ्रभॊजी बरह्म हा पूयते नरः मासे मासे समश्नंस तु तरिभिर वर्षैः परमुच्यते ॥ 4 ॥
संवत्सरेण मासाशी पूयते नात्र संशयः तथैवॊपरमन राजन सवल्पेनापि परमुच्यते ॥ 5 ॥
करतुना चाश्वमेधेन पूयते नात्र संशयः य चास्यावभृथे सनान्ति के चिद एवंविधा नराः ॥ 6 ॥
ते सर्वे पूतपाप्मानॊ भवन्तीति परा शरुतिः बराह्मणार्थे हतॊ युद्धे मुच्यते बरह्महत्यया ॥ 7 ॥
गवां शतसहस्रं तु पात्रेभ्यः परतिपादयन बरह्म हा विप्रमुच्येत सर्वपापेभ्य एव च ॥ 8 ॥
कपिलानां सहस्राणि यॊ दद्यात पञ्चविंशतिम दॊग्ध्रीणां स च पापेभ्यः सर्वेभ्यॊ विप्रमुच्यते ॥ 9 ॥
गॊसहस्रं स वत्सानां दॊग्ध्रीणां पराणसंशये साधुभ्यॊ वै दरिद्रेभ्यॊ दत्त्वा मुच्येत किल्बिषात ॥ 10 ॥
शतं तै यस तु काम्बॊजान बराह्मणेभ्यः परयच्छति नियतेभ्यॊ महीपाल स च पापात परमुच्यते ॥ 11 ॥
मनॊरथं तु यॊ दद्याद एकस्मा अपि भारत न कीर्तयेत दत्त्वा यः स च पापात परमुच्यते ॥ 12 ॥
सुरा पानं सकृत पीत्वा यॊ ऽगनिवर्णां पिबेद दविजः स पावयत्य अथात्मानम इह लॊके परत्र च ॥ 13 ॥
मेरुप्रपातं परपतञ जवलनं वा समाविशन महाप्रस्थानम आतिष्ठन मुच्यते सर्वकिल्बिषैः ॥ 14 ॥
बृहस्पतिसवेनेष्ट्वा सुरा पॊ बराह्मणः पुनः समितिं बराह्मणैर गच्छेद इति वै बराह्मणी शरुतिः ॥ 15 ॥
भूमिप्रदानं कुर्याद यः सुरां पीत्वा विमत्सरः पुनर न च पिबेद राजन संस्कृतः शुध्यते नरः ॥ 16 ॥
गुरु तल्पी शिलां तप्ताम आयसीम अधिसंविशेत पाणाव आधाय वा शेफं परव्रजेद ऊर्ध्वदर्शनः ॥ 17 ॥
शरीरस्य विमॊक्षेण मुच्यते कर्मणॊ ऽशुभात कर्मभ्यॊ विप्रमुच्यन्ते यत्ताः संवत्सरं सत्रियः ॥ 18 ॥
महाव्रतं चरेद यस तु दद्यात सर्वस्वम एव तु गुर्वर्थे वा हतॊ युद्धे स मुच्येत कर्मणॊ ऽशुभात ॥ 19 ॥
अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा उपहृत्य परियं तस्मै तस्मात पापात परमुच्यते ॥ 20 ॥
अवकीर्णि निमित्तं तु बरह्महत्या वरतं चरेत खरचर्म वासाः षण मासं तथा मुच्येत किल्बिषात ॥ 21 ॥
परदारापहारी च परस्यापहरन वसु संवत्सरं वरती भूत्वा तथा मुच्येत किल्बिषात ॥ 22 ॥
सतेयं तु यस्यापहरेत तस्मै दद्यात समं वसु विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात ॥ 23 ॥
कृच्छ्राद दवादश रात्रेण सवभ्यस्तेन दशावरम परिवेत्ता भवेत पूतः परिवित्तिश च भारत ॥ 24 ॥
निवेश्यं तु भवेत तेन सदा तारयिता पितॄन न तु सत्रिया भवेद दॊषॊ न तु सा तेन लिप्यते ॥ 25 ॥
