धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 35

  1. [युधिस्ठिर] कानि कृत्वेह कर्माणि परायश्चित्तीयते नरः किं कृत्वा चैव मुच्येत तन मे बरूहि पितामहः ॥ 1 ॥

  2. [वयास] अकुर्वन विहितं कर्म परतिषिद्धानि चाचरन परायश्चित्तीयते हय एवं नरॊ मिथ्या च वर्तयन ॥ 2 ॥

  3. सूर्येणाभ्युदितॊ यश च बरह्म चारी भवत्य उत तथा सूर्याभिनिर्मुक्तः कुनखी शयावदन्न अपि ॥ 3 ॥

  4. परिवित्तिः परिवेत्ता बरह्मॊज्झॊ यश च कुत्सकः दिधिषू पतिस तथा यः सयाद अग्रे दिधिषुर एव च ॥ 4 ॥

  5. अवकीर्णी भवेद यश च दविजातिवधकस तथा अतीर्थे बरह्मणस तयागी तीर्थे चाप्रतिपादकः ॥ 5 ॥

  6. गरामयाजी च कौन्तेय राज्ञश च परिविक्रयी शूद्र सत्रीवधकॊ यश च पूर्वः पूर्वस तु गर्हितः ॥ 6 ॥

  7. वृथा पशुसमालम्भी वनदाहस्य कारकः अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा ॥ 7 ॥

  8. यश चाग्नीन अपविध्येत तथैव बरह्म विक्रयी एतान्य एनांसि सर्वाणि वयुत्क्रान्त समयश च यः ॥ 8 ॥

  9. अकार्याण्य अपि वक्ष्यामि यानि तानि निबॊध मे लॊकवेद विरुद्धानि तान्य एकाग्रमनाः शृणु ॥ 9 ॥

  10. सवधर्मस्य परित्यागः परधर्मस्य च करिया अयाज्य याजनं चैव तथाभक्ष्यस्य भक्षणम ॥ 10 ॥

  11. शरणागत संत्यागॊ भृत्यस्याभरणं तथा रसानां विक्रयश चापि तिर्यग्यॊनिवधस तथा ॥ 11 ॥

  12. आधानादीनि कर्माणि शक्तिमान न करॊति यः अप्रयच्छंश च सर्वाणि नित्यं देयानि भारत ॥ 12 ॥

  13. दक्षिणानाम अदानं च बराह्मण सवाभिमर्शनम सर्वाण्य एतान्य अकार्याणि पराहुर धर्मविदॊ जनाः ॥ 13 ॥

  14. पित्रा विभजते पुत्रॊ यश च सयाद गुरु तल्प गः अप्रजायन्न अधर्मेण भवत्य आधर्मिकॊ जनः ॥ 14 ॥

  15. उक्तान्य एतानि कर्माणि विस्तरेणेतरेण च यानि कुर्वन्न अकुर्वंश च परायश्चित्तीयते जनः ॥ 15 ॥

  16. एतान्य एव तु कर्माणि करियमाणानि मानवान येषु येषु निमित्तेषु न लिम्पन्त्य अथ तच छृणु ॥ 16 ॥

  17. परगृह्य शस्त्रम आयान्तम अपि वेदान्तगं रणे जिघांसन्तं निहत्याजौ न तेन बरह्म हा भवेत ॥ 17 ॥

  18. अपि चाप्य अत्र कौन्तेय मन्त्रॊ वेदेषु पठ्यते वेद परमाण विहितं तं धर्मं परब्रवीमि ते ॥ 18 ॥

  19. अपेतं बराह्मणं वृत्ताद यॊ हन्याद आततायिनम न तेन बरह्म हा स सयान मन्युस तं मन्युम ऋच्छति ॥ 19 ॥

  20. पराणात्यये तथाज्ञानाद आचरन मदिराम अपि अचॊदितॊ धर्मपरः पुनः संस्कारम अर्हति ॥ 20 ॥

  21. एतत ते सर्वम आख्यातं कौन्तेयाभक्ष्य भक्षणम परायश्चीत विधानेन सर्वम एतेन शुध्यति ॥ 21 ॥

  22. गुरु तल्पं हि गुर्वर्थे न दूषयति मानवम उद्दालकः शवेतकेतुं जनयाम आस शिष्यतः ॥ 22 ॥

  23. सतेयं कुर्वंस तु गुर्वर्थम आपत्सु न निबध्यते बहुशः कामकारेण न चेद यः संप्रवर्तते ॥ 23 ॥

  24. अन्यत्र बराह्मण सवेभ्य आददानॊ न दुष्यति सवयम अप्राशिता यश च न स पापेन लिप्यते ॥ 24 ॥

  25. पराणत्राणे ऽनृतं वाच्यम आत्मनॊ वा परस्य वा गुर्वर्थे सत्रीषु चैव सयाद विवाह करणेषु च ॥ 25 ॥

  26. नावर्तते वरतं सवप्ने शुक्रमॊक्षे कथं चन आज्यहॊमः समिद्धे ऽगनौ परायश्चित्तं विधीयते ॥ 26 ॥

  27. पारिवित्त्यं च पतिते नास्ति परव्रजिते तथा भिक्षिते पारदार्यं च न तद धर्मस्य दूषकम ॥ 27 ॥

  28. वृथा पशुसमालम्भं नैव कुर्यान न कारयेत अनुग्रहः पशूणां हि संस्कारॊ विधिचॊदितः ॥ 28 ॥

  29. अनर्हे बराह्मणे दत्तम अज्ञानात तन न दूषकम स कारणं तथा तीर्थे ऽतीर्थे वा परतिपादनम ॥ 29 ॥

  30. सत्रियस तथापचारिण्यॊ निष्कृतिः सयाद अदूषिका अपि सा पूयते तेन न तु भर्ता परदुष्यते ॥ 30 ॥

  31. तत्त्वं जञात्वा तु सॊमस्य विक्रयः सयाद अदूषकः असमर्थस्य भृत्यस्य विसर्गः सयाद अदॊषवान वनदाहॊ गवाम अर्थे करियमाणॊ न दूषकः ॥ 31 ॥

  32. उक्तान्य एतानि कर्माणि यानि कुर्वन न दुष्यति परायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 36

Previous: अध्याय 34