भजने हय ऋतुना शुद्धं चातुर्मास्यं विधीयते सत्रियस तेन विशुध्यन्ति इति धर्मविदॊ विदुः ॥ 26 ॥
सत्रियस तव आशङ्किताः पापैर नॊपगम्या हि जानता रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥ 27 ॥
चतुष्पात सकलॊ धर्मॊ बराह्मणानां विधीयते पादावकृष्टॊ राजन्ये तथा धर्मॊ विधीयते ॥ 28 ॥
तथा वैश्ये च शूद्रे च पादः पादॊ विधीयते विद्याद एवंविधेनैषां गुरुलाघव निश्चयम ॥ 29 ॥
तिर्यग्यॊनिवधं कृत्वा दरुमांश छित्त्वेतरान बहून तरिरात्रं वायुभक्षः सयात कर्म च परथयेन नरः ॥ 30 ॥
अगम्या गमने राजन परायश्चित्तं विधीयते आर्द्र वस्त्रेण षण मासं विहार्यं भस्मशायिना ॥ 31 ॥
एष एव तु सर्वेषाम अकार्याणां विधिर भवेत बराह्मणॊक्तेन विधिना दृष्टान्तागमहेतुभिः ॥ 32 ॥
सावित्रीम अप्य अधीयानः शुचौ देशे मिताशनः अहिंस्रॊ ऽमन्दकॊ ऽजल्पन मुच्यते सर्वकिल्बिषैः ॥ 33 ॥
अहःसु सततं तिष्ठेद अभ्याकाशं निशि सवपेत तरिर अह्नस तरिर निशायाश च स वासा जलम आविशेत ॥ 34 ॥
सत्री शूद्र पतितांश चापि नाभिभाषेद वरतान्वितः पापान्य अज्ञानतः कृत्वा मुच्येद एवं वरतॊ दविजः ॥ 35 ॥
शुभाशुभफलं परेत्य लभते भूतसाक्षिकः अतिरिच्येत तयॊर यत तु तत कर्ता लभते फलम ॥ 36 ॥
तस्माद दानेन तपसा कर्मणा च शुभं फलम वर्धयेद अशुभं कृत्वा यथा सयाद अतिरेकवान ॥ 37 ॥
कुर्याच छुभानि कर्माणि निमित्ते पापकर्मणाम दद्यान नित्यं च वित्तानि तथा मुच्येत किल्बिषात ॥ 38 ॥
अनुरूपं हि पापस्य परायश्चित्तम उदाहृतम महापातक वर्जं तु परायश्चित्तं विधीयते ॥ 39 ॥
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च अज्ञानज्ञानयॊ राजन विहितान्य अनुजानते ॥ 40 ॥
जानता तु कृतं पापं गुरु सर्वं भवत्य उत अज्ञानात सखलिते दॊषे परायश्चित्तं विधीयते ॥ 41 ॥
शक्यते विधिना पापं यथॊक्तेन वयपॊहितुम आस्तिके शरद्दधाने तु विधिर एष विधीयते ॥ 42 ॥
नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन दम्भदॊषप्रधानेषु विधिर एष न दृश्यते ॥ 43 ॥
शिष्टाचारश च शिष्टश च धर्मॊ धर्मभृतां वर सेवितव्यॊ नरव्याघ्र परेत्य चेह सुखार्थिना ॥ 44 ॥
स राजन मॊक्ष्यसे पापात तेन पूर्वेण हेतुना तराणार्थं वा वधेनैषाम अथ वा नृप कर्मणा ॥ 45 ॥
अथ वा ते घृणा का चित परायश्चित्तं चरिष्यसि मा तव एवानार्य जुष्टेन कर्मणा निधनं गमः ॥ 46 ॥
शान्तिपर्व · Shanti Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